सामग्री पर जाएँ

दौसामण्डलम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(Dausa district इत्यस्मात् पुनर्निर्दिष्टम्)
दौसामण्डलम्
मण्डलम्
राजस्थानराज्ये दौसामण्डलम्
राजस्थानराज्ये दौसामण्डलम्
Country भारतम्
States and territories of India राजस्थान
Area
  Total २,९५० km
Population
 (२००१)
  Total १६,३७,२२६
Website http://dausa.nic.in

दौसामण्डलं (हिन्दी: दौसा जिला, आङ्ग्ल: Dausa district) राजस्थानराज्ये स्थितं किञ्चन मण्डलम् । अस्य मण्डलस्य केन्द्रमस्ति दौसा इतीदं नगरम् ।

भौगोलिकम्

[सम्पादयतु]

दौसामण्डलस्य विस्तारः २९५० चतुरस्रकिलोमीटर्मितः अस्ति । अस्य मण्डलस्य पूर्वे करौलीमण्डलं, भरतपुरमण्डलं च, पश्चिमे जयपुरमण्डलम्, उत्तरे अलवरमण्डलं, दक्षिणे सवाई माधोपुरमण्डलम् अस्ति । अस्मिन् मण्डले सवा, बाणगङ्गा इत्येते द्वे नद्यौ प्रवहतः ।

जनसङ्ख्या

[सम्पादयतु]

२०११ जनगणनानुगुणं दौसामण्डलस्य जनसङ्ख्या १६३७२२६ अस्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते ४७६ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् ४७६ जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः २४.३१% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-९०४ अस्ति । अत्र साक्षरता ६९.१७ % अस्ति ।

उपमण्डलानि

[सम्पादयतु]

अस्मिन् मण्डले पञ्च उपमण्डलानि सन्ति । तानि-

  • बासवा
  • दौसा
  • लालसोट
  • माहवा
  • सिकरै

वीक्षणीयस्थलानि

[सम्पादयतु]

अस्मिन् मण्डले बहूनि प्रसिद्धानि वीक्षणीयस्थलानि सन्ति । तानि -

  • मेहन्दीपुर बालाजीमन्दिरम्
  • अभनेरी
  • बण्डारेज
  • खवारावजी
  • झाजी रामपुर
  • नीलकण्ठमन्दिरम्

इत्यादीनि ।

बाह्यानुबन्धाः

[सम्पादयतु]
"https://sa.wikipedia.org/w/index.php?title=दौसामण्डलम्&oldid=464745" इत्यस्माद् प्रतिप्राप्तम्