मृत्तिका
मृत्तिका ( ( शृणु) /ˈmrttɪkɑː/) (हिन्दी: मिट्टी, आङ्ग्ल: Clay) धरातलस्य वृक्षाणां, तृणस्य, सस्यानां च पोषणकर्त्री अस्ति । मृत्तिकया विना तृणस्य अंशः अपि न उत्पद्यते । जलीयपादपाः जले जीवन्ति, किन्तु ते पादपाः मृत्तिकया अपि पोषणं गृह्णन्ति । मृत्तिका भूपर्पटेः महत्वपूर्णं स्तरः अस्ति । सस्यानाम् आधारः भूमिः वर्तते । अतः अस्माकं भोजनं, वस्त्रं च अपि मृत्तिकाधारितं वर्तते । मृत्तिका आवश्यकता प्रतिदिनं भवति । मृत्तिकायाः विकासः सहस्रवर्षेषु भवति ।
मृत्तिका शैलानां, जैवसामग्रीणां च मिश्रणं भवति । खानिजकणः, ह्युमस्, जलं, वायुः च मृत्तिकायाः घटकः वर्तते । एतेषु घटकेषु प्रत्येकस्य वास्तविकमात्रा मृत्तिकायाः प्रकारोपरि आधारिता भवति ।[१]
मृत्तिकायाः अवस्थाः
[सम्पादयतु]भूम्यां मृत्तिकायाः त्रयः स्तराः प्राप्यन्ते । ते स्तराः संस्तरम् इति कथ्यते । तेषु ’क’ संस्तरः सर्वोपरि विद्यते । तत्र पादपानां वृद्ध्यर्थम् अनिवार्यजैवपदार्थानां खानिजपदार्थेन, पोषकतत्त्वैः, जलेन च सह संयोगः भवति । ’ख’ संस्तरः ’क’ संस्तरेण, ’ग’ संस्तरेण अपि पोषकतत्त्वानि प्राप्नोति । ’ग’ संस्तरात् एव मृत्तिकानिर्माणस्य प्रक्रियायाः आरम्भः भवति । ’क’ संस्तरस्य, ’ख’ संस्तरस्य च निर्माणं ’ग’ संस्तरेण एव भवति । स्तराणाम् इयं व्यवस्था मृत्तिकापरिच्छेदिका कथ्यते । एषां त्रयाणां स्तराणाम् अधः शैलः भवति । सः शैलः मृत्तिकायाः आधारः कथ्यते ।[२] मृत्तिकायाः अस्तित्वं जटिलं भिन्नं च वर्तते । मृत्तिकायाः महत्त्वं वैज्ञानिकाध्ययनेन ज्ञायते । अतः वैज्ञानिकाः मृत्तिकया आकर्षिताः सन्ति । वैज्ञानिकैः मृत्तिकायाः वर्गीकरणं कृतम् अस्ति ।
मृत्तिकायाःवर्गीकरणम्
[सम्पादयतु]भारत-देशे भिन्न-भिन्नः वायुः, वनस्पतयः , परिमण्डलानि च प्राप्यन्ते । प्राचीने काले मृत्तिकायाः द्वौ भागौ आस्ताम् । उर्वरा, अनुर्वरा च । उत्पत्त्याः, वर्णस्य, संयोजनस्य, अवस्थितेः च आधारेण भारतस्य मृत्तिकाः निम्नलिखितेषु प्रकारेषु वर्गीकृताः सन्ति ।[३]
१. जलोढ-मृत्तिका
२. कृष्णमृत्तिका
३. रक्तपीतमृत्तिका
४. लैटेराइट्-मृत्तिका
५. शुष्कमृत्तिका
६. लवणमृत्तिका
७. पीटमयमृत्तिका
८. वनमृत्तिका
जलोढ-मृत्तिका
[सम्पादयतु]जलोढ-मृत्तिका औत्तरीयक्षेत्रेषु, नदीद्रोण्याः विस्तृतभागेषु प्राप्यते । भारतदेशस्य ४०% भागेषु इयं मृत्तिका विद्यते । राजस्थान-राज्यतः गुजरात-राज्यपर्यन्तम् इयं मृत्तिका विस्तृता अस्ति । प्रायद्वीपीयप्रदेशेषु अपि प्राप्यते ।
इयं मृत्तिका स्निग्धा वर्तते । अस्यां पोटाश् इत्यस्य मात्रा अधिका भवति । फास्फोरस् इत्यस्य मात्रा न्यूना वर्तते । गङ्गायाः मध्यवर्तीक्षेत्रेषु खादर, बाङ्गर इति नामके द्वे मृत्तिके प्राप्येते । अनयोः मृत्तिकयोः कैल्सियमी-सङ्ग्रथनं प्राप्यते । निम्नमध्यगङ्गायाः क्षेत्रेषु, ब्रह्मपुत्रनद्याः द्रोणिषु इमे मृत्तिके अधिके मृण्मये स्तः । जलोढमृत्तिकायाः राक्षा इव विद्यते । अस्यां मृत्तिकायां गहना कृषिः क्रियते ।[४]
कृष्णमृत्तिका
