तलत् महमूदः

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
अत्र गम्यताम् : सञ्चरणं, अन्वेषणम्

तलत् महमूदः (क्रि.श.१९२४तमवर्षस्य फेब्रुवरी मासस्य २४तः क्रि.श.१९९८तमवर्षस्य मे मासस्य ९ पर्यन्तम्) कश्चित् ख्यातः भारतीयः गायकः अपि च अभिनेता । स्वस्य विविधविधैः कण्ठस्वरैः प्रसिद्धस्य अस्य गज़ल् प्रपञ्चस्य राजा इति सङ्गीतरसिकाः सम्बोधयन्ति स्म ।


बाल्यं शिक्षा च[सम्पादयतु]

तलत् महमूदस्य जन्म क्रि.श. १९२४तमे वर्षे फेब्रुवरी मासस्य २४तमे दिनाङ्के भारतदेशस्य उत्तरप्रदेशराज्यस्य राजधान्यां लखनौ नगरे अभवत् । अस्य पिता स्वस्य कण्ठः अल्लस्य दानम् अस्ति अतः तं केवलम् अल्लाय एव समर्पयामि इति वदन् 'नातें 'इति कथ्यमानस्य मुसल्मानमतस्य गीतानि एव गायति स्म । बाल्ये महमूदः पितुः अनुकर्णं कर्तुं प्रयत्नं करोति स्म किन्तु गृहसदस्यः तस्य प्रोत्साहनं न अकुर्वन् । तेषु काचित् पितृभगी अस्य इच्छां ज्ञात्मा प्रोत्साहयति स्म । अतः सा किशोरं महमूदं सङ्गीतशिक्षार्थं मारिशस् महाविद्यालये प्रवेशं कारितवती । अस्य सप्तदशमे वयसि तत्कालप्रसिद्धस्य कलमदसगुप्तस्य "सब् दिन् एक् समान् नही " इति गीतं गातुम् अवकाशं प्राप्तवान् । आकाशवाण्या अस्य गानस्य प्रसरणानन्तरं लखनौप्रदेशे गीतं बहुप्रसिद्धम् अभवत् । प्रायः एकवर्षस्य समनन्तरं एच्.एम्.वि. इति नाम्नः प्रसिद्धः सङ्गीतवाणिज्यस्य समवायः कोलकोतातः लखनौ आगत्य अस्य गीतद्वयस्य ध्वनिमुद्रणम् अकरोत् । तदनन्तरं चत्वरि गीतानि गीत्वा ध्वनिमुद्रणम् अभवत् । येषु " तस्वीर् तेरी दिल् मेरा बदला न सकेगी " इति गज़ल् अपि आसीत् । सङ्गीतरसिकाः स्वरप्रस्तारकाः च एतत् गीतम् अधिकम् इष्टवन्तः अपि च एतत् गीतं कस्मिंश्चित् चलच्चित्रे योजितम् ।

उपलब्धयः[सम्पादयतु]

