सामग्री पर जाएँ

क्रिकेट्-क्रीडा

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
क्रिकेट्-क्रीडा
A bowler bowling to a batsman. The paler strip is the cricket pitch. The two sets of three wooden stumps on the pitch are the wickets. The two white lines are the creases.
नियामकगणः आन्तरराष्ट्रीया क्रिकेट् समिती
प्रथमक्रीडा षोडशायां शताब्दौ।
वैशिष्ट्यसमूहः
गणसदस्याः प्रतिपक्षे ११ क्रीडकाः चोटस्य वा रोगस्य वा सन्दर्भेषु विकल्पक्षेत्रस्य (केवलं) अनुमताः सन्ति
उभयलिङ्गम् Single
वर्गीकरणम् Team, Bat-and-ball
उपकरणम् Cricket ball, cricket bat,
wicket: stumps, bails
स्थलम् Cricket field
उपस्थितिः
ओलिम्पिक् 1900 Summer Olympics only
क्वचित् कश्चित् क्षेप्ता कुहचन वरोधाऽवनपरः
कुतोऽप्यागोप्तारोऽपरत उदस्तार इतरे ।
चतुष्कैः षट्कैर्वा लकुट-हननैः कन्दुकमरं
‘क्रिकेटं’ क्रीडन्तः कमिह सुखयन्ते नहि चिरम् ॥u

ऐतिहासिकी पृष्ठभूमिः (काष्ठपट्टिकाकन्दुकक्रीडा)

[सम्पादयतु]
ऐतिहासिक क्रीडा

क्रिकेट्(Cricket)-क्रीडाया जन्म प्रायेण षडशतवर्षेभ्यः पूर्वम् अभूत् । इंग्लेण्डस्थे एडवर्ड प्रथमस्यैकस्मात् संग्रहात् प्राप्ताया दैनन्दिन्या इदम् अवगम्यते यत् क्रिकेटस्य सर्वतः प्रथमं क्रीडनं केण्टस्थिते निवेण्डने त्रयोदश्यां शत्यां समपद्यत इति । आक्स्फोर्ड्-पुस्तकालयस्य भित्तौ एकं चित्रम् आचित्रितं विद्यते यस्मिन् द्वौ क्रिस्तधर्मगुरू क्रिकेटं क्रीडमानौ चित्रितौ स्तः । एताभ्याम् अपि अस्याः क्रीडायाः प्रारम्भविषये ज्ञातुं शक्यते ।

एका सारसम्पन्ना गदासदृशी यष्टिः ‘क्रिक’ कथ्यते । तदानीं तस्यां यष्टेः अथवा यष्टित्रयस्य (विकेटस्य)प्रयोगो न अभवत्, एकः लधुगर्तकः भूमौ खन्यते स्म तथा कान्दुकिकः कन्दुकं तस्मिन् गर्ते पातयितुं प्रयतते स्म । पूर्वं क्रीडकः कन्दुकं ताडयति स्म तथाऽपरः कश्चन क्रीडकः तं कन्दुकं निगृह्णाति स्म। निगृहीते सति कन्दुके प्रथमः निर्गतः (आउट) मन्यते स्म । ततः परं गर्तस्य स्थाने चिह्नावगमाय यष्टित्रय्याः प्रयोगः आरब्धः ।

अस्य चतुः शतवर्षाणामानन्तर्येण क्रिकेट्-क्रीडायाः रूपं साम्प्रदायिकरूपेण साम्यं धारयत् प्रारभत । क्रीडने गर्तं परित्यज्य यष्टिद्वयं निखाय तदुपरि ६ इंचमितं प्रतिभूरूपेण यष्टिखण्डमेकं (गुल्लीं) संस्थाप्य खेलनम् आरब्धम् । क्रीडकः कन्दुकम् उपरि उत्थाप्य साम्प्रतमिव न अक्षिपत । तदानीं तु कन्दुकः हस्तं नीचैः नीत्वा क्षित्यते स्म । क्रिक-यष्टेः स्थानं (बैट-बल्ले)-यष्टिकया गृहीतम् । अस्या यष्टिकाया अधोभागः मनाग् वलितः अभवद् येन क्रीडार्थी कन्दुकं ताडयितुं प्राभवत् । तदा धावनसंख्या(रन्) कस्मिंश्चित् फलके चिह्ननिर्मित्या लिख्यते स्म ।

