श्लेषालङ्कारः
नानार्थसंश्रय: श्लेष: वर्ण्यावर्ण्योभयाश्रय:
नानार्थसंश्रय: अनेकार्थगोचरः शब्दविन्यासः श्लेष इति लक्षणम् । तत् त्रिविध: ।
1) वर्ण्याश्रयः प्रकृतानेकार्थविषयशब्दविन्यअसरूपः प्रकृतश्लेषः।
2) अवर्ण्याश्रयः अप्रकृतानेकार्थविषयशब्दविन्यासरूपः अप्रकृतश्लेषः।
3) उभयाश्रयः प्रकृताप्रकृतानेकार्थगोचर: शब्दविन्यासः प्रकृताप्रकृतश्लेष इति।
- 1)प्रकृतश्लेषस्य उदाहरणम्।
सर्वदोमाधवःपायात् स योऽगंगामदीधरत् ।
सर्वं ददातीति सर्वद: सकलाभीष्टप्रदाता, माया: लक्ष्म्याः धव: पति: विष्णु: य: अर्गं पर्वतं गोवर्धनं, गां पृथिवीं च अधीघरत् धुतवान् स: पायात् रक्षेत् इत्येक: प्रकृतार्थ: । सर्वदा उमाया: धव: शिवः, य: गंगामधीधरत् स: पायादिति द्वितीयोऽप्यर्थ: प्रकृत एवेति प्रकृतश्लेषः।
- 2) अप्रकृतश्लेषस्योदाहरणम्।
अब्जेन त्वन्मुखं तुल्यं हरिणाहितसक्तिना ।
तव मुखं हरिणा सूर्येण आहितसक्तिना कृतासक्तिना अब्जेन पद्मेन तुल्यं इत्येकोsर्थ: । त्वन्मुखं हरिणेन मृगेण आहितसक्तिना कृतसङ्गेन अब्जेन चन्द्रेण तुल्यमिति द्वितीयोऽर्थ:। उभयोरपि पद्मचन्द्रयो: उपमानत्वेन अप्रकृतत्वाद् अप्रकृतश्लेष: ।
- प्रकृताप्रकृतश्लेषस्य उदाहरणम्।
उच्चरद्भूरिकीलाल: शुशुभे वाहिनीपतिः ॥
उच्चरद् उद्गच्छद् भूरि कीलालं शोणितं यस्य स: वाहिनीपति: सेनापति: शुशुभे इति प्राकरणिकार्थ: ।
उच्चरद् भूरि कीलालं उदकं यस्य स: वाहिनीनां नदीनां पति: समुद्रः शुशुभे इत्यप्राकरणिकार्थ: ।
तथा च श्लिष्टपदानां प्रताप्रकृतार्थगोचरत्वात् प्रकृताप्रकृतश्लेष: ।(अत्र प्रताप्रकृतयोः सादृश्यं प्रतीयते)