द्वितीयमहायुद्धस्य दिनेषु नेपथ्यगायकानां विशेषा अभ्यर्थना आसीत् । ततः पूर्वम् अभिनेतारः स्वयं गायन्ति स्म । कुन्दन लाल सहगल् इत्यस्य लोकप्रियतया उत्साहितः तलत् महमूदः गायकः अभिनेता च भवितुं क्रि.श.१९४४तमे वर्षे मे मासे कोलकतानगरम् अगच्छत् यत्र तदा एतादृशप्रक्रियायाः प्रचलन्ति स्म । तस्मिन् एव काले कुन्दनलाल सहगलः कोलकतानगरं त्यक्त्वा मुमैनगरम् अगच्छत् । कोलकत्तानगरे सङ्घर्षेण सह बङ्गालीभाषायाः गीतगानेन अस्य गानवृत्तेः आरम्भः अभवत् । ध्वनिमुद्रणस्य समवायः गायकस्य रूपेण अस्य नाम "तपन कुमारः" इति अकरोत् । क्रमेण शतशः अस्य गीतानि ध्वनिमुद्रितानि । न्यू थियेटर्स् इति समवायः क्रि.श. १९४५तमे वर्षे स्वनिर्मिते "राजलक्ष्मी" इति चलचित्रे महमूदं नयकगायकरूपेण न्ययोजयत् । सङ्गीतनिदेशकस्य राबिन् चटर्जीवर्यस्य निदेशने अनेन गीतं "जागो मुसाफिर् जागो" इति गानं जनप्रियम् अभवत् । एतेन उल्लसितः भूत्वा मुम्बैनगरं गत्वा तत्र अनिल् विश्वासः इति प्रसिद्धसङ्गीतविद्वासं मिलितवान् । किन्तु अनिल् विश्वासः अभिनेता भवितुम् कृशकायस्य अस्य अर्हता नास्ति इति एतं निवारितवन् । शरीरेण पुष्टः भूत्वा अगमिष्यामि इति निश्चित्य महमूदः पुनः कोलकोतानगरम् अगच्छत् । तत्र अनेन क्रि.श.१९४९तमे वर्षे " तुम् और् वो ", " समाप्ति " इति चलच्चित्रद्वये गानस्य अवसरः प्राप्तः । कोलकतानगरे कार्यस्य विरलतां वीक्ष्य पुनः मुम्बै नगरम् अगच्छत् । क्रि.श. १९५०तमे अस्मिन् काले अनिल् विश्वासः स्वस्य "फिल्मिस्थान्" इति चित्रशालायाः " आरज़ू " इति चलच्चित्रे अस्मै नेपथ्यगानस्य अवसरं प्रदत्तवान् । दीपककुरामस्य अभिनयस्य गीतं " ये दिल् मुझे ऐसी जगह ले चल " जनप्रियम् अभवत् । अनेन अस्य कम्पनयुक्तः स्वरः सङ्गीतज्ञानां मनसि संलग्नम् । अस्मिन् एव समये ख्यातः सङ्गीतकारः नौशादः स्वस्य सङ्गीतार्थं नूतनकण्ठस्य अन्वेषणरतः आसीत् । शङ्कर जैकिशन् इति सङ्गीज्ञस्य चलच्चित्रं " बरसात् " जनप्रियम् अभवत् इति श्रुत्वा नौशादाः शङ्करजैकिशनं स्वस्य प्रतिस्पर्धी, मुकेशः तस्य शिष्यः इति चिन्तयति स्म । अपि च महम्मद् रफी, मन्ना डे तावति काले ख्यातिं नाप्तवन्तौ अतः तलत् महमूदाय अवसरं दत्तवान् । क्रि.श.१९५०तमे वर्षे " बाबुल् " इति चलच्चित्रे दिलीपकुमारार्थं गातुम् अवकाशः लब्धः । तदनन्तरं नौशादस्य अस्य एव चित्रस्य "मिलते ही आङ्खे दिल् हुवा दीवान किसी का " इति गीतं बहुजनप्रियः अभवत् । अस्य कण्ठमाधुर्यम् अनेन सह गीतवत्याः शमशाद् बेगम्मायाः कण्ठं जनाः इष्टवन्तः । तस्मिन् एव वर्षे विविधसङ्गीतकाराणां स्वरप्रस्तारस्य १६गीतानि गीतवान् । अस्य लोकप्रियता संवर्धमाना एव आसीत् । अस्मिन् एव कालखण्डे मुकेशस्य ख्यातिः रजकपूरस्य चलच्चित्रस्य गानैः अभवत् । महम्मद् रफीवर्यः क्रि.श. १९४८तः१९५२काले "शाहीद् ", "दुलारी ", " मेला ", "बैजू बावरा " इत्यादिभिः चलच्चित्रगीतैः लोकप्रियः भवति स्म । चित्रशालायां धूमपास्य कारणेन नौशादः तलत् महमूदस्य अवगणनं कर्तुम् आरब्धवान् । किन्तु अन्यप्रसिद्धसङ्गीतसंयोजकाः अनेन यत्किमपि गाययन्तः आसन् । अनेन क्रि.श.१९५०तमे अवधौ अस्य कण्ठः सर्वत्र गूञ्जन् एव आसीत् ।