सन् १७७५ तमे वत्सरे अस्मिन् एकं विशिष्टं परिवर्तनम् अभूत् । स्थितिः इयम् आसीद् यत् 'कण्ट्-हेम्बलडन्’योः मध्ये काचन प्रतियोगिता प्राचलत् । तत्र हैम्बलडनाय जेतुं १४ धावनानि अपेक्षितानि आसन् तथा तस्य एकः क्रीडकः खेलने अवाशिष्यत । केण्टस्तं निर्गमयितुं बहु प्रयतितवान् परं कन्दुकः उभयोः अपि यष्टिकयोः मध्यात् निर्गच्छति स्म । स च कथमपि बहिर्गतः नाभूत् । केन्टस्य क्रीडका अतीव खिन्ना अभवः तथा तैः अस्मिन् विषये निर्णायका निवेदिताः । तदा द्वयोः यष्टिकयोः मध्ये अन्या अपि एका यष्टिः आरोपिता । इदमम् एव यष्टित्रयम् अधुना 'विकेट्’नाम्ना ख्यातम् अस्ति ।

प्रायः ५० वर्षपर्यन्तं कन्दुकक्षेपणाय हस्तम् अधः विधाय एव क्रीड्यते स्म । परम् एकेन कान्दुकिकेन उच्चैः हस्तं भ्रामयित्वा कन्दुकः क्षिप्तो येन ताडनयष्टि(बल्ला)धारी निर्गतिं प्राप्नोत् । ततः आरभ्य सैव परम्परा प्रचलिता या अद्यापि प्रवर्तते । अस्या एकं विशिष्टं कारणम् इदम् आसीद् यद यद् दलम् उच्चैः हस्तं भ्रामयित्वा कन्दुकं प्राक्षिपत तद् नीचैः हस्तं परिभ्राम्य क्षेपकानां दलम् अजयत् । एवं प्रकारोऽयं लोकप्रियतां प्राप्नोत् ।

यदा क्रीडाक्षेत्रं समभवत् तदा कान्दुकिकेन करभ्रामणपूर्वकं कन्दुके प्रक्षिप्ते सति धावनस्थल्यां (पिच् मध्ये) गर्तानां कारणात् तथा ततः सङ्घट्टय कन्दुकस्य उच्छलनाद भूयांस आघाताः भवन्ति स्म । ततः क्रीडकं सुरक्षयितुं पादाच्छादकयोः (लैग्गार्ड) हस्ताच्छादकयोः (दस्ताने)श्च प्रयोगः स्वीकृतः । इत्थं निरन्तरम् उन्नतिं लभमाना क्रीडा इयम् अधुना अतीव लोकरञ्जनी संवृत्ता । जनानां तु इयं धारणा अस्ति यद् 'मार्गे यत्र द्वौ पन्थानौ विभक्तौ भवतः तत्र च सूचनाफलके च एकतः स्वर्गं गमनाय अपरतः च क्रिकेट्स्पर्धास्थले गमनाय पथोः सूचना भवेत् तर्हि स्वर्गमार्गं परित्यज्य सर्वेऽपि क्रिकेट्-क्रीडास्थलीमेव गन्तुं चेष्टन्ते स्वर्गमार्गे नैवेति ।’

भारते अस्याः क्रीडायाः साम्प्रतिकरूपेण क्रीडनं व्यापाराय समागतानां वैदेशिकानाम् आगमनात् परं प्रवृत्तम् । ‘ईस्ट-इण्डिया-कम्पनी’ यदा अत्र प्रभुत्वम् अस्थापयत् तदा तस्याः बहवः सैनिकाः यत्र तत्र सम्भूय 'काष्ठपट्टिकाकन्दुकक्रीडां’ कुर्वन्ति स्म । प्राचीनाभिलेखेभ्य इदं ज्ञायते यत् सन् १८८३ वत्सरे विशिष्टा आंग्लपदाधिकारिणः भारतस्य राजधान्यां कलकत्तानगर्यां क्रिकेट्क्रीडनं कुर्वन्ति स्म इति ।

