केम्मण्णुगुण्डी
केम्मण्णु गुण्डि गिरिधाम
केम्मण्णुगुण्डी (Kemmangundi) कर्णाटकस्य चिक्कमगलूरुमण्डले तरीकेरे-उपमण्डले विद्यमानं किञ्चन गिरिधाम । बाबाबुडनगिरि पर्वतश्रेव्यां स्थितम् एतत् क्षेत्रम् अत्यन्तम् शान्तं मनोहरञ्च वर्तते । सागरस्तरतः १४३४ मीटर्मितं पादोन्नतं वर्तते । सथलमेतत् सर्वतः हरिद्वनैः परिवृत्तम् अस्ति । अति सुन्दराणि भवनानि, निर्झराः, कुल्याः च एतत् स्थलं विश्रान्तिधामयोग्यं कृतवन्तः सन्ति । पूर्वं श्रीनाल्वडीकृष्णराज ओडेयरमहोदयः (मैसूरुमहाराजः) अत्र आगतवान् । क्रिस्ताब्दे १९५२ तमे वर्षे अत्रत्यं शान्तम् सुन्दरं वातावरणं वीक्ष्य अतीव सन्तुष्टः महाराजः 'गिरिधाम’ इति कथितवान् । अतः अस्य गिरिधाम्नः कृष्णराजेन्द्रगिरिधाम इति नाम अस्ति ।
कर्णाटकसर्वकारस्य वननिर्माणविभागः गिरिधाम्नि अभिवृद्धिकार्याणि कृत्वा प्रवासिकेन्द्ररूपेण उत्तमं कार्यम् अकरोत् । श्रीकम्बय्यमहोदयस्य प्रयत्नेन इदं गिरिधाम नन्दनवनम् इव अभवत् ।
अत्र नानाजातीयाः फलपुष्पवृक्षाः सन्ति। विविधवर्णानि पाटलपुष्पाणि सन्ति । ऊटी गिरिधाम इव अतीव व्ययदायकमपि नास्ति । इतः समीपे हेब्बेजलपातः, कल्हत्तगिरिजलपातः, राकगार्डन् , गौरीफाल्स् शान्तिफाल्स्, जग्वारव्याली इत्यादयः दर्शनीयप्रदेशाः सन्ति । अनेकचलनाचित्राणां चित्रणम् अत्र कृतमस्ति । वसतिव्यवस्था अस्ति ।
मार्गः [सम्पादयतु]
धूमशकटमार्गः [सम्पादयतु]
समीपे बीरुरु निस्थानमस्ति । ततः ५५ कि.मी ।
वाहनमार्गः [सम्पादयतु]
- बेङ्गळूरुतः २५२ कि.मी ।
- चिक्कमगळूरुतः ५५ कि.मी,
- तरीकेरेतः ३५ कि.मी ।
- बीरुरुतः वाहनानि सन्ति ।