इस्लाम्-मतम्

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
अत्र गम्यताम् : सञ्चरणं, अन्वेषणम्
इस्लाममतम्Allah1.png

इस्लाम्-मतम्

इस्लाममतम्IslamSymbolAllahCompWhite.PNG

इस्लाम् (अरबी : الإسلام अल्-इस्लाम्) एकं एकेश्वरवादि यहूदीक्रैस्तमताभ्यां सदृशं आब्राहामीयमतम् च अस्ति।[१] कुरान्-शास्त्रं, मुहम्मद्प्रवादिनः जीवनशैल्या(सुन्नह्) आचरणप्रवचनद्वारा(हदीस्) च दर्शिता तस्य व्याख्या च इस्लाम्-मतस्य आधाराः सन्ति। इस्लाम्-मतस्य अनुयायी मुस्लिम् इति उच्यते।

मुस्लिम्-जनाः विश्वसन्ति यत् भगवान् मात्र एकः अनुपमः च अस्ति।[२] मुस्लिम्-जनानां अयमपि विश्वासः यत् इस्माम्-मतं तस्य मौलिकधर्मस्य सम्पूर्णं वैश्वनरं च रूपं अस्ति यः आदितः वारंवारं आदम्, नूह्, अब्राहाम्, मूसा, यीशुः चेति सदृशैः भगवद्प्रेरितैः प्रवादिभिः विवृतः आसीत्।[३] इस्लाम्-मतस्य पञ्चस्तम्भाः, ये पूजायाः मूलविधयः सन्ति, अपिच इस्लामीयनीतिः या व्यापारेण, समृद्ध्या, पारिवारिकजीवनेन, वातावरणेन च सदृशे जीवनस्य प्रत्येकविषये मार्गदर्शनं करोति इति इस्लामीयसिद्धान्तस्य मूलभागाः वर्तन्ते।[४]

इस्लाम्-मतस्य अनुचारिणां संख्या समग्रविश्वे प्रायः १४० कोटिपरिमितम् । मतमिदं संख्यादृष्ट्या द्वितीयवृत्तमम् [५] । मुहम्मद्प्रवादिनः एवञ्च तस्य उत्तराधिकारिणां प्रचारेण इस्लाम्-मतम् आविश्वं व्याप्तम् जातम् अस्ति[६] । वर्तमाने समग्रे विश्वे इस्लाम्-पन्थीनः सन्ति, विशेषतः मध्यप्राच्ये, समग्र-एशियामहाखण्डे, आफ्रिकाखण्डे, पूर्व-यूरोपखण्डे, अधिकतया सन्ति[७]अमेरिका-सह पार्श्वस्थदेशेष्वापि इस्लाम्-मतं द्वितीयवृहत्तममतम्[८][९]

शब्दोत्पत्तिः अर्थश्च[सम्पादयतु]

इस्लाम् स्-ल्-म् इति अरबीधातुना उत्पन्नं एकं निमित्तार्थपदं अस्ति। अयं धातुना अरबीभाषायां सम्पूर्णता, सुरक्षा, शान्तिः चेति अर्थान् दत्तवन्ति बहूनि पदानि निर्मितानि सन्ति।[१०] धार्मिकदृष्ट्यां इस्लाम्-पदस्य अर्थः “भगवते स्वेच्छं आत्मसमर्पणं ” इति जातः।[११] इस्लाम्-मतस्य अनुयायिभ्यः प्रयुक्तं पदं मुस्लिम् इत्यपि इस्लाम्-पदस्य क्रियापदेन हि उत्पन्नं कर्तृपदं अस्ति। भक्ताः भगवन्तं सेवित्वा, तस्य निदेशानां पालनं कृत्वा, बह्वीश्वरवादं त्यक्त्वा च भगवते आत्मसमर्पणं दर्शयन्ति। कुरान्-शास्त्रे इस्लाम्-पदं पृथक्पृथक् अर्थान् ददाति। कतिचन पंक्तिषु इस्लाम् इति काचित् आन्तरप्रतीतिरूपेण दृश्यते: “यं कमपि परमात्मा नेतुं इच्छति, तस्य हृदयं सः इस्लाम्-कृते उद्घाटयति[१२]