[सम्पादयतु]कृष्णमृत्तिका दक्कन इत्यस्य शैलप्रस्थे प्राप्यते । महाराष्ट्र-राज्यस्य, गुजरात-राज्यस्य, आन्ध्रप्रदेश-राज्यस्य, तमिळनाडु-राज्यस्य केचित् भागाः सम्मिलिताः सन्ति । गोदावरीनद्याः उपरिभागेषु, दक्कन इत्यस्य शैलप्रस्थस्य उत्तर-पश्चिमभागे असिता कृष्णमृत्तिका प्राप्यते । इयं मृत्तिका रेगर्, कार्पासस्य कृष्णमृत्तिका अपि कथ्यते । सामान्यतः कृष्णमृत्तिका मृण्मयी, असिता, अपारगम्या च भवति । इयं मृत्तिका आर्द्रायाम् उत्फुल्लति, शुष्के सति सङ्कुचति च । अनेन कारणेन शुष्कर्तौ इयं मृत्तिका विस्फुटति । इयं मृत्तिका जलस्य अवशोषणं करोति । तेन कारणेन दीर्घकालं यावत् अस्यां मृत्तिकायाम् आर्द्रता भवति । अतः शुष्कर्तौ अपि सस्यानि मृत्तिकायाः आर्द्रता प्राप्यते । तेन सस्यानां विकासः भवति ।[५]
रासायनिकदृष्ट्या कृष्णमृत्तिकायां चूर्णः, लौहः, मैग्नीशिया, ऐलुमिना इत्येतेषां तत्वानि अधिकमात्रायां प्राप्यन्ते । पोटाश् इत्ययम् अपि अस्यां मृत्तिकायां प्राप्यते । किन्तु अस्यां मृत्तिकायां फास्फोरस्, नाइट्रोजन, जैवः च इत्येतेषां पदार्थानां मात्रा न्यूना भवति ।
रक्तपीतमृत्तिका
[सम्पादयतु]दक्कन इत्यस्य शैलप्रस्थस्य पूर्वभागे , दक्षिणभागे, अल्पवृष्टिक्षेत्रेषु च रक्तमृत्तिकायाः विकासः अभवत् । तत्र आग्नेयशैलाः प्राप्यन्ते । पश्चिमीघाट इत्यस्य गिरिपदक्षेत्रे एकस्मिन् लम्बविस्तारे रक्तदुमटीमृत्तिका प्राप्यते । ओडिशा-राज्यस्य, छत्तीसगढ-राज्यस्य च केषुचित् भागेषु, मध्यगङ्गायाः क्षेत्रस्य दक्षिणभागे च पीतरक्तमृत्तिका प्राप्यते । कायान्तरितशैलैषु लौहतत्वैः इयं मृत्तिका रक्तवर्णीया वर्तते । इयं मृत्तिका उर्वरा भवति । अस्यां मृत्तिकायां नाइट्रोजन्, फास्फोरस् ह्यूमस् इत्यस्य न्यूनता भवति ।[६]
लैटेराइट् मृत्तिका
[सम्पादयतु]लैटेराइट् इति शब्दः लेटर् इति लेटिन् शब्देन निष्पद्यते । अस्य शब्दस्य अर्थः इष्टिका वर्तते । लैटेराइट् मृत्तिका उच्चतापमाने, अधिकवृष्ट्याधारितक्षेत्रेषु च उत्पद्यते । उष्णकटीबन्धीयवर्षया तीव्रनिक्षालनं भवति । उच्चतापमाने उत्पद्यमानाः जीवाणवः ह्यूमस् इत्यस्य मात्राम् अल्पीकुर्वन्ति । अस्यां मृत्तिकायां जैवपदार्थानां, नाइट्रोजन्, फास्फेट्, कैल्सियम् इत्येतेषां न्यूनता भवति । लौह-ऑक्साइड, पोटाश् इत्यस्य अधिकता वर्तते । तेन कारणेन लैटेराइट् मृत्तिका कृषेः उर्वरा नास्ति । सस्यानाम् उत्पादने उर्वरकस्य आवश्यकता भवति ।
तमिळनाडु-राज्ये, आन्ध्रप्रदेश-राज्ये, केरल-राज्ये काजूतकस्य वृक्षाः इव सस्यानां कृषेः रक्त-लैटेराइट् मृत्तिकायाः उपयोगः भवति ।[७]
भवननिर्माणे उपयुक्तायाः ईष्टिकायाः निर्माणाय लैटेराइट्-मृत्तिकाः प्रयुज्यन्ते । आसां मृत्तिकानां विकासः मुख्यत्वेन प्रायद्वीपीयशैलप्रस्थेषु अभवत् । कर्नाटक-राज्यस्य, केरल-राज्यस्य, तमिळनाडु-राज्यस्य, मध्यप्रदेश-राज्यस्य, ओडिशा-राज्यस्य, असम-राज्यस्य च पर्वतक्षेत्रेषु प्राप्यन्ते ।[८]
शुष्कमृत्तिका
