एस्. एल्. भैरप्पः

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
अत्र गम्यताम् : सञ्चरणं, अन्वेषणम्
एस् एल् भैरप्पः
ಎಸ್ ಎಲ್ ಭೈರಪ್ಪ
जननम् सन्तेशिवर लिङ्गण्णय्य भैरप्प
अगस्त २०, १९३१ (1931-08-20) (वयः ८२)
सन्तेशिवर, हासनमण्डलम्, कर्नाटकम्, भारतम्
राष्ट्रियता भारतीया
वृत्तिः लेखकः, कादम्बरीलेखकः, प्राध्यापकः
प्रभावः गोरूरु रामस्वामी अय्यङ्गारः, आदि शङ्कराचार्यः, महात्मा गान्धी, आनन्द कूमारस्वामि, रामकृष्ण परमहंस, स्वामी विवेकानन्दः
जालपृष्ठम्
http://www.slbhyrappa.com/

परिचयः[सम्पादयतु]

एस्. एल्. भैरप्प: (S. L. Byrappa) (कन्नड:ಸಂತೆಶಿವರ ಲಿಙ್ಗಣ್ಣಯ್ಯ ಭೈರಪ್ಪ) आधुनिके कन्नडसाहित्ये एतस्य कादम्बर्य: अत्यन्तं प्रसिद्धाः सन्ति । एता: कादम्बरीः अधिका: जना: पठन्ति । विंशतितमः शतमान: कादम्बरीयुग: इति निर्दिश्यते । अस्मिन् कालखण्डे ये लेखका: जनानां हृदयस्पर्षं कृतवन्त: तेषु केचन लेखनवृत्तिमेव जीवनवृत्तित्वेन स्वीकृतवन्तः आसन् । केचन अन्यवृत्तौ रताः सन्तः कन्नडसाहित्यकृषिं कृतवन्तः सन्ति । लेखनकार्यं प्रवृत्तिरूपेण स्वीकृत्य, शिक्षणक्षेत्रे कार्यं कुर्वाणः अपि अत्यन्तं जनप्रिय जातः लेखक: अस्ति डा. एस्. एल्. भैरप्प: ।

तेन चीयमानं वस्तु, तस्य विस्तारीकरणं, तस्य अन्त्यकरणादिषु विषयेषु विभिन्नाः अभिप्राया: यद्यपि श्रूयन्ते तथापि भैरप्पमहोदयस्य कादम्बर्य: बहून् वाचकान् नितराम् आकर्षति इत्येतत् निर्विवादकरमेव ।

जीवनम्[सम्पादयतु]

हासनमण्डले चन्नरायपट्टणस्य सन्तेशिवरग्रामे १९३१तमे वर्षे अगस्ट्मासस्य २० तमे दिनाङ्के एस्. एल्. भैरप्प: जन्म प्राप्तवान् । एष: प्राथमिकशिक्षणं स्वस्य ग्रामे एव प्राप्तवान् । गृहे बहु दारिद्र्यम् आसीत् । दायित्वहीनः पिता । प्लेग्-मार्या: परिसरे अपि स: स्वस्य मातु: धैर्यं आत्मसात् कृतवान् आसीत् । तस्य पञ्चमे वयसि माता दारिद्र्यता-प्लेग्-रोगस्य कारणतः मरणं प्राप्नोत् । ततः सः कष्ठेन विद्याभ्यासं कृतवान् । महात्मागान्धिमहोदयस्य विचारैः नितराम् आकृष्टः सः स्वस्य त्रयोदशे एव वयसि स्वातन्त्र्यान्दोलनं प्रविष्टवान् !

प्रौढशिक्षणं महाविद्यालयपठनं च मैसूरुनगरे अनुवर्तितवान् भैरप्प: स्नातकोत्तरपदवीं सुवर्णपदकेन सह प्राप्तवान् । सः बरोडामहाराजसय्याजीरावविश्वविद्यालयत: सत्यं तथा सौन्दर्यम् इति नाम्ना आङ्लभाषया निर्मिताय महाप्रबन्धाय डाक्टरेट्-पदवीं प्राप्तवान् । हुब्बळ्ळीनगरे, गुजरात् राज्ये, देहल्यां च उपन्यासकवृत्तिं निर्वहन् एव प्रसिद्धाः कादम्बरी: अपि रचितवान् । १९६१ तमे वर्षे तदीया प्रसिद्धा कादम्बरी धर्मश्री तेन प्रकाशिता । दशकेषु २१ कादम्बरी: सः रचितवान् अस्ति । तेन रचितानां कादम्बरीणां विषये सर्वदा व्यापकचर्चाः भवन्ति । आङ्ग्लभाषाम् अपि अविहाय बह्वीषु भारतीयभाषासु भैरप्पस्य कादम्बर्य: अनूदिताः सन्ति । गृहभङ्ग, वंशवृक्ष, नेले, साक्षि, नायिनेरळु, तब्बलियु नीनादे मगने, दाटु, धर्मश्री, पर्व इत्यादय: हिन्दी तथा मराठी भाषासु जनप्रिया: सन्ति ।

