येऽप्यन्यदेवता भक्ता...
दिखावट
(९.२३ येऽप्यन्यदेवताः.... इत्यस्मात् पुनर्निर्दिष्टम्)
श्लोकः
[सम्पादयतु]अयं लेखः विकिपीडिया-विश्वकोषस्य अन्यलेखैः सह संयोजनीयः । सन्दर्भानुगुणं परिसन्धयः योज्यन्ताम् । तेन(जनुवरि २०१४) |
- येऽप्यन्यदेवता भक्ता यजन्ते श्रद्धयान्विताः ।
- तेऽपि मामेव कौन्तेय यजन्त्यविधिपूर्वकम् ॥ २३ ॥
अयं भगवद्गीतायाः नवमोध्यायस्य राजविद्याराजगुह्ययोगस्य त्रयोविंशतितमः(२३) श्लोकः ।
पदच्छेदः
[सम्पादयतु]ये अपि अन्यदेवताः भक्ताः यजन्ते श्रद्धया अन्विताः ते अपि माम् एव कौन्तेय यजन्ति अविधिपूर्वकम् ॥ २३ ॥
अन्वयः
[सम्पादयतु]कौन्तेय ! ये भक्ताः अपि श्रद्धया अन्विताः अन्यदेवताः यजन्ते ते अपि अविधिपूर्वकं माम् एव यजन्ति ।
शब्दार्थः
[सम्पादयतु]- कौन्तेय = हे अर्जुन !
- ये भक्ताः अपि = ये भक्ताः
- श्रद्धया = आसक्त्या
- अन्विताः = संयुक्ताः
- अन्यदेवताः = इतरदेवताः
- यजन्ते = उपासते
- ते अपि = ते मानवाः
- अविधिपूर्वकम् = अज्ञानपूर्वकम्
- मामेव यजन्ति = मामेव अर्चन्ति ।
अर्थः
[सम्पादयतु]येऽपि इन्द्रादीन् अन्यान् देवान् श्रद्धायुक्ताः पूजयन्ति ते अजानन्तः मामेव पूजयन्ति इति तेषामपि अभ्युदयः अवश्यं भवति, किन्तु न शाश्वतः इति विशेषः ।
सम्बद्धसम्पर्कतन्तुः
[सम्पादयतु][[वर्गः:राजविद्याराजगुह्ययोगः] | 23]