आदिचुञ्चनगिरिः
अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
आदिचुञ्चनगिरिः (Adichunchanagiri) कर्णाटकराज्यस्य मण्ड्यमण्डलस्य नागमङ्गलोपमण्डले स्थितं किञ्चन क्षेत्रम् । अत्र भगवान् परमेश्वरः आगत्य वासं कृत्वा चुञ्चनामाङ्कितस्य राक्षसस्य वधं कृतवान् । अतः एषः गिरिः चुञ्चगिरिः इति प्रसिद्धः अस्ति । उन्नतिः १९६० मीटर् । अन्या कथा एवमस्ति । शिवकपालदुत्पन्नाय सिद्धयोगिने स्वयं शिवः दर्शनं दत्वा स्वपीठेन साकं प्रतिनिधिरूपेण कञ्चित् सिद्धयोगिनं तत्र त्यक्तवान् । स्वयं पञ्चप्राणैः पञ्चलिङ्गाकृतिरूपेण स्थितवान् ।
क्षेत्रदेवतारूपेण आदिशक्तिरूपिणी देवी अत्र स्थापिता अस्ति । अत्रत्यानि पुण्यतीर्थानि गविसिद्धेश्वरः, चेळूरुकम्ब, गळिगे कल्लूरु, कत्तलुसोमेश्वरः नागचावडिभैरवमन्दिरं च । अन्नदानार्थं प्रसिद्धम् अय्यनमठम् अथवा अन्नदानीमठम् अस्मिन् क्षेत्रे अस्ति ।
मार्गः [सम्पादयतु]
बेळ्ळूरु-तुमकूरुमार्गः