अभिनयस्य अभिलाशा[सम्पादयतु]

गानक्षेत्रस्य यशस्विन्याः यात्रायाः विषये तलत् महमूदस्य तृत्पिः नासीत् यतः अभिनयक्षेत्रे प्रबुद्धाभिनेतुः रूपेण आत्मानं स्थापयितुम् इच्छति स्म । किन्तु एषः यावान् उत्तमः गायकः तावान् कलायुतः अभिनेता नासीत् । अस्य कण्ठस्य माधुर्येण अस्मै अभिनयस्य अवकाशः अपि दत्तः । "आराम् " इति चलच्चित्रे "शुक्रिया यह् प्यार् तेरा" इत्येकं गज़ल् गायन् शुक्लयवनिकायाम् उदेति । एतस्य अन्तन्तरं मिनर्वस्य " वारिस् " इति चलच्चित्रे यथा सुरैया इति गायकस्य द्वितीयनायिकया सह नायकम् अकरोत् तथा सोहराब् मोदि इति उद्यमी तलत् महमूदस्य द्वितीयनयकस्य अवकाशं दत्तवान् । एवमेव "चान्द उस्मानि ", " डाक् बाबू ", " एक गांव् की कहानी " इत्यादिषु १७चलच्चित्रेषु अभिनेता गायकः च भूत्वा कार्यं कृतवान् । एवं गानार्थं विशेषश्रद्धां न यच्छन् गानक्षेत्रे ख्यातिः क्षीणप्राया अभवत् । अस्य अनवधानतायाः कारणेण अस्य स्थानं क्रमेण महम्मद् रफी प्राप्तवान् । अभिनये अधिकं किमपि न साधितं साध्यम् अपि न इति विश्वासः क्रि.श.१९५८तमे वर्षे निर्मितस्य " सोने की चिडिया " इति चलच्चित्रस्य कारणेन आगतः । उर्द्दू भाषायाः प्रसिद्धलेखिकायाः इस्मत् चुगतायी इत्यस्याः कथायां तत्कालीनयाः ख्याताभिनेत्र्याः नर्गिस् इत्यस्याः जीवनचरिम् आसीत् । अस्याः प्रियकरः शहीद् लतीफ् निर्मापकः निदेशकः भूत्वा नूतना इत्याख्यां नायिकां कृत्वा, बालराजसहानीं, तलत् महमूदं च नायकौ कृत्वा, ओ.पि.नैयरस्य सङ्गीतं योजयित्वा एतत् " सोने की चिडिया " इति चलच्चित्रं लोकार्पितम् । मध्ये चलच्चित्रं स्थगयामि इति यदा निर्मात अवदत् तदा तलत् महमूदः गानं गीतवान् । अस्मिन् एव काले बिमल रायस्य मधुमती चलचित्रं नीर्मीयते स्म यस्मिन् सङ्गीतसंयोजकः ललिल चौदरी, दिलीपकुमारस्य अभिनेतुः गानं तलत महमूदेन गीतव्यमासीत् । किन्तु तस्मिन् समये मुकेशः अन्यकार्येषु व्यस्तः आसीत् । महमूदः सङ्गीतज्ञं सलिलचौदरिमहोदयम् उक्तवान् मुकेशेन गापयतु इति । तदनुगुणं मुकेशः मधुमति चलच्चित्रे दिलीपकुमारस्य कृते गीतवान् । एतदेव अस्य अन्तिमं गीतम् अभवत् । चलच्चित्रक्षेत्रे तज्ञाः वदन्ति स्म यत् तलत् महमूदः गानकलायाः अद्भुतप्रतिभावन् अस्ति । किन्तु अभिनस्य व्यसनेन प्रसिद्धः सङ्गीतज्ञः नाभवत् इति ।

