मैसूरुसंस्थानम्
ಮೈಸೂರು ಸಂಸ್ಥಾನ | |||||
Kingdom (Subordinate to Vijayanagara Empire until 1565). Princely state under the suzerainty of the British Crown after 1799 | |||||
| |||||
| |||||
राष्ट्रगीतम् कायो श्री गौरी | |||||
मैसूरुसंस्थानम्, 1784 AD (at its greatest extent)
| |||||
राजधानी | मैसूरु, श्रीरङ्गपट्टण | ||||
भाषाः | कन्नडम् | ||||
धर्मः | हिन्दुत्वम्, इस्लाम्-मतम् | ||||
Political structure | Empire | ||||
महाराज | |||||
- 1399–1423 (प्रथम) | यदुराय | ||||
- 1940–50 (अन्तिम) | जय चामराज ओडेयर् | ||||
इतिहासः | |||||
- स्थापना | 1399 | ||||
- Earliest records | 1551 | ||||
- विस्थापनम् | 1950 | ||||
भागत्वेन विद्यते | भारतम् |
ओडेयर्-वंशीयाः १४००तमे वर्षे मैसूरुसंस्थानस्य स्थापनम् अकुर्वन् । कर्णाटकस्य आधुनिकः इतिहासः यदुरायस्थापितात् मैसूरुसंस्थानात् आरभ्यते । एतत् साम्राज्यम् ओडेयर् राजवंशाजाः राजानः शासनं कृतवन्तः । क्रि.श. १५६५तमवर्षपर्यन्तं मैसूरुसंस्थानं सामन्तराज्यरूपेण आसीत् । क्रि.श.१५६५तमवर्षात् अनन्तरे काले ताळीकोटेयुद्धानन्तरं विजयनगरसाम्राज्यस्य पतनानन्तरं मैसूरुसंस्थानं स्वतन्त्रम् अभवत् । सप्तदशे शतके साम्राज्यस्य विस्तरणं सञ्जातम् । नरसराजओडेयरस्य चिक्कदेवराजओडेयरस्य च प्रशासनकाले एतत् संस्थानं विस्तृतं भूत्वा दक्खनप्रस्थभूमौ एव सर्वबलिष्टं साम्राज्यम् अभवत् । मैसूरुसंस्थानं दक्षिणकर्णाटकस्य तमिळ्नाडुराज्यस्य च कांश्चन भागान् अवाप्नोत् । हैदरालेः तस्य पुत्रस्य टिप्पुसुल्तानस्य च काले ओडेयर्-शासनस्य भङ्गः जातः ।हैदरालिः तस्य पुत्रः टिप्पुसुल्तानः च क्रि.श.१८शतके ओडेयर् राजानं सिंहासनात् अवतार्य मैसूरुसंस्थानस्य अधिकारं स्वायत्तीकृतवन्तौ । अस्मिन् काले मैसूरुसंस्थानेन बहूनि युद्धानि सम्मुखीकरणीयानि अभवन् । तेषु बहूनि फ्रेञ्चजनानां साहाय्येन ब्रिटिशजनैः सह अभवन् । कदाचित् ब्रिटिशश्सैन्येन कदाचित् मराठासैन्येन सह अपि युद्धानि अभवन् । १७९९तमे वर्षे प्रवृत्ते चतुर्थे मैसूरुयुद्धे टिप्पुसुल्तानः मरणं प्राप्नोत् । तदनन्तरम् ओडेयरवंशीयाः ब्रिटिशजनानाम् अधीनाः सन्तः किञ्चित् प्रमाणेन राज्याधिकारं पुनः प्राप्नुवन् । हैदर् अलेः प्रशासनकाले संस्थानस्य सेनाबलं बहुधा संवर्धितम् । पुत्रपित्रोः प्रशसनकाले अनेकानि युद्धानि संवृत्तानि । मराठाराजैः सह, आङ्ग्लान् विरुध्य, गोल्कोण्डनिजामानां विरुद्धं च युद्धानि अभवन् । अस्मिन् समये एव चत्वारि [[आङ्ग्ल-मैसूरुयुद्धानि[] अभवन् । आरम्भे द्वयोः युद्धयोः मैसूरुसंस्थानं विजयं, अनन्तरद्वयोः पराजयं च अवाप्नोत् । क्रि.श.१७९९तमे वर्षे सञ्जाते समरे यदा टिप्पुसुल्तानः मृतः तदा मैसूरुसंस्थास्य बहुभागः आङ्ग्लानां हस्तगतः । तदा मैसूरुराजाः आङ्ग्लानां सामन्ताः अभवन् । ओडेयर -राजानां प्रशासनं क्रि.