'वंशवृक्ष', 'तब्बलियु नीनादे मगने', 'मतदान' कादम्बर्य: चलनचित्रस्य रूपाणि प्राप्य प्रशस्तीन् अपि प्राप्तवत्य: सन्ति । 'वंशवृक्ष' कादम्बर्याः कृते १९६६ तमे वर्षे कन्नडसाहित्य- अकाडेमी प्रशस्ति:, १९७५ तमे वर्षे 'दाटु' कादम्बर्याः कृते राज्यस्य केन्द्रस्य च साहित्याकाडेमीप्रशस्तिः प्राप्ता अस्ति । 'पर्व' कादम्बरी एव भैरप्प महोदयेन रचितासु कादम्बरीषु अधिकचर्चायै कारणम् अभवत् । महाभारतस्य कालस्य भारतीयसमाजस्य रीतिनीतीन्, तस्य कालस्य जीवनमौल्यानि, मरणस्य रहस्यात्मकतां च कादमबर्यां अर्थपूर्णतया लिखितवान् अस्ति लेखकः । लैङ्गिकतायाः मरणस्य च दृष्ट्यौ द्रौपदी, कुन्ती, माद्री, गान्धारिणां पात्रचित्रणं समीचिनरीत्या निरूपितवान् अस्ति ।

कादम्बरीन् विहाय साहित्यमीमांसासम्बद्धाः साहित्य मत्तु प्रतीक, कथे मत्तु कथावस्तु, नानेके बरेयुत्तेने इत्यादयः कृतयः अपि भैरप्प महोदयेन रचिताः सन्ति । अधुना अयं मैसूरुनगरे वसति । १९९९ तमे वर्षे कनकपुरे प्रचलितस्य कन्नडसाहित्यसम्मेलनस्य अध्यक्षस्थानं समलङ्करोत् श्रीयुतः भैरप्प: ।

अधिकपठनाय : भैरप्प महोदयस्य बाल्य कालस्य हृदयस्पर्शी चित्रणाय बेळगेरे कृष्णशास्त्री महोदयस्य मरेयलादीते इत्येषः व्यक्तिचित्रसङ्ग्रहः द्रष्टुं शक्यते ।

चित्रसमूहः[सम्पादयतु]

भैरप्पस्य सन्मान समारम्भे रा गणेशस्य भाषणम्
भैरप्पस्य सन्मान समारम्भे लक्ष्मीनारायण भट्टस्य भाषणम्
सन्मान समारम्भे गण्यव्यक्तयः

कृतिविमर्शः[सम्पादयतु]

भैरप्पस्य कादम्बरीणां विषयचयनं महतः विवादस्य कारणं भवति । तस्य सर्वाः प्रमुखकृतय: (वंशवृक्ष, तब्बलियु नीनादे मगने, पर्व, सार्थ) भारतस्य पुरातनसंस्कृत्या: वैशिष्ट्यं निरूपयन्ति । एतस्मात् कारणात् विशेषतया नव्यलेखका: एतस्य आक्षेपं कृतवन्त: । टिप्पु सुल्तान् महाराज: धर्मसहिष्णु: वा न वा इति विचारे गिरीश्कार्नाड्महोदयेन सह भैरप्प: विजयकर्णाटकपत्रिकाया: द्वारा वादं कृतवान् आसीत् । यु. आर्. अनन्तमूर्ति: भैरप्पस्य कादम्बरीणां प्रमुखः टीकाकार: । भैरप्प: एतान् वादविवादान् स्वस्य भित्ति इत्येतस्यां कादम्बर्यां नानेके बरेयुत्तेने इत्येतस्यां कृतौ च लिखितवान् अस्ति ।

भारतीयसंस्कृतेः उपरि सामाजिकपरिस्थितेः उपरि च मुस्लीम्शासनेन जातान् परिणामान् दर्शयन्, ऐतिहासिकसत्यं च दर्शयन् भैरप्पमहोदयः आवरणनामिकां कादम्बरीम् अरचयत् । अस्य विषये कर्णाटके महान् विवादः आरब्धः । भैरप्प: इतिहासनाम्ना समाजं भञ्जयति, अयमस्ति मूलभूतवादी इत्यादीनि निन्दनानि तेन प्राप्तानि । कादम्बर्याः लेखनाय एतस्य ज्ञानमेव नास्ति इति श्री अनन्तमूर्ति: आरोपितवान् आसीत् । ततः सुदीर्घचर्चा साहित्यलोके सम्पन्ना । 'अहं पूर्वाग्रहपीडित: नास्मि सत्यान्वेषणस्य फलमेव आवरणम्' इति आत्मसमर्थनम् अकरोत भैरप्पवर्यः । विजयकर्णाटकपत्रिकायां प्रकाशिता 'मतान्तर' 'कवलु' सम्बद्धा चर्चा जनानाम् आकर्षिका आसीत् ।

भैरप्प महोदयः ”महिलाप्रगतिविरोधी” इति अपि कैश्चित् निर्दिष्टः अस्ति । अस्य कारणात् एव ख्याता कादम्बरीलेखिका सारा अबूबक्कर् असूचयत् यत् केनापि तदीया कादम्बरी न पठनीया इति । ”अयं दक्षिणपन्थीय:” इत्यपि तस्य विषयकः कश्चन आरोप: ।

"http://sa.wikipedia.org/w/index.php?title=एस्._एल्._भैरप्पः&oldid=262610" इत्यस्माद् पुनः प्राप्तिः