अन्यासु पंक्तिषु इस्लाम्-पदं दीन्‌ (धर्मः)इति पदेन सह प्रयुक्तं अस्ति: “अद्य अहं युष्माकं धर्मं(दीन्) युष्मभ्यं सम्पन्नं कृतवान्; युष्मासु स्वानुग्रहं पूर्णं कृतवान् अहं; अपिच युष्माकं धर्मरूपेण अहं इस्लाम्-मतस्य अनुमोदनं कृतवान्[१३] अन्यासु इस्लाम् “भगवते प्रतिगमनं”रूपेण वर्णितं अस्ति (अर्थात् केवलं मुखेन स्वीकरणात् गहनतरं अर्थः अस्य।)[१४] जिब्रील्-देवदूतस्य हदीसे इस्लाम्; इस्लाम्(समर्पणं)-ईमान्(श्रद्धा)-इह्सान्(उत्तमता) इति त्रिगणस्य अंशरूपेण वर्णितं अस्ति।‌[१५] इदं हदीस्-अनुसारं इस्लाम्-पदस्य दैविकपरिभाषा “भगवतः अद्वितीयता”, ऐतिहासिकपरिभाषा मुहम्मद् भगवतः सन्देशवाहकः इति प्रवादं, अपिच सैद्धान्तिकपरिभाषा आराधनायाः पञ्चस्तम्भानां विनियोगः अस्ति।[१६][१७]

मतविश्वासः[सम्पादयतु]

इस्लाम्-मतालम्बीनां मतविश्वासस्य मूलविषयौ स्तः-अल्लाह् तथा एकत्ववादः(तौहिद्) । इस्लाम्-जनाः विश्वसन्ति यत् अल्लाह् (भगवान्) मानवजातेः उद्धारनिमित्तं तस्य वाणीं फ़रिश्ता(देवदूतः)-जीब्रैल्-माध्यमेन मुहम्मद्-समीपे प्रेषितवान् । कुरानग्रन्थे खतम्-ए-नबुय्यत् इत्यस्य कथनस्य व्याख्या कृता अस्ति तदनुगुणं मुस्लिम्-जनाः मुहम्मदं अन्तिमेन वाणीवाहकरूपेण(रासूल्) विश्वसन्ति । अस्य मतस्य अनुयायिनां विश्वासः पवित्रग्रन्थः कुरान् त्रुटिरहितः, अविकृतः तथा मानवजातिनिमित्तं अवतीर्णा ईश्वरस्य (अल्लाह्) अन्तिमवाणी । न केवलं तत्, पुस्तकमिदं कयामत्(विनाशकालः) पर्यन्तं मानवजाते मार्गदर्शनं करिष्यति । परन्तु मुस्लिम्-सम्प्रदायस्य एकस्य उपसम्प्रदायस्य आहमदि चिन्तनानुगुणं मुहम्मद् अन्तिमनवी न इति । युगस्य अपेक्षाणुगुणं इषा परम्परा(मोताबेक् नबुय्यत्) रक्षिता भवति[१८]


अल्लाह्[सम्पादयतु]

मुख्यलेखः: अल्लाह्

अल्लाह् इति शब्दस्य व्युत्पत्तिः इलाह् शब्दात् । मुस्लिम्-जनाः महाविश्वस्य सृष्टिकर्तारं 'अल्लाह्' इत्येत् नाम्ना आह्वयन्ति । इस्लाम्-मतस्य मूलविश्वासः 'अल्लाह्'-विषये (भगवतः उपरि) एकत्वभावः वा तौहिद्अल्लाह्विषये एकत्वाभावः इस्लाममतस्य पञ्चस्तम्भेषु प्रथमस्स्तम्भः, यः शहादह् इत्यविधीयते । एकः शहादह्पठनेन अयं विषयम् अङ्गीकरोति यत्, -

  1. अल्लाह् व्यतिरिच्य अन्यः कोऽपि उपास्यः नास्ति।
  2. मुहम्मद् अल्लाह्-प्रेरितः वाणीवाहकः वा रसूल्

सूरा-इख्लास् (कुरान् व्याख्यानम्) व्याख्याने अल्लाह् वर्णनम् एवं दीयते-

[قُلْ هُوَ اللهُ أَحَدٌ. اللهُ الصَّمَدُ. لَمْ يَلِدْ وَلَمْ يُولَدْ. لَمْ يَلِدْ وَلَمْ يُولَدْ. وَلَمْ يَكُنْ لَهُ كُفُوًا أَحَدٌ] {الاخلاص:1-4}

