तमस्त्वज्ञानजं विद्धि...
दिखावट
(14.8 तमस्त्वज्ञानजं….. इत्यस्मात् पुनर्निर्दिष्टम्)
श्लोकः
[सम्पादयतु]अयं लेखः विकिपीडिया-विश्वकोषस्य अन्यलेखैः सह संयोजनीयः । सन्दर्भानुगुणं परिसन्धयः योज्यन्ताम् । तेन(जनुवरि २०१४) |
- तमस्त्वज्ञानजं विद्धि मोहनं सर्वदेहिनाम् ।
- प्रमादालस्यनिद्राभिस्तन्निबध्नाति भारत ॥ ८ ॥
अयं भगवद्गीतायाः चतुर्दशोऽध्यायस्य गुणत्रयविभागयोगस्य अष्टमः(८) श्लोकः ।
पदच्छेदः
[सम्पादयतु]तमः तु अज्ञानजं विद्धि मोहनं सर्वदेहिनाम् प्रमादालस्यनिद्राभिः तत् निबध्नाति भारत ॥ ८ ॥
अन्वयः
[सम्पादयतु]भारत ! सर्वदेहिनां मोहनं तमः तु अज्ञानजं विद्धि । तत् प्रमादालस्यनिद्राभिः निबध्नाति ।
शब्दार्थः
[सम्पादयतु]- सर्वदेहिनाम् = सकलशरीरभृताम्
- मोहनम् = अविवेककरम्
- तमः = तमोगुणः
- अज्ञानजम् = अविवेकजनितम्
- प्रमादात् = अनवधानात् ।
अर्थः
[सम्पादयतु]अर्जुन ! गुणेषु यत् तृतीयं तमः अज्ञानात् सम्भवति । इदं च तमः सर्वेषां प्राणिनां भ्रान्तिं जनयति । अनेन गुणेन सर्वेषाम् अनवधानं जाड्यं निद्रा च सम्भवति । एवमिदं तमः पुरुषं संसारे बध्नाति ।