क्रिकेट्क्रीडाङ्गणं क्रीडोपकरणानि च

[सम्पादयतु]

(क) क्रीडाङ्गणम्

[सम्पादयतु]
क्रीडाङ्गणम्

सर्वप्रथमं ‘क्रिकेट्’ –क्रीडार्थम् एकस्याः अण्डाकारस्य वृत्ताकारस्य वा शाद्वलिताङ्गणस्य आवश्यकता भवति । अस्य आयाम-विस्तार-व्यासानां विषये नास्ति कश्चन विशिष्टः नियमः । अस्मिन् क्रीडाङ्गण(प्ले ग्राउण्ड)क्षेत्रे स्वल्पानि तृणानि अवश्यं कर्तितानि भवन्ति । उभयतः जवनिका पटो वा निबदघ्यते । पटयोः मध्ये तृणकर्तनपुरस्सरं भूमिः समतला विधीयते । तस्यां 'धावनस्थली’ निर्मियते यत्र कन्दुकप्रक्षेपो भवति । इदमङ्गणं ६ संख्यकाः क्रीड्का एव स्वाधिकारे रक्षन्ति ।

(ख) धावनस्थली रेखाविधानानि च

[सम्पादयतु]
धावनस्थली रेखाविधानानि च

धावनस्थल्याः विस्तारः १० फुटमितो भवति । तस्यां २२ गजमितेऽन्तराले यष्टित्रय-द्वितयं (विकेट्द्वयं)समारोप्यते । यष्टित्रयात् चतुःफुटमिता भूमिः अग्रे उभयतः मुच्यते तथा एका रेखा यष्टित्रयस्य रेखायाः स्मानान्तरे क्रुष्यते या 'पौपिंगक्रीज' इत्युच्यते । अस्याम् एव रेखायां स्थित्वा यष्टिताडकः (बल्लेबाज) क्रीडति । यष्टित्रयं मध्याधारीकृत्य एका ऋज्वी रेखा दीयते या मध्ययष्टेः (स्टम्पतः ) उभयतः ५ फुट्दूरे भवति । इत्थं धावनस्थल्याः विस्तारः १० फुट्मितः क्रीयते । अस्याः रेखायाः तथा पौपिंग् क्रीजरेखाया मध्यवर्ति क्षेत्रं यष्टिताडकस्य भवति । यदि सः अस्मात् क्षेत्राद् बहिः गच्छति तथा यष्टिरक्षकः कन्दुकेन काष्ठखण्डं (गिल्लीं) निपातयति तर्हि स निर्गतः क्रियते । कन्दुकक्षेपणाय यष्टिधारकस्य पुरोवर्तिनो यष्टित्रयस्य उभयतः एका तादृशी रेखा कृष्यते यतो मध्ययष्टोर्द्वितीयतटावधिकमन्तरं ४ फुटमितं भवेत् । इत्थम् अस्याः रेखाया आयामः ८ फुट् ८ इंच मितो भवति तथा सर्वतो मध्ये केन्द्रयष्टिः (सेन्टर विकेट) भवति । एतां 'कन्दुक-क्षेपक-रेखां’ (बौलिंग क्रीज) इति कथयन्ति । कन्दुकक्षेपकः अत्रैव स्थित्वा कन्दुकं क्षिपति । रेखायाः उभयभोगयोरेका समकोण लध्वी रेखा भवति ययेदं स्पष्टरूपेण ज्ञायते यदियं कन्दुकक्षेपणरेखा (बौलिंग-क्रीज) विद्यते । कन्दुकक्रीडकेन अनयोः तटयोः दूराद् बहिर्भाग उपस्थाय कन्दुको न क्षेपणीयः । इमौ समकोणौ "रिटर्न-क्रीज" नाम्ना सम्बोध्येते ।

(ग) यष्टित्रयम् (विकेट्)