[सम्पादयतु]शुष्कमृत्तिका रक्तवर्णीया, शुष्कद्राक्षवर्णीया च वर्तते । अस्याः प्रकृतिः लावणा वर्तते । केषाञ्चित् क्षेत्राणां मृत्तिकायां लवणस्य मात्रा अधिका भवति । अतः तस्याः जलं बाष्पीकृत्य लवणं प्राप्यते । अस्यां मृत्तिकायाम् आर्द्रता, ह्यूमस् इति च न्यूनं भवति । अस्यां नाइट्रोजन्, फॉस्फेट् इति इमे सामान्यमात्रायां प्राप्येते । अस्याः मृत्तिकायाः आन्तरिके भागे चूर्णस्य मात्रायां वृद्धिः भवति । तेन कारणेन अधस्थेषु संस्तरेषु लघुपाषाणस्य स्तरः भवति । लघुपाषाणस्य स्तरेण जलस्य प्रवाहः न्यूनः भवति । अतः सेचने अस्यां मृत्तिकायां पादपानां वृद्ध्यर्थं जलं सदैव प्राप्यते । इयं मृत्तिका राजस्थान-राज्यस्य पश्चिमभागे प्राप्यते । इयं मृत्तिका अनुर्वरा वर्तते । कारणम् अस्यां मृत्तिकायां ह्यूमस्, जैवपदार्थाः च न प्राप्यन्ते ।[९]
लवणमृत्तिका
[सम्पादयतु]इयं मृत्तिका ऊसर्-मृत्तिका अपि कथ्यते । लवणमृत्तिकासु सोडियम्, पौटेशियम्, मैग्नीशियम् च इत्येतेषां मात्रा अधिका भवति । इयं मृत्तिका अनुर्वरा वर्तते । अतः अस्यां मृत्तिकायां किमपि न उत्पद्यते । शुष्कजलवायोः, अपवाहस्य च कारणेन अस्यां मृत्तिकायां लवणस्य मात्रा वर्धते । अस्यां नाइट्रोजन्, चूर्णस्य न्यूनता भवति । गुजरात-राज्यस्य पश्चिमे भागे, पश्चिमबङ्गाल-राज्यस्य सुन्दरवनक्षेत्रेषु च इयं मृत्तिका प्राप्यते ।[१०]
पीटमयमृत्तिका
[सम्पादयतु]यत्र वर्षा अधिका, आर्द्रता अपि अधिका भवति, तत्र इयं मृत्तिका प्राप्यते । अतः तेषु क्षेत्रेषु अधिकमात्रायां जैवपदार्थाः एकत्रिताः भवन्ति । तेन ह्यूमस्, जैवतत्त्वाः च पर्याप्तमात्रायां प्राप्यन्ते । अस्यां मृत्तिकायां जैवपदार्थाः ४०% तः ५०% पर्यन्तं भवन्ति । इयं मृत्तिका प्रायः कृष्णवर्णीया भवति । बिहार-राज्यस्य उत्तरभागे, उत्तराञ्चल-राज्यस्य दक्षिणभागे, पश्चिमबङ्गाल-राज्यस्य तटीयक्षेत्रेषु, ऊडीसा-राज्ये, तमिळनाडु-राज्ये च इयं मृत्तिका प्राप्यते ।[११]
वनमृत्तिका
[सम्पादयतु]येषु वनेषु पर्याप्तमात्रायां वर्षा भवति तत्र इयं मृत्तिका प्राप्यते । पर्वतीये पर्यावरणे अस्याः मृत्तिकायाः निर्माणं भवति । पर्यावरणस्य परिवर्तनानुसारं तत्र मृत्तिकायाः संरचना परिवर्तिता भवति । इयम् अम्लीया भवति । अस्यां ह्यूमस् इति प्राप्यते । अधस्थासु घाटीषु प्राप्ता मृत्तिका अनुर्वरा भवति ।
सस्यानां, वनस्पतीनां च वृद्ध्यर्थं मृत्तिकायाः गठनं, गुणाः, प्रकृतिः च महत्वपूर्णा भवति ।[१२]
मृत्तिकायाः अवकर्षणम्
[सम्पादयतु]मृत्तिकायाः अवकर्षणं मृत्तिकायाः ह्रासत्वेन परिभाषते । अवकर्षणेन मृत्तिकायाः पोषणस्तरः न्यूनः भवति । अपरदनेन दुरुपयोगेन मृत्तिकायाः गहनता अपि न्यूना भवति । भारत-देशे मृत्तिकासंसाधनानां क्षयस्य मुख्यः कारकः मृदः अवकर्षणम् अस्ति । भू-आकृतेः, वायोः गतेः, वर्षायाः मात्रायाः च अनुसारं मृत्तिकायाः अवकर्षणमानं सर्वत्र भिन्नं वर्तते ।[१३]
मृत्तिकायाः अपरदनम्
[सम्पादयतु]मृत्तिकायाः आवरणस्य विनाशः मृत्तिका-अपरदनं कथ्यते । मृत्तिकायाः अपरदने मानवीयगतिविधिः विशेषतः उत्तरदायी वर्तते । जनसङ्ख्यावृद्ध्या स्थलस्य अपि आवश्यकता भवति । मानवानां निवासार्थं, पशुपालनार्थम्, अन्यासाम् आवश्यकतानां पूर्त्यर्थं च वनानां वनस्पतीनां छेदनं क्रियते ।
वायुः, जलं च मृत्तिकायाः अपरदनस्य मुख्ये कारके स्तः ।
