अमरावती, आन्ध्रप्रदेशः
दिखावट
आन्ध्रप्रदेशः अमरावती | |
---|---|
नगरम् । | |
कृष्णानदी | |
राष्ट्रम् | भारतम् |
राज्यम् | आन्ध्रप्रदेशः |
मण्डलम् | गुण्टूरु |
Time zone | IST |
दूरवाणीसङ्केतः | २५४ |
एतत् प्राचीननगरम् द्विसहस्रवर्षेभ्यः प्रागेव बौद्धानां स्थानम् आसीत् । अत्र बौद्धशिल्पानां दर्शनं भवति । २० बौद्धमठाः सन्ति । कृष्णानदीतीरे स्थिते अमरावती नगरे अनेकबौद्धस्मारकाणि(स्थूपाः) सन्ति । पूर्वं सहस्रशः बौद्धभिक्षवः अत्र आसन् । स्थूपेषु भगवतः बुद्धस्य सुन्दरप्रतिमाः सन्ति । अष्टादशशतके सर्वं विनष्टम् अभवत् । इदानीं तस्य अवशेषाः चेन्नैनगरे वस्तुसङ्ग्रहालये सन्ति । पूर्वम् एतत् नगरं शातवाहनसाम्राज्यस्य राजधानी आसीत् । अमरेश्वरदेवालयः अत्र सुप्रसिद्धः अस्ति । प्रतिदिनम् सहस्रशः जनाः अत्र आगच्छन्ति ।
-
अमरेश्वरमन्दिरस्य गोपुरम्।
-
स्नानघट्टः ।
-
त्रिरत्नबौद्धलाञ्छनानि।
वाहनमार्गः
[सम्पादयतु]गुण्टूरुतः ३२ कि.मी । विजयवाडा हैदराबाद् इत्यादिनगरेभ्यः वाहनसम्पर्कः अस्ति ।
धूमशकटमार्गः
[सम्पादयतु]गुण्टूरु, मछलीपट्टणम् मार्गे माचेर्ला निस्थानतः समीपे अस्ति ।