[सम्पादयतु]
यष्टित्रयम्

यष्टित्रयस्य विस्तारः अधिकाधिकं ६ इंचमितो भवति तदुपरि च द्वौ काष्ठखण्डौ (वेल्स)तथा भूमौ आरोपिताः तिस्रः यष्टयो भवन्ति । एतासाम् उच्चता भूमेः २८ इंचमिता क्रियते यष्टिषु च निहितस्य काष्ठखण्डस्य आयामः ४ / इंचमितो भवति । काष्ठखण्डस्य स्थापनाय यष्टीनाम् उपरितनः भागो वर्तुलः भवति, अधोभागे च तासाम् आरोपणाय तीक्ष्णता विधीयते । तत्र लोहस्यारग्वधस्य वाऽऽवरणमपि क्रियते येन आरोपणे सारल्यं भवेत् । यष्टीनाम् आयामः ३१ / इंचमितो भवति स च आरोपणात् परं २८ इञ्चमितोऽवशिष्यते । काष्ठखण्डस्थापनाद् यष्टीनाम् औन्नत्यं / इञ्चमितमेव वर्धेत ततोऽधिकं नैव । विकेटस्य स्थानं सदैव यष्टेः २२ गजमिते दूरवर्तिनि स्थले भवति ६ इञ्चमितेनान्तरालेन च तिस्त्रोऽपि यष्टयो निखन्यन्ते । एतासु वामभागयष्टिः पदयष्टिः (लैगस्टम्प्), दक्षभागस्था यष्टिः दूरस्था यष्टिः (आफ स्टम्प) तथा मध्या 'केन्द्रयष्टिः’ (सेन्ट्रल स्टम्प) कथ्यते ।

(घ) काष्ठपट्टिका (बल्ला अथवा बैट्)

[सम्पादयतु]
काष्ठपट्टिका

अस्याः पट्टिकाया विस्तारः करस्यामपि स्थितौ ४ १/२ इञ्चतोऽधिको न भवति । आयामः ३८ इंचमितो भारश्च अस्या भिन्न-भिन्नस्थितिकः क्रीडकस्य रुच्यनुसारं स्वक्रियते । यस्यां नमनीयता भवेत् सैव पट्टिका हितावहा भवति यतः कन्दुकोऽनयैव ताड्यते । नवीनायां पट्टिकायामतसीतैलस्य मर्दनम् उचितं मन्यते । एतेन तस्याः सुदृढता वर्धते ताडने च सौविध्यं भवति । अस्या मुष्टिकाभागस्य धारणं द्वाभ्यां हस्ताभ्यां क्रियते, पट्टिकायाः अधोभागः समतमो भवति तस्मिन् भागेऽड्गुल्योऽङ्गुष्ठश्च भवन्ति । वामहस्तेन उपरितनः भागः तथा दक्षहस्तेन तदधोभागो गृह्यते । एवंविधग्रहणेन कन्दुकताडने सारल्यं भवति कन्दुकश्च न उच्छलति ।

(ङ) कन्दुकः(बाल्)

[सम्पादयतु]
रक्तकन्दुकः

क्रिकेट्क्रीडायाः कन्दुकः ५ / औसमितभारवान् भवति । वर्तुलता च अस्य ८ १३/१३ इञ्चतः ६ इञ्चावधिका । कन्दुकोपरि चर्मावरणम् आवश्यकम् । अन्तः कठोरतायै किमपि भारवद वस्तु सम्पूर्य तत्स्थाने सुदृढतया सीव्यते ।