"उच्यताम्, सः अल्लाह् एकः, तस्मात् कोऽपि न अजयन्तः एवं तस्य जन्मदाता अपि नास्ति । तस्य समतुल्यः नास्ति कोऽपि।"1१२:१-४[१९]

फरिश्ता[सम्पादयतु]

मुख्यलेखः: फरिश्ता

फरिश्ता वस्तुतः पारस्यदेशीयः (फारसी) शब्दः । 'फरिश्ता' इत्यस्य अरबी प्रतिशब्दः मालाईका। इस्लाम्-मतस्य विश्वासेषु 'फरिश्ता' अन्यतमा । फरिश्ता अपि इश्वरस्य एकः सृष्टिः । एते ईश्वरस्य दूताः भवन्ति । द्युलोकस्तथा भूलोकयोर्मध्ये सम्पर्कः फरिश्ता रक्षति । एते सर्वदा आल्लाह्-दत्तानां आदेशानां पालनं कुर्वन्ति । कदापि फरिश्ता इश्वरस्य आज्ञायाः उल्लङ्घनं न कुर्वन्ति । फरिश्ता-याः अवयवः नूर्निर्मितः(दिव्यप्रकाशेन निर्मितः) भवति । रूहानिक-जीवाः(द्युलोकिनः) एते भवन्ति, तस्मात् खाद्यस्य अपेक्षा न भवति । फरिश्ता सुगन्धाभिलाषी भवति तथा पवित्रस्थलेषु एव निवसति । एते आल्लाह्-दत्तः आदेशानुगुणं गमनागमनं तथा आकृतिपरिवर्तयितुं शक्नुवन्ति ।

बहवः फरिश्ताः भवन्ति । इस्लाम्-मतानुसारं तेषां श्रेणीविन्यासः न कृतः तथापि चत्वारः फरिश्ताः गुरुदयित्वं निर्वहन्ति, एते यथा-

  • जीब्रैल् – अयं इश्वरस्य (आल्लाह्) दूतः तथा सर्वश्रेष्ठः फरिश्ता । अस्य उल्लेखः कुरान्-शरीफ् ग्रन्थे त्रिवारम् कृतम् (सूरा(अध्यायः) २:९७; ९८, ६६:४)। सूरा :१६ (अध्यायः-१६) १०२ तमे आयाते (अनुच्छेदे) जीब्रैल् पाक्-रूह्(पवित्रात्मा) वा रुहुल्-क्कुदुस् इत्यविधया आख्यायितः ।
  • फरिश्ता मिकाईल्कुरान् ग्रन्थस्य द्वितीयाध्यास्य ९७ आयाते (अनुच्छेदे) अस्य उल्लेखः अस्ति । मिकाईल् वृष्टिः तथा सस्योत्पादनस्य दायित्वं निर्वहति ।
  • फरिश्ता इस्राफिल् – एषः इश्वरस्य आदेशं प्राप्य शृङ्गं वादयेत् इति निश्चितं अस्ति । अस्य शृङ्गवादनं कयामत्-कालस्य (विश्वप्रलयस्य) सूचनां द्योतयति । अस्य कथा कुराने नोपलभ्यते, परन्तु हादिस् ग्रन्थे बहुत्र उल्लेखः अस्ति ।
  • मालाक्-आल्-माउत् – एषः मृत्युदूतः । प्राणहरणमेव अस्य द्वायित्वम् ।
  • विशेषः फरिश्तागणः- ये च कुराने किरामान् कातिबिन्-रूपेण (अर्थः - सम्मानितः लेखकगणः) वर्णिताः, ते प्रत्यैकस्य मनुष्यस्य शुभाशुभानां कार्याणां गणानां कुर्वन्ति ।

कुरान्[सम्पादयतु]

मुख्यलेखः: कुरान्
हात्तात् आजिज् एफेन्दि महोदयेन लिखितः कुरान्-ग्रन्थस्य प्रथमसूरा(अध्यायः) ।

