सामग्री पर जाएँ

मुर्शिदाबादमण्डलम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(Murshidabad इत्यस्मात् पुनर्निर्दिष्टम्)
मुर्शिदाबादमण्डलम्
मण्डलम्
देशः  भारतम्
राज्यम् पश्चिमबङ्गराज्यम्
प्रशासनिकविभागः प्रेसिडेन्सी
केन्द्रनगरम् बहरमपुर
Area
  Total ५,३२४ km
Population
 (2011)
  Total ७१,०२,४३०
  Density १,३३४/km
Time zone UTC+५:३० (भारतीय-मान-समयः)
लोकसभाकेन्द्राणि जङ्गीपुर, बहरमपुर, मुर्शिदाबाद
Website http://www.murshidabad.gov.in/

प्रसङ्गः

[सम्पादयतु]
मुर्शिदाबादस्य मुघलकालिनप्रतिकृतिः
मुर्शिदाबादस्य मुघलकालिनप्रतिकृतिः

मुर्शिदाबाद (Murshidabad)भारतीयराज्यपश्चिमबङ्गस्य एकं मण्डलम् । अस्य मण्डलस्य केन्द्रनगरं "बहरमपुर" इति । बहुधर्म-जाति-संस्कृतेः सङ्गमस्थलं मुर्शिदाबादमण्डलं वैचित्रम् आवहति । पर्यटकाः बौद्ध-ब्राह्मण-वैष्णव-जैन-इस्लामधर्मीयजनानाम् एकदेशीकरणमत्र परिलक्ष्ययितुं शक्नुवन्ति । सर्वोपरि क्षेत्रमिदम् ऐतिहासिकप्रसङ्गात् विश्वप्रसिद्धम् ।

नामेतिहासः

[सम्पादयतु]

क्रैस्तवीय प्रथमशतके महानगौडसम्राटशशाङ्कस्य राजधानी मुर्शिदबादमण्डलमासीत् । अष्टादशशतब्देः प्रथमार्धे मण्डलस्य वर्तमाननामकरणम् अभूत् । "मुर्शिदाबाद" इति नगरस्य नाम अनन्तरवर्तीकाले मण्डलस्यनाम अपि अभूत् । पुराकाले अस्य मण्डलस्य नाम मक्षुदाबाद मुघलराजा आकबरमहोदयेन दत्ता । "औरङ्गजेवशासनकाले" "कर्तलव खान्" अत्र सामन्तपदे आसीत् । औरङ्गजेव तस्मै मुर्शिद्-कुलि-खान् इति पदवीं दत्तवान् । १७०४ तमे वर्षे तस्यैव नामानुसारं मुर्शिदाबाद इति नगरस्य नाम अभूत् ।

प्रमुखदर्शनीयस्थलानि

[सम्पादयतु]

हजारदुयारी-अट्टालिका

[सम्पादयतु]
हजारदुयारी-अट्टालिका
हजारदुयारी-अट्टालिका
हजारदुयारी-अट्टालिका मुर्शिदाबादमण्डलस्य प्रमुखपर्यटनस्थलम् । अट्टालिकायां सहस्रद्वराणि सन्ति, परन्तु ९०० एव वास्तवद्वराणि अन्ये प्रतीकीमात्रम् । ४१ एकर अस्या विस्तारः । १८३७ तमे संवत्सरे डंकन मैकलियोडमहोदयः मीरजाफरस्य उत्तराधिकारी नवाब-नजीमहूमांयू-जाहाय पाश्चात्यशैल्या अट्टालिकानिर्माणं कृतवान् । मनोरमा इयं अट्टालिका पर्यटकहृदयान् आह्लादयति ।

संग्रहालयः

[सम्पादयतु]

अट्टालिकायाः समीपे एव विशालाकारसंग्रहालयः वर्तते । संग्रहालये शाहीनवाबजनानां आकर्षकवस्तुनि सन्ति । येषु अस्त्र-शस्त्रादयः, चित्रकलाकृतयः, हस्तिदन्तनिर्मितानि विविधवस्तुनि अन्यतमानि । अत्रस्थ सप्तशतद्विसहस्राधिकानि अस्त्रशस्त्रानि पर्यटकानां मुख्याकर्षणकेन्द्रम् । बृहदाकारग्रन्थालयोऽपि अस्य एव अंशरूपेण अत्र स्थितः ।

निजामत-इमामबाड़ा

[सम्पादयतु]

वर्तमाने यत्र निजामत-इमामबाड़ा स्थिता तत्रैव सिराज्-उद्-दुल्लायाः इमामबाड़ा आसीत् । परन्तु अग्निसंयोगात् सा इमामबाड़ा विध्वंसाऽसीत् । १८४७ तमे संवत्सरे अस्या निर्माणम् अभवत् । हुमांयू-जाहस्य अपत्यं नवाबनजीम-मंसूर-अलीखान् अस्या निर्माता । निजामत-इमामबाड़ा समग्रभारते सर्वबृहत् इमामबाड़ा ।

कटरामस्जिद्

[सम्पादयतु]

विशालगोलक(गुम्बद) तथा गगनचुम्बीस्तम्भ(मिनार्)-समन्वितं कटरामस्जिद् अतिरमणीयम् । १७२३-२४ तमे वर्षे नवाबमुर्शिद्-कुलीखान् अस्य निर्माणं कृतवान् । अस्य मुस्लिमदेवालयस्य ऐतिहासिकगुरुत्वमस्ति । अत्रैव नवाबमुर्शिद्-कुलीखान्-महोदयस्य शवस्मारकं विद्यते ।

परिवहनम्

[सम्पादयतु]
मुर्शिदाबादमण्डलम्
मुर्शिदाबादमण्डलम्

वायुमार्गः

[सम्पादयतु]

पर्यटकाः वायुमार्गेन कोलकाताविमानकेन्द्रं गन्तुं शक्नुवन्ति । ततः मुर्शिदाबादमण्डलं "बस"माध्यमेन अनयासेन संप्रप्यते ।

धूम्रशकटमार्गः

[सम्पादयतु]

मुर्शिदाबादमण्डलस्य केन्द्रनगरे बहरमपुरे पर्यटनार्थं धूम्रशकटस्थानकं (स्टेशन्) निर्मितमस्ति । सियालदहस्थानकतः(स्टेशन) "भागीरथी एक्सप्रैस" एवं "लालगोला सवारी" इत्यादिनि धूम्रशकटयानानि बहरामपुरनगरं गन्तुं सहजलभ्यानि ।

भूमार्गः

[सम्पादयतु]

पर्यटकाःपश्चिमबङ्गराज्यस्य विभिन्नप्रान्ततः तथा च भारतस्य अन्यराज्यतः अपि मुर्शिदाबादमण्डलं भूमार्गेन सुलभतया आगन्तुं शक्नुवन्ति ।

परिसीमा

[सम्पादयतु]
"https://sa.wikipedia.org/w/index.php?title=मुर्शिदाबादमण्डलम्&oldid=464715" इत्यस्माद् प्रतिप्राप्तम्