श्वेतकन्दुकः

क्रिकेट्क्रीडकाः तेषां नियमाश्च

[सम्पादयतु]
(क) क्रीडकसंख्या दलव्यवस्था च अस्यां क्रीडायां दलद्वय भवति । प्रतिदलं ११-११ संख्याकाः क्रीडकाः क्रीडन्ति । तेषु प्रत्येकं दलस्य एकः नायको भूत्वा स्वं स्वं दलं नियन्त्रयति । दलनायकौ सम्भूय क्रीडासमयं निर्णयतः । क्रीडाया नियमानां यथावत् संरक्षणाय द्वौ निर्णायकौ (अम्पायर् )भवतः ययोः निर्णयः द्वयोरपि दलयोः कृते मान्यो भवति । कन्दुकक्षेपणरेखातः कन्दुकक्षेपकं 'गैदबाज' (बौलर्) तथा कन्दुकक्षेपणकार्यं 'गेंदबाजी’ (बौलिंग) इति कथयन्ति । विकेटस्य रक्षणाय स्थितौ कन्दुकताडकौ काष्ठपट्टिकाधरौ 'बल्लेबाज' तयोः क्रियां 'बल्लेबाजी’ति गदन्ति । अन्ये क्रीडकाः क्षेत्ररक्षका: (फील्डर) भवन्ति ।
(ख) वस्त्रोपवस्त्रे -प्रत्येकं क्रीडार्थी ग्रीष्मतौ श्वेतपादयामं कञ्चुकं च शीतकाले विशिष्य मणिबन्धान्तमूर्णाकञ्चुकं (स्वटेर)पत्रयोजनं भवति । हस्तप्रच्छादने द्विविधे भवतः । प्रथमे करतलम् आच्छादितं भवति द्वितीये च केवलम् अङ्गुल्योङ्गुष्ठश्च आच्छादिता भवन्ति । पादप्रच्छादने गुल्फपर्यन्तं तूलपूरिते मध्ये च स्वल्पाः काष्ठपत्रिकाः भवन्ति । जानुपर्यन्तम् अनयोः प्रलम्बताऽऽघातवारणाय उचिता मन्यते ।
(घ) उपानद्युगलम् (बूट्स्)

श्वेतवर्णं गुल्फवधिकं तलभागे कीलकजटितं सुदृढं धावने सौविध्यकरम् ऊर्ध्वभागात् सूत्रबद्धम् उपानद्युगलं क्रीडकेन धार्यते ।

(ङ्) क्षेत्रव्यूहरचना

क्षेत्ररक्षणाय क्षेत्ररक्षका मुख्यत्वेन भिन्न-भिन्नेषु स्थानेषु स्थित्वा क्षेत्रं रक्षन्ति । तदर्थं तेषां स्थाननाम् निर्धारणम् इत्थं विद्यते -

(१) सिलीमिड आन्
(२) मिडविकेट्
(३) मिड-आन्
(४) लांग-आन्
(५) स्क्वेयर लैग्
(६) लैग-स्लिप्
(७) डीप स्क्वैयर-लैग्
(८) शार्ट्-लैग्
(९) लांग -लैग्
(१०) थर्ड मैन्
(११) स्लिप्
(१२) गली पाइण्ट्
(१३) सिली पाइण्ट्
(१४) सिली मिड् प्राफ्
(१५) कवर् पाइण्ट्
(१६) एक्स्ट्रा कवर्
(१७) डीप एकस्ट्रा कवर्
(१८) मिड प्राफ्
(१९) लांग आफ्
(२०) विकेट कीपर्

कन्दुकताडकस्य वामभागशालिनीं पुरोवर्तिनीं यष्टित्रयीं प्रति 'आन् साइड' भवति तस्य दक्षभागशालिनीं पुरोवर्तिनीं यष्टिं प्रति च 'आफ् साइड्’ भवति । क्षेत्ररक्षका नायकस्यादेशानुसारं स्वस्वस्थानेषु तिष्ठन्ति ।

क्रीडाविधयः नियमाः

[सम्पादयतु]

(क) क्रीडारम्भः

[सम्पादयतु]

पूर्वं द्वावपि दलनायकौ क्रीडाङ्गणम् आगत्य मुद्रोत्क्षेपणं कुरुतः यत् कस्य दलं प्रथमं क्रीडिष्यतीति ? टास्-विजेतुः दलनेतुः अयम् अधिकारः भवति यत् सः स्वयं क्रीडेत् अथवा विपक्षदलं पूर्वं क्रीडयेत् । निर्णयानन्तरं क्रीडकदलस्य द्वौ ताडकौ क्षेत्रम् आगत्य यष्टित्रय्या निकटम् उपतिष्ठतः । द्वितीयं दलं च तौ क्रमशः क्रीडयतः । यष्टिरक्षकः (विकेट् कीपर) यष्टित्रय्याः पृष्ठे स्थित्वा कन्दुकम् अवरुणद्धि । अन्ये नव क्षेत्ररक्षकाः क्रीडाङ्गणं परितः कन्दुकम् अवरोद्धुं तथा धावन(रन्)संख्यावृद्धेः अवरोधाय तिष्ठन्ति ।

