फलकम्:मुख्यपृष्ठं - प्रमुखः लेखः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

अग्निपुराणम् अष्टादशपुराणेषु अन्यतमः। संस्कृतविश्वकोशेषु भजते प्रधानं स्थानम्। स्वयं पुराणमिदं स्वस्मिन् अग्निपुराणे सर्वासां विद्यानां स्थानमस्तीति विस्फुटं ब्रूते। इयं हि सर्वेषां पुराणानां प्रस्तुतिभङ्गी यत् सर्वमपि विषयजातं द्वयोः संभाषणैः स्फोर्यते, एकस्यर्षस्य पर्यनुयोगम् अन्य उत्तरयतीति च। पुराणमिदमग्निनामकमपि संभाषणैरेव संघटितम्। तानि च सम्भाषणान्यग्निवसिष्ठयोः। पुराणमिति शब्दाकर्णनमनु सृष्टिः प्रतिसृष्टिरित्यादि वस्तुपूगं किलानुसन्दधति विमर्शनविचक्षणाः। अत्रापि सर्गस्य (सृष्टेः)विचारः १७-२० एतेष्वध्यायेषु वर्तते। प्रतिसर्गस्य तु पुनः ३३८ संख्याङ्कितस्याध्यायस्याननन्तरम्। (अधिकवाचनाय »)