वायुना मृत्तिकायाः अपरदनं शुष्कस्थलेषु भवति । यत्र वर्षा अधिका भवति, तत्र जलस्य प्रवाहेण मृत्तिकायाः अपरदनं भवति । जल-अपरदनस्य रूपद्वयं वर्तते । स्तर-अपरदनं, अवनालिका-अपरदनं च । सघनवृष्ट्यनन्तरं समतलभूमौ स्तर-अपरदनं भवति । अस्यां क्रियायां मृत्तिकायाः अपरदनं न दृश्यते । किन्तु इदम् अधिकं हानिकारकं वर्तते । यतः अनेन उर्वरमृत्तिकायाः स्तरः सर्पति । तीव्रघाटीषु अवनालिका-अपरदनं भवति । अवनालिका-अपरदनेन कृषिभूमेः विभागाः भवन्ति । तेन कारणेन सा भूमिः अनुपयुक्ता भवति ।
मृत्तिका अपरदनं भारतीयकृषेः एका गम्भीरसमस्या अस्ति । अस्याः समस्यायाः दुष्प्रभावाः अन्येषु क्षेत्रेषु अपि दृश्यन्ते । नदीनां घाटीषु अपरदिताः पदार्थाः एकत्रिताः भवन्ति । तेन कारणेन जलस्य प्रवाहः न्यूनः भवति । अतः कृषिभूमिः नश्यति ।
मृत्तिकायाः अपरदनस्य प्रमुखेषु कारणेषु वनोन्मूलनम् अन्यतमं कारणं वर्तते । पादपानां मूलानि मृत्तिकां बद्ध्वा अपरदनम् अवरून्धन्ति । पादपैः पत्राणि, शाखाश्च पतन्ति । मृत्तिकापत्रैः, शाखाभिः च ह्यूमस् इति प्राप्यते ।[१४]
भारतस्य सिञ्चितक्षेत्रेषु कृषियोग्यभूमेः बृहद्भागः सेचनस्य प्रभावेण लावणः भवति । मृत्तिकायाः आन्तरिके भागे स्थितं लवणं बहिरागत्य भूमेः उर्वरतां नाशयति । रासायनिकम् उर्वरकम् अपि मृत्तिकायै हानिकारकम् अस्ति ।
प्रतिवर्षं भारत-देशे अवकर्षणस्य कारकानि बहुमात्रायां मृत्तिकायाः तथा तासां तत्त्वानां ह्रासं कुर्वन्ति । अस्माकं राष्ट्रियोत्पादकतायां तस्य दुष्प्रभावः भवति । अतः मृत्तिकायाः उद्धरणार्थं, संरक्षणार्थं च उपायाः करणीयाः ।[१५]
मृत्तिकायाः संरक्षणम्
[सम्पादयतु]यदि मृत्तिकायाः अपरदनं, क्षयः च मानवैः क्रियते, तर्हि तासां संरक्षणमपि मानवाः कर्तुं समर्थाः । मृत्तिकायाः संरक्षणम् एकः विधिः वर्तते । अनेन विधिना मृत्तिकायाः उर्वरतायां वृद्धिः भवति । मृत्तिकायाः अपरदनं, क्षयः च अनेन विधिना अवरोद्धुं शक्यम् ।
मृत्तिकायाः अपरदनं दोषपूर्णपद्धतिभिः वर्धते । १५% तः २५% घाटीप्रवणताभूमेः उपयोगः कृषये न करणीयः । यदि कृषिः आवश्यकी वर्तते, तर्हि सोपानानि इव क्षेत्राणि निर्मापणीयानि । भारत-देशस्य विभिन्नभागेषु स्थानान्तरितकृष्या भूमेः प्राकृतिकम् आवरणं दुष्प्रभावितम् अभवत् । तेन कारणेन विस्तृतानि क्षेत्राणि अपरदनेन प्रभावितानि सन्ति । अपरदनस्य दुष्परिणामैः ग्रामवासिनः अवबोधनीयाः ।
भारत-सर्वकारेण "केन्द्रीय मृदा संरक्षण बोर्ड" नामकं सङ्घटनं स्थापितम् । अनेन सङ्घटनेन मृत्तिकायाः संरक्षणाय अनेकाः योजनाः कृताः । एताः योजनाः जलवायोः दशासु, भूमिसंरूपणे, जनानां सामाजिकव्यवहारे च आधारिताः सन्ति । भूमेः क्षमतानुसारम् एव वर्गीकरणं भवितव्यम् । भूमेः उपयोगस्य मानचित्राणि निर्मापणीयानि । ये जनाः मृत्तिकायाः उपयोगं कृत्वा लाभं प्राप्नुवन्ति, तैः मृत्तिकायाः संरक्षणस्य दायित्वं निर्वहणीयम् ।[१६]
सम्बद्धाः लेखाः
[सम्पादयतु]बाह्यानुबन्धः
[सम्पादयतु]विकिमीडिया कॉमन्स् मध्ये मृत्तिका सम्बन्धिताः सञ्चिकाः सन्ति। |
सन्दर्भः
