पिताहमस्य जगतो...
पठन सेटिंग्स
(९.१७ पितामह्स्य जग.... इत्यस्मात् पुनर्निर्दिष्टम्)
श्लोकः
[सम्पादयतु]अयं लेखः विकिपीडिया-विश्वकोषस्य अन्यलेखैः सह संयोजनीयः । सन्दर्भानुगुणं परिसन्धयः योज्यन्ताम् । तेन(जनुवरि २०१४) |
- पिताहमस्य जगतो माता धाता पितामहः ।
- वेद्यं पवित्रमोङ्कारः ऋक्साम यजुरेव च ॥ १७ ॥
अयं भगवद्गीतायाः नवमोध्यायस्य राजविद्याराजगुह्ययोगस्य सप्तदशः(१७) श्लोकः ।
पदच्छेदः
[सम्पादयतु]पिताहम् अस्य जगतः माता धाता पितामहः वेद्यं पवित्रम् ओङ्कारः ऋक्साम यजुरेव च ॥ १७ ॥
अन्वयः
[सम्पादयतु]अस्य जगतः पिता माता धाता पितामहः वेद्यं पवित्रम् ओङ्कारः ऋक् साम यजुः च अहम् एव ।
शब्दार्थः
[सम्पादयतु]- अस्य = एतस्य
- जगतः = प्रपञ्चस्य
- पिता = जनकः
- माता = जननी
- धाता = पोषयिता
- पितामहः = पितुः पिता
- वेद्यम् = वेदितव्यं वस्तु
- पवित्रम् = पावनं वस्तु
- ओारः = प्रणवः
- ऋक् = ऋग्वेदः
- साम = सामवेदः
- यजुः च = यजुर्वेदः च
- अहमेव = अहमेव ।
अर्थः
[सम्पादयतु]अहमेव अस्य जगतः पिता, माता, पोषयिता, पितामहः, ज्ञेयं वस्तु, पावयिता, ओारः, ऋग्वेदादिश्च अस्मि।