यावत्सञ्जायते किञ्चित्...
दिखावट
(13.26 यावत्सञ्जायते. इत्यस्मात् पुनर्निर्दिष्टम्)
श्लोकः
[सम्पादयतु]अयं लेखः विकिपीडिया-विश्वकोषस्य अन्यलेखैः सह संयोजनीयः । सन्दर्भानुगुणं परिसन्धयः योज्यन्ताम् । तेन(जनुवरि २०१४) |
- यावत्सञ्जायते किञ्चित्सत्त्वं स्थावरजङ्गमम् ।
- क्षेत्रक्षेत्रज्ञसंयोगात्तद्विद्धि भरतर्षभ ॥ २६ ॥
अयं भगवद्गीतायाः त्रयोदशोध्यायस्य क्षेत्रक्षेत्रज्ञविभागयोगस्य षड्विंशतितमः(२६) श्लोकः ।
पदच्छेदः
[सम्पादयतु]यावत् सञ्जायते किञ्चित् सत्त्वं स्थावरजङ्गमं क्षेत्रक्षेत्रज्ञसंयोगात् तत् विद्धि भरतर्षभ ॥ २६ ॥
अन्वयः
[सम्पादयतु]भरतर्षभ ! स्थावरजङ्गमं किञ्चित् सत्त्वं यावत् सञ्जायते तत् क्षेत्रक्षेत्रज्ञसंयोगात् विद्धि ।
शब्दार्थः
[सम्पादयतु]- भरतर्षभ = भरतश्रे !
- स्थावरजङ्गमम् = चरम् अचरं च
- सत्त्वम् = वस्तु
- क्षेत्रक्षेत्रज्ञसंयोगात् = जीवशरीरसम्बन्धात्
- विद्धि = जानीहि ।
अर्थः
[सम्पादयतु]भरतश्रे ! स्थावरं जङ्गमं वा यत्किञ्चित् वस्तु अत्र यत् सम्भवति तत् शरीरपुरुषसम्बन्धात् सम्भवतीति जानीहि ।