चलच्चित्रेतरवृत्तिः[सम्पादयतु]

क्रि.श.१९६०तमदशकस्य आरम्भपर्यन्तं चलच्चित्रेषु अस्य गानानि अति न्यूनानि आसन् । सुजाता इति चलच्चित्रय्स "जलते हैं जिसके लिए " तस्य कालस्य स्मरणियं गीतम् अभवत् । क्रि.श.१९६६तमे वर्षे तेन गीतं "जहां आरा " इति चलच्चित्रस्य गानम् एव अस्य अन्तिमं चित्रगीतम् अभवत् । अस्य सङ्गीतसंयोजकः मदन मोहनः आसीत् । अग्रेमे कालखण्डे चलच्चित्रस्य सङ्गीतस्य रूपम् एव परिवर्तितं यस्मिन् तलतस्य स्वरः शैली वा मेलः न भवति स्म । किन्तु अस्य चलच्चित्रेरगानेषु सर्वदा अवकाशः आसीत् एव । अस्य बहूनि नूतनानि गीतगुच्छानि लोकार्पितानि अभवन् । अस्य रवः तु भगवता गज़ल् गातुम् एव दत्तः इव आसीत् । तलत महमूदः क्रि.श. १९५६तमे वर्षे वेदिकाकर्यक्रमार्थं दक्षिणाफ्रिकातः आमन्त्रणं प्राप्तवान् । एतादृशकार्यक्रमेषु भागवहनं चलच्चित्रगायकस्य अपूर्वः अवकाशः आसीत् । अस्य गानकर्यक्रमः अपूर्वं यशः अवाप्नोत् । अनेन कारणेन तलतमहूदेन तस्मिन् देशे अन्येषु नगरेषु अपि गातुम् अवरसरः प्राप्तः । दक्षिणाफ्रिकादेशे आहत्य २२कार्यक्रमान् प्रदर्शितवान् । तस्मात् कालात् एव विदेशेषु भारतीयचच्चित्रसङ्गीतस्य कार्यकर्मस्य परम्परा आरब्धा । बहुकालं यावत् एतादृशकार्यक्रमेषु तलतः व्यस्तः अभवत् । देशविदेशेषु 'तलत् महमूद् नैट्स् ' इति नाम्ना अस्य सङ्गीतगोष्ट्यः समभवन् । अस्य आयस्य कारणेन तस्य आर्थिकी स्थितिः अपि उत्कर्षताम् अगच्छत् । कलान्तरेण एषः पक्षवातेन पीडितः गातुम् अशक्तः अभवत् । तथापि अनेन पूर्वगीगानां श्रवलोलुपानां सङ्ख्या न्याना नाभवत् । दिशतचलच्चित्रेषु अस्य उपपञ्चशतानि, चलच्चित्रेरराणि १५०गानानि सन्ति । क्रि.श.१९६२तमे वर्षे एषः " चिराग् जल्ता रहा " इति पाकिस्तानी चलच्चित्रार्थं निहाल मोहम्मदस्य स्वरसंयोजने गानद्वयं गीतवान् । पार्श्वघातेन बाधितः सन् तलत महमूदः क्रि.श.१९९८तमवर्षस्य मे मासस्य नवमे दिने अयं लोकं त्यक्त्वान् ।

विशेषावलोकनम्[सम्पादयतु]

बाह्नानुबन्धाः[सम्पादयतु]

"http://sa.wikipedia.org/w/index.php?title=तलत्_महमूदः&oldid=277013" इत्यस्माद् पुनः प्राप्तिः