स तया श्रद्धया युक्तः...
श्लोकः[सम्पादयतु]
- स तया श्रद्धया युक्तस्तस्या राधनमीहते ।
- लभते च ततः कामान्मयैव विहितान्हि तान् ॥ २२ ॥
अयं भगवद्गीतायाः सप्तमोध्यायस्य ज्ञानविज्ञानयोगस्य द्वाविंशतितमः(२२) श्लोकः ।
पदच्छेदः[सम्पादयतु]
सः तया श्रद्धया युक्तः तस्य आराधनम् ईहते लभते च ततः कामान् मया एव विहितान् हि तान् ॥ २२ ॥
अन्वयः[सम्पादयतु]
सः तया श्रद्धया युक्तः तस्याः राधनम् ईहते । ततः च मया एव विहितान् तान् कामान् हि लभते ।
शब्दार्थः[सम्पादयतु]
- सः = सः भक्तः
- तया श्रद्धया = तया आसक्त्या
- युक्तः = संयुक्तः
- तस्याः = एतस्य मूर्तेः
- आराधनम् = सेवनम्
- ईहते = करोति
- ततः च = पश्चात्
- मया एव = भगवता मया एव
- विहितान् = दत्तानि
- तान् कामान् = तानि फलानि
- लभते हि = प्राप्नोति खलु ।
अर्थः[सम्पादयतु]
सः भक्तः तया आसक्त्या युक्तः सन् तस्याः देवतातनोः सेवनं करोति । पश्चात् मया एव दत्तानि तानि फलानि प्राप्नोति ।