चणकः

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
अत्र गम्यताम् : सञ्चरणं, अन्वेषणम्
चणकधान्यम्

भारते वर्धमानः कश्चन धान्यविशेषः चणकः । अयं चणकः सस्यजन्यः आहारपदार्थः । चणकम् आङ्ग्लभाषायां Chickpea अथवा Bengal Gram इति वदन्ति । अश्वानां परमप्रियः आहारः चणकः यद्यपि वातकारकः तथापि घृतस्य योजनेन वातदोषः निवारितः भवति । हिरिमन्थः, वाजिमन्थः, सुगन्धः, सकलप्रियः, जीवनः इत्यादीनि नामानि सन्ति चणकस्य । सस्यशास्त्रज्ञाः Cicerone Haem इति वदन्ति । चणके अपि वर्णभेदानुसारं बहुविधाः चणकाः सन्ति । तत्र कृष्णचणकः, गौरचणकः, श्वेतचणकः च प्रसिद्धाः । चणकेन क्वथितं, पौलिं, पञ्चकज्जायं, सूपं च निर्मान्ति । कर्णाटके प्रसिद्धं “मैसूरुपाक्” इत्याख्यं मधुरभक्ष्यम् अपि निर्मीयते चणकेन एव । नवग्रहेषु अन्यतमस्य गुरोः श्रेष्ठं धान्यं चणकः ।

चणकसस्यम्

आयुर्वेदस्य अनुसारम् अस्य चणकस्य स्वभावः[सम्पादयतु]

सामान्यतया चणकः वातवर्धकः । किञ्चिन्मात्रेण कषाययुक्तः मधुरः च । चणकः अपि आढकी इव शरीरं शोषयति । चणकः शीतः मलप्रतिबन्धकः च । प्रमेहिणां हितकरः आहारः । कफस्य कण्ठवेदनायाः च उत्तमम् औषधं चणकः ।

“वातलाः शीतमधुराः सकषाया विरूपक्षणाः ।
श्वेतवर्णस्य हरितवर्णस्य च चणकधान्यम्
कफशोणितपित्तघ्नाश्चणकाः पुंस्त्वनाशनाः ॥
त एव घृतसंयुक्तास्त्रिदोषशमनाः परम् ॥“ (सु.सू. ४६/३१-३२)
“चणको मधुरो रूक्षो मेहजित् वातपित्तकृत् ।
दीप्तिर्वर्णकरो रूक्षो बल्यश्चाघ्मानकारकः ॥“ (भोजनकुतूहलम्)
१. अशुष्कचणकं भर्जयित्वा सेवनेन बलं वर्धते ।
भारते निर्मीयमाणः "चन्नमसाला" नामकः चणकेन निर्मितः व्यञ्जनकिशेषः
२. अशुष्कचणकः अपि बलकारकः, रुचिकरः च । शीतगुणयुक्तः, पिपासां ज्वलनं च दूरीकरोति । किन्तु मितिम् अतिक्रम्य सेवनेन पुंसत्वं नाशयति ।
३. कृष्णचणकः मधुररुचियुक्तः, शीतगुणयुक्तः, पित्तनाशकः च ।
४. श्वेतचण्कः अत्यन्तं वातकरः, पचनार्थं जडः च ।
५. शुष्कचणकस्य भर्जयित्वा सेवनेन वातवर्धनं भवति । वातकारणतः चर्मरोगः वर्धते, रक्तम् अपि अशुद्धं भवति ।
६. पक्वः चणकः यद्यपि वातकरः तथापि कफं, पित्तं च नाशयति ।
७. चणकेन निर्मितानि खाद्यानि वातकारकाणि एव । तदर्थं वातनिवारणाय घृतं योजनीयम् अथवा कटुखाद्यानां हिङ्गुना व्याघरणं करणीयम् ।
८. घृतं योजयित्वा निर्मितानि खाद्यानि बलकारकाणि, न तावन्ति वातकारकाणि, कफं पित्तं च न्यूनीकुर्वन्ति अपि ।
९. ग्रीष्मकाले वर्षाकाले च चणकस्य सेवनं न करणीयम् ।
१०. शैत्यकाले (नवरात्रस्य अनन्तरं सङ्क्रमणतः पूर्वम्) चणकस्य सेवनम् उत्तमम् ।
११. मुद्गपिष्टम् इव चणकपिष्टम् अपि शरीरस्य कान्तिं वर्धयति । फेनकम् इव उपयोक्तुं शक्यते ।
१२. चणकेन निर्मितैः पदार्थैः सह कटुयुक्तम्, आम्लयुक्तं, लवणयुक्तं च अन्यं कमपि आहारं सेवन्ते चेत् आरोग्यार्थं हितकरं भवति ।
"http://sa.wikipedia.org/w/index.php?title=चणकः&oldid=250340" इत्यस्माद् पुनः प्राप्तिः