श. १९४७तमवर्षे भरतस्य स्वातन्त्रप्राप्तेः पर्यन्तम् अपि आसीत् । क्रि.श. १७९९तः १९४७पर्यन्तं १४८ वर्षाणाम् ओडेयर् प्रशसनस्य अवधौ आङ्ग्लानां मैसूरुराज्यम् (इदानीन्तनं कर्णाटकम्) आधुनीकरणार्थं प्रसिद्धम् अभवत् । मैसूरु ओडेयर् राजानः सङ्गीतसाहित्यकलादिषु रुचिमन्तः आसन् अतः एतेषां संरक्षणं पोषणं संवर्धनं च अभवन् ।
मैसूरुसंस्थानस्य राजानः
[सम्पादयतु]- 1. यदुरायः - कालः क्रि.श. १२९९ – १४२३ ।
- 2. बेट्टद चामराज ओडेयरः - कालः क्रि.श. १४२३ – १४५९ ।
- 3. तिम्मराज ओडेयरः - कालः क्रि.श. १४५९ – १४२७ ।
- 4. हिरियचामराज ओडेयरः - कालः क्रि.श. १४२७ – १५१३ ।
- 5. हिरिय बेट्टद चामराज ओडेयरः - कालः क्रि.श. १५१३ – १५५३ ।
- 6. तिम्मराज ओडेयरः -
- 7. बोळचामराज ओडेयरः –
- 8. बेट्टदचामराज ओडेयरः – त्रयाणाम् – कालः क्रि.श. १५५३ – १५७८
- 9. राज ओडेयरः - कालः क्रि.श. १५३८ – १६१८
- 10. चामराज ओडेयरः - कालः क्रि.श. १६१७ – १६३७ ।
- 11. राज ओडेयरः-द्वितीयः - कालः क्रि.श. १६३७ – १६३८ ।
- 12. रणधीर कण्ठीरव नरसराज ओडेयरः - कालः क्रि.श. १६३८ – १६५९ ।
- 13. दोड्डदेवराज ओडेयरः - कालः क्रि.श. १६५९ – १६७३ ।
- 14. चिक्कदेवराज ओडेयरः - कालः क्रि.श. १६५९ – १६७३ ।
- 15. चिक्कदेवराज ओडेयर् नृपस्य मूकपुत्रः - कालः क्रि.श. १७०४ – १७१४ ।
- 16. दोड्डकृष्णराज ओडेयरः – कालः क्रि.श. १७१४ – १७३४
- 17. अङ्कनहळ्ळि चामराज ओडेयरः / कृष्णराज ओडेयरः-द्वितीयः - उभावपि दत्तकपुत्रौ - कालः क्रि.श. १७३४ – १७६६ ।
- 18. नञ्जराज ओडेयरः - कालः क्रि.श. १७६६ – १७७० ।
- 19. बेट्टद चामराज ओडेयरः - कालः क्रि.श. १७७० – १७७६ ।
- 20. चामराज ओडेयरः - कालः क्रि.श. १७७६ – १७९६
- 21. कृष्णराज ओडेयरः-तृतीयः - कालः क्रि.श. १७९९ – १८१० ।
- 22. चामराज ओडेयरः - कालः क्रि.श. १८८१ – १९०२ ।
- 23. चतुर्थः कृष्णराज ओडेयरः- चतुर्थः- कालः क्रि.श. १९०२ – १९४० ।
- 24. जयचामराज ओडेयरः - कालः क्रि.श. १९४० – १९४७ । एषः राजा स्वातन्त्रभारते कर्णार्नाटकस्य तमिळुनाडुराज्यस्य च राज्यपालः भूत्वा सेवाम् अकरोत् ।
कर्णाटकस्य एकीकरणम्
[सम्पादयतु]मैसूरु संस्थानस्य जयचामराज् वेडेयर् राजा स्वातन्त्रोत्तरं मैसूरुराज्यं भारतस्य भागं भवितुम् अनुमन्तिं दत्तवान् । क्रि.श. १९५० तमे वर्षे मैसूरुराज्यं भारतस्य अङ्गम् अभवत् । कर्णाटकैकीकरणस्य प्रक्रिया १९तमे शतकस्य द्वितीयार्धे आरभ्य क्रि.श.१९५६तमे वर्षे पुनस्सङ्घटनेन परिसमाप्तम् । तादानीं कोडगु, मद्रास्, हैदराबाद्, मुम्बै राज्यानां केचनभागाः मैसूरुराज्ये अन्तर्गताः । क्रि.श. १९७३तमे वर्षे मैसूरुराज्यं कर्णाटकम् इति पुनर्नामाङ्कितम् ।