(ख) बहिर्गतत्वम्

[सम्पादयतु]

यदि क्रीडयितृदलस्य कन्दुकक्षेपकः (गदबाज) कन्दुकं यष्टित्रय्या सङ्घट्ट्य काष्ठखण्डं पातयति तदा ताडकः बहिर्गतत्वं भजते । यदि ताडकः कन्दुकताडनसमये तम् उच्चैः उच्छालयेत् तथा विपक्षी क्षेत्रारक्षकः तं निगृह्णीयात् तदा स बहिर्गतः भवति । यदि ताडकस्य पादो दक्षयष्टेः समक्षं भवेदथ च क्षेपकेन क्षिप्तः कन्दुकः तस्य वामं पादं स्पृशति तदापि स निर्गतः मन्यते । इयं स्थितिः पदबाधा (‘लैग बिफोर् विकेट्’ LBW) इति कथ्यते । ताडकः कन्दुकं वेगेन सन्ताडय स्वसमक्षस्थ-यष्टित्रय्या निकटे निशिचतायां रेखायां गच्छति तथा समक्षस्थः अन्यः ताडकः तस्य स्थाने निश्चितरेखायाम् आगच्छति तदा एकं धावनं (रन्)भवति । अनयोः एकोऽपि ताडकः रेखायां नोपयाति तथा विपक्षदलस्य कोऽपि क्षेत्ररक्षकः कन्दुकं यष्टिरक्षकस्य निकटे प्रक्षिपदेथ च स हस्ते कन्दुकं नीत्वा काष्ठखण्डं पातेयेत् तदा समक्षस्थस्ताडकः बहिर्गतो भवति । एवमेव अन्येषां विधीनां पालनाभावेऽपि बहिर्गतत्वं क्रियते ।

(ग) कन्दुकक्रीडनम्

[सम्पादयतु]

अस्यां क्रीडायां कन्दुको नानाविधिभिः क्रीडयते तस्य च नामान्यपि विभिन्नानि सन्ति । कन्दुकताडकस्य ताडनप्रक्रियायाः मुख्यतः अष्टौ प्रकारा मन्यन्ते । यथा -(१) स्ट्रोक्, (२) ड्राइव्, (३) स्क्वेयर् कट्, (४) डाउन दि गली (५)बैक-कट् अथवा लेट- कट्, (६) लैग -ग्लांस, (७) हुक्स्ट्रोक् तथा (८) पुल् शाट्

(१) स्ट्रोक्- शब्दस्यार्थो मन्दताडनं विद्यते । केवलं बहिर्गतत्वाय यत् क्रीडयते तत् 'स्ट्रोक-प्ले’ इति कथ्यते । अस्य (१) अग्रप्रतिरक्षितक्रीडा (फारवर्ड् डिफेन्सिव् प्ले) तथा (२) पार्श्वप्रतिरक्षितक्रीडा (बैकवर्ड् डिफेन्सिव् प्ले ) नामभ्यां द्वौ प्रकारौ स्तः ।
(२) ड्राइव् शब्दस्य तात्पर्यं कन्दुकस्याग्रे चालनं वर्तते । अस्य (१) आनड्राइव्, (२) स्ट्रेट् ड्राइव्, (३) आफ् ड्राइव् तथा (४) कवर् ड्राइव्-नामकाः चत्वारः प्रकारा भवन्ति येषु कन्दुकताडनं समानमेव क्रियते; परमन्तरमिदमेव भवति यत् ताडनं कस्यां दिशि क्रियत इति । अनेन विधिना सुदृढताडने सति यदा कन्दुकः क्षेत्रस्य परितः कृष्टां रेखामुल्लङ्घयति तदैकं चतुष्कं (चोका) भवति । निर्णायक-निर्धारित सीमोल्लङ्घनेन षट्कं (छक्का) भवति । कदा कस्य विधेः प्रयोगः कर्तव्य इति विषये ताडकस्यैव निर्णयः प्रमाणम् ।
(३) कन्दुकं ताडनयष्टेर्दक्षभागे स्वल्पताडनेन अपाकुर्वन्ति तत् 'स्कवेयर् कट्’ इति कथ्यते । (४-८) इत्थमेव वाम -दक्ष-मध्यवीथि-प्रभृतयः ताडनविधयः अन्यासु ताडनप्रक्रियासु अन्तर्भवन्ति ।