[सम्पादयतु]- ↑ राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2006). भारत भौतिक पर्यावरण. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 71. ISBN 8174505598.
- ↑ राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2006). भारत भौतिक पर्यावरण. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 71. ISBN 8174505598.
- ↑ राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2006). भारत भौतिक पर्यावरण. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 72. ISBN 8174505598.
- ↑ राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2006). भारत भौतिक पर्यावरण. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 72. ISBN 8174505598.
- ↑ राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2006). भारत भौतिक पर्यावरण. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 74. ISBN 8174505598.
- ↑ राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2006). भारत भौतिक पर्यावरण. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 74. ISBN 8174505598.
- ↑ राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2006). भारत भौतिक पर्यावरण. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 74. ISBN 8174505598.
- ↑ राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2006). भारत भौतिक पर्यावरण. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 75. ISBN 8174505598.
- ↑ राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2006). भारत भौतिक पर्यावरण. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 75. ISBN 8174505598.
- ↑ राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2006). भारत भौतिक पर्यावरण. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 75. ISBN 8174505598.
- ↑ राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2006). भारत भौतिक पर्यावरण. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 75. ISBN 8174505598.
- ↑ राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2006). भारत भौतिक पर्यावरण. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 76. ISBN 8174505598.
- ↑ राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2006). भारत भौतिक पर्यावरण. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 76. ISBN 8174505598.
- ↑ राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2006). भारत भौतिक पर्यावरण. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 76. ISBN 8174505598.
- ↑ राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2006). भारत भौतिक पर्यावरण. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 77. ISBN 8174505598.
- ↑ राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2006). भारत भौतिक पर्यावरण. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 77. ISBN 8174505598.