कुरान् ग्रन्थः मुस्लिम्-जनानां मूलग्रन्थः । तेषां विश्वासः 'कुरान्' इति ग्रन्थः स्रष्टुः अविकृता वाणी । कुरान् इति ग्रन्थस्य 'कुर्-आन्','आल्-कुरान्', 'कुरान् शरिफ्', इत्यादिनी विभिन्ननामानि सन्ति । "कुरान्"-इत्यस्मिन् स्थले वर्णभेदेन कोरान्, कोरआन् कदाचित् दृश्यते ।

इस्लाम्-मतानुसारम् , जीब्रैल्-फरिश्ता-माध्यमेन मुहम्मद्-समीपे स्रष्टुः वाणी अवतीर्णा आसीत् (क्रैस्तवीयः६१०- ६३२तमवर्षस्य जुलै मासस्य ६ तमदिनाङ्कपर्यन्तम्) । इयं वाणी मुहम्मदस्य अन्तःस्था आसीत् । सा वाणी संरक्षयितुं मुहम्मद् तस्य अनुयायीनम् आदेशितवान् ।

इस्लाम्-मतस्य मूलपञ्चस्तम्भाः[सम्पादयतु]

इस्लाम्-मतस्य पञ्चस्तम्भाः सन्ति । ते यथा -

  • कलेमा (विश्वासः)
  • नामाज़् (प्रार्थना)
  • रोज़ा वा सियाम्
  • जाकात् (दानम्)
  • हज्ज् (मक्का भ्रमणम्)


टिप्पणी[सम्पादयतु]

  1. वर्तन् ग्रीगोरीयन् (२००३). Islam: A Mosaic, Not a Monolith. वाशिङ्गटन् डि.सी.: बुकीङ्गस् इनस्टिट्युसन् प्रेस्. pp. p. ix. ISBN 0-8157-3283-X. 
  2. "कुरान् २:२५५"
  3. "People of the Book" Islam: Empire of Faith. PBS Retrieved on 2010-12-18
  4. Esposito, John. (2002b) What Everyone Needs to Know about Islam pp.17,111,112,118, Oxford University Press. ISBN 0-19515713-3
  5. Teece, Geoff (2005). Religion in Focus: Islam. Smart Apple Media. pp. p. 10. 
  6. Nelson, Lynn Harry. "Islam and the Prophet Muhammad". Kansas University. Retrieved 2006-06-17.  - "One must remember that we are talking about the Muslim expansion, not Arab conquests. The expansion of Islam was as much, or perhaps much more, a matter of religious conversion than it was of military conquest."
  7. जान् एल् एस्पोसीटो (२००२). What Everyone Needs to Know About Islam. अक्सफोर्ड् विश्वविद्यालयः, यू एस्. pp. p. 2. ISBN 0-19-515713-3. 
  8. Office for National Statistics (2003-02-13). "Religion In Britain". Retrieved 2006-08-27. 
  9. BBC (2005-12-23). "Muslims in Europe: Country guide". Retrieved 2006-09-28. 
  10. अरबीधातुः सीन्-लाम्-मीम्
  11. “What does Islam Mean?” , The Friday Journal 2011-02-06. Archived from the original on 2011-03-13.
  12. पश्य: कुरान् ६:१२५ कुरान् ३९:२२
  13. पश्य: कुरान् ५:३ कुरान् ३:८३
  14. पश्य: कुरान् ‌९:७४ कुरान् ४९:१४
  15. सहीह् अल् बुख़ारी १:२:४८
  16. Esposito John L. (2000-04-06) The Oxford History of Islam. Oxford University Press. pp. 76-77 ISBN 9780195107999
  17. Mahmutćehajić, Rusmir (2006). The mosque: the heart of submission Fordham University Press, p. 84. ISBN 978-0-8232-2584-2
  18. कादियानी मतवादः तथा खतम्-ए-नबुय्यत्
  19. पवित्रः कोर्-आ-नुल् करीम्. खादेमुल्-हारमाइन् बादशाह् फाहद्, कुरान् मुद्रणप्रकल्पः. १४१३ हिज़री. pp. १४८० पृष्ठानि. 

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

शैक्षणिकस्रोतः
आन्तर्जालाधारितः स्रोतः
कोषाः
"http://sa.wikipedia.org/w/index.php?title=इस्लाम्-मतम्&oldid=292596" इत्यस्माद् पुनः प्राप्तिः