अस्य सविधे प्रत्येकं कन्दुक आयाति स च सर्वदैव तं निगृहीतुं यतते । ताडकस्य अग्रे गमनात् परं योऽपि लाभो, प्राप्तुं शक्यते तं गृह्णाति । यष्टित्रयरक्षकस्य इमानि पञ्च ध्यातव्यानि सन्ति

(१) तीव्रकन्दुकावसरे यष्टित्रय्या रक्षणम् ।
(२) मन्दकन्दुकावस्थायां निकटे स्थितिः ।
(३) कन्दुकग्रहणे सदैव तत्परत्वम् ।
(४) तस्य ध्यानं नेत्रे च कन्दुके एव भवेयुः तथा
(५) कन्दुकेन यष्टित्रयमुत्खायैकं क्रीडकं धावनबहिर्गतं विधातुं प्रयतेत ।

क्रीकेटक्रीडाया द्वे अपि दले द्वयोर्द्वयोः चक्रयोः क्रीडतः । प्रथमचक्रस्य आरम्भो मुद्रोत्क्षेपणेन भवति । चक्रनिर्धारणेन समयनिर्घारणेन वाऽपि क्रीडितुं शक्यते । दलनायकः क्रीडाचक्रघोषणे अधिकरोति । एकं दलं प्रथमे चक्रे द्वितीयदलात् १५० अथवा २०० धावनानि न्यूनानि कृत्वा बहिर्भावति तदा द्वितीयदलस्य नेता तद् दलं तदैव द्वितीयचक्रं क्रीडितुं कथयति तदेव 'फालो आन्’ इति कथयते ।

(च) कन्दुकषट्कम् (ओवर्)

[सम्पादयतु]

एकस्मिन् समये षड्वारं कन्दुकक्षेपणं 'ओवर्’ इति कथ्यते । इदं क्षेपणम् उभयतो भवति । एकक्रमे षड्वारं कन्दुकक्षेपणेन एका पूर्तिर्भवति । एकस्यां पूर्तावेक एव क्रीडकः कन्दुकं क्षिपति । यस्यां पूतौ किमपि धावनं न भवति तदा 'मैडन् ओवर्’ नाम्ना सम्बोध्यते ।

क्रिकेट्सम्बद्धाः केचन विशिष्टा निर्देशाः शब्दाश्च

[सम्पादयतु]

क्रिकेट्-क्रीडा साम्प्रतं विश्वव्यापिनी विद्यते । अस्यां क्रीडायां जनरुच्यनुसारम् अनेके नियमाः यथावसरं परिष्क्रियन्ते, परिवर्त्यन्ते । बहवः नियमाः तु सूक्ष्मतमाः सन्तः अतीव महत्त्वं भजन्ते । क्रीडेच्छावतां निपुणानां क्रीडकानां साहचर्येण ते ज्ञातव्याः परिपालनीयाश्च । तथाऽपि अत्र निर्देशरूपेण केषाञ्चन सूचनाः उपस्थाप्यन्ते । यथा -

