सत्त्वात्सञ्जायते ज्ञानं...
दिखावट
(14.17 सत्वात् सञ्जायते….. इत्यस्मात् पुनर्निर्दिष्टम्)
श्लोकः
[सम्पादयतु]अयं लेखः विकिपीडिया-विश्वकोषस्य अन्यलेखैः सह संयोजनीयः । सन्दर्भानुगुणं परिसन्धयः योज्यन्ताम् । तेन(जनुवरि २०१४) |
- सत्त्वात्सञ्जायते ज्ञानं रजसो लोभ एव च ।
- प्रमादमोहौ तमसो भवतोऽज्ञानमेव च ॥ १७ ॥
अयं भगवद्गीतायाः चतुर्दशोऽध्यायस्य गुणत्रयविभागयोगस्य सप्तदशः(१७) श्लोकः ।
पदच्छेदः
[सम्पादयतु]सत्त्वात् सञ्जायते ज्ञानं रजसः लोभः एव च प्रमादमोहौ तमसः भवतः अज्ञानम् एव च ॥ १७ ॥
अन्वयः
[सम्पादयतु]सत्त्वात् ज्ञानं सञ्जायते रजसः लोभः एव च । तमसः प्रमादमोहौ भवतः अज्ञानम् एव च ।
शब्दार्थः
[सम्पादयतु]- सत्त्वात् = सत्त्वगुणात्
- ज्ञानम् = विवेकः
- रजसः = रजोगुणात्
- तमसः = तमोगुणात्
- प्रमोदमोहौ = प्रमोदः मोहश्च
- भवतः = सम्भवतः ।
अर्थः
[सम्पादयतु]सत्त्वगुणात् विवेकः सम्भवति । रजोगुणात् तृष्णा । तमोगुणात् अज्ञानप्रयुक्तौ मोहप्रमादौ सम्भवतः ।