(१) क्रीडानिर्णायकस्य इदं कर्तव्यं भवति यत् स समयात् प्राक् क्रीडाङ्गणमुपेत्य स्थलीं निरीक्षेत्, दलनेतृभ्यां साहचर्यं सम्प्राप्य क्रीडायाः सर्वान् नियमान् निश्चिनुयात् । पक्षपातं विना क्रीडाविधिं चालयेत् । क्रीडानिर्णायको धावनानां सूचनाय (१) दक्षहस्तमुत्थाप्य करतलं प्रसार्य च 'बाई' सङ्केतं करोति तेन ४ धावनानि सूच्यन्ते (२) दक्षपादमुत्थाप्य जानुनि दक्षहस्तं निधाय च 'लैग बाई' घोषणां करोति तथा दक्षहस्तं स्कन्धं यावदुत्याप्य एकाम् अङ्गुलीं दर्शयति तदा 'नो बाल्’ घोषणा सूच्यते । इमानि धावनानि गणनापुस्तिकायां पृथक्-पृथग् लिख्यन्ते । ईदृशं प्रत्येकं धावनस्य कारणमपि भिन्नं भिन्नं भवति ।
स्कोर् बोर्ड्
(२) धावनसंख्यालेखकः 'स्कोरर्’, धावनसंख्या च 'स्कोर्’ इति कथ्यते । लेखको निर्णायकस्य निर्देशान् पालयति लिखति च । यत्र गणना लिख्यते सा गणनापुस्तिका (स्कोर् बुक) गद्यते ।
(३) क्रीडायां कन्दुकलोपे सति क्षेत्ररक्षकः कन्दुकलोपं 'लास्ट् बाल्’ घोषयति । खण्डिते त्रुटिते स्फाटिते च सति कन्दुके तस्य परिवर्तनं शक्यते । यष्टित्रयरक्षकस्य कन्दुकक्षेपकस्य हस्ते कन्दुकप्राप्त्याः सीमारेखातो बहिर्गत्या निर्णायकस्य वस्त्रेऽवरोधाच्च स कन्दुको 'डैड् बाल्’ विनष्टः कन्दुक इति घोष्यते । कन्दुक-प्रक्षेपणस्य नियमानाम् उल्लङ्घने सति 'नो बाल्’ अप्रयुक्तः कन्दुक इति सूच्यते । कन्दुकस्योच्चावच-प्रक्षेपणेन 'वाइड् बाल्’ घोषणा क्रियते । कन्दुकताडकस्य काष्ठपट्टिकयाऽथवा शारीरकेण केनापि भागेन स्पर्शं प्राप्य यदि काष्ठखण्डस्य पतनं भवति तदा 'विकेट् डाउन्’ घोषणा भवति । कान्दुकिकेन क्षिप्तः कन्दुकः ताडकेन ताडितः सन् भूमिस्पर्शं विना निगृह्यते तदा 'केच्’ भवति तथा ताडकं 'केच् आउट्’ इति कथयन्ति । यदा कश्चन क्रीडको यष्टित्रये कन्दुकस्पर्शात् पूर्वं स्वकीय निर्धारितरेखास्थले नागच्छेत् तदा स 'रन् आउट्’ निगद्यते ।

इत्थमियं क्रीडा सम्प्रति समस्तं विश्वं व्याप्य स्थिताऽस्ति । अस्यां प्रावीण्यं प्राप्तानां सङ्ख्यापि अतिदवीयसी विद्यते । विभिन्नस्य क्रीडकस्य विभिन्ने विषये वैशिष्ट्यम् आलोक्यते । यथा-

(१) चतुःशतादधिकधावनकर्तारः
(२) शीघ्रगत्या धावनकर्तारः
(३) ताडने प्रवीणाः
(४) चतुष्क-षट्क-ताडननिपुणाः
(५) एकस्यां प्रतियोगितायां १६ विकेट्-प्रापकाः
(६) अधिकतमविकेट्गृहीतारः
(७) यष्टिरक्षणपण्डिताः
(८) अधिकतमं कन्दुकनिगृहीतारः
(९) अधिकाधिकं दूरे कन्दुकप्रक्षेपकाश्च । प्रावीण्यभाजां क्रीडकानां समादरः सर्वत्र अवलोक्यते । नानाविधैः उपहारैः ते सभाज्यन्ते च । अतो वयमपि तान् अभिनन्द्य वदामः-
परीक्षणार्थं प्रतियोगितादृशा, प्रवर्तमाना विविधा हि शृङ्खलाः ।
मनांसि नित्यं रमयन्ति सर्वतः क्रिकेट्-खेला जगतीतलेऽभवत् ॥

अभिनवक्रीडातरंगिणी

बाह्यसम्पर्कतन्तुः

[सम्पादयतु]
"https://sa.wikipedia.org/w/index.php?title=क्रिकेट्-क्रीडा&oldid=485634" इत्यस्माद् प्रतिप्राप्तम्