पूर्वमेदिनीपुर-मण्डलम्

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
(पूर्व मिद्नापुर् मण्डलः इत्यस्मात् पुनर्निर्दिष्टम्)
अत्र गम्यताम् : सञ्चरणं, अन्वेषणम्

पूर्वमेदिनीपुर-जनपदम् (East Medinipur)पश्चिमबङ्गराज्ये स्थितम् एकं जनपदम्। अस्य मण्डलस्य केन्द्रं तम्लुक् नगरम्।

पूर्वमेदिनीपुर-जनपदम्
—  जनपदम्  —
देशः  भारतम्
राज्यम् पश्चिमबङ्गराज्यम्
प्रशासनिकविभागः बर्धमान
केन्द्रनगरम् तम्लुक्
विस्तीर्णम्
 • Total ४,७३६ Square km (१,८२८.६ Square mile)
जनसङ्ख्या (2011)
 • Total ५०,९४,२३८
भारतीय-मान-समयः (UTC+५:३०)
लोकसभाकेन्द्राणि कांथी(कन्टाइ), तम्लुक्, घाटाल(आंशिक), मेदिनीपुर (आंशिक)
जालस्थानम् http://purbamedinipur.gov.in/

२००२ तमे वर्षे १ जानवरि मासे अविभक्तमेदिनीपुरमण्डलस्थानां तम्लुक्, हलदिया, कांथी च एगरा उपविभागानां संयोजनेन पूर्वमेदिनीपुरमण्डलस्य संरचना अभवत् । भारतस्य स्वाधीनताप्राप्तिसंग्रामेषु अस्य मण्डलस्य अग्रणीभूमिका आसीत् । साम्प्रतिककालिन 'नन्दीग्रामे' गणहत्या पूर्वमेदिनीपुरमण्डलं पुनः संवादशिर्षके आनीतम् ।

नामौचित्यम्[सम्पादयतु]

पूर्वमेदिनीपुरमण्डलस्थितं प्रसिद्धभीममन्दिरम्

वस्तुतः पुराकाले प्रसिद्धः 'ताम्रलिप्त'प्रदेशः(तम्लुक्) एव अद्यतन पूर्वमेदिनीपुरजनपदम् । ताम्रधातुना लिप्तः ततः आगतः 'ताम्रलिप्तः' इति । मयुरवंशीय नराधिपतिः ताम्रध्वजतः 'ताम्रलिप्तः' नामप्राप्तेति प्रचलितकथा । पुरातनवैष्णवग्रन्थेषु वर्णितमस्ति यत् एकदा सूर्यः व्रजभूमौ राधिकया सह जलकेलिरत-भगवानश्रीकृष्णं दृष्टवान् । तदा सूर्यदेवेन लज्जा अनुभूता । लज्जया अस्य वर्णः ताम्रवर्णः जातः । सूर्यः पुनः उदयप्रान्तं प्रति गतवान्(भारतदेशस्य पूर्वप्रान्तम्) एवञ्च बङ्गोपसागरे आत्मनं गोपयितवान् । यत्र सूर्यदेवः अस्तं प्रतिगतं सैव प्रदेशः ताम्रलिप्तेति प्रख्यातः(वर्तमान पूर्वमेदिनीपुरजनपदम्) ।

पूर्वमेदिनीपुरजनपदम् पुराणग्रन्थेषु 'ताम्रलिप्तिः', महाभारते 'ताम्रलिप्तः', ऐतिहासिकग्रन्थेषु 'तमालिका', वैदेशिकविवरणेषु 'तमालित्ति', तथा ब्रिटिशशासनकाले तम्लुकेति विविधकाले विविधनाम्ना प्रख्यातम् ।

परन्तु तम्लुकतः मेदिनीपुरेति आख्या कदा लब्धा ? पुराकाले अस्मिन् मण्डले 'मेदिनीकरः' इति नराधिपतिः आसीत् (क्रैस्तवीय १२३८) । तस्य नामानुसारं मण्डलस्य नामागतेति एकः पक्षः । अपरपक्षानुसारं मण्डलस्य अधिष्ठात्री देवी मेदिनीमातायाः(जगत्धात्रेः दुर्गायाः रूपविशेषः) नामानुसृत्यैव प्रदेशस्य नामकरणम् इति ।

इतिहासः[सम्पादयतु]

पुरातात्विक-निदर्शनानुसारं क्रैस्तपुर्वतृतीयशतकतः जनवसतिपूर्णप्रदेशोऽयम् । महाभारतस्य नवमे भीष्मपर्वणि सञ्जयः भारतवर्षस्य पवित्रनदीजनपदादयः वर्णनसमये ताम्रलिप्तप्रदेशविषये धृतराष्ट्रं सूचितवान् ।
पूर्वमेदिनीपुरजनपदम् उत्कल(कलिङ्गः)-बङ्गयोः मध्येस्थितम् । तस्मात् बहुधार्मिकग्रन्थेषु मण्डलमिदं मध्यदेशः इति वर्णितम् । जैनमतानुसारं ताम्रलिप्तः 'वेङ्ग' राजवंशस्य राजधानी आसीत् । अनन्तरवर्तीकाले पोताश्रयरूपेण अस्य प्रदेशस्य ख्यातिः विस्तृता आसीत् ।

साक्षरता शिक्षा च[सम्पादयतु]

२०११ तमवर्षस्य जनगणनानुसारं पूर्वमेदिनीपुरमण्डलस्य साक्षरता समग्रजनसंख्यायाः ८७.६६% । २००१ तमे वर्षे अस्य मण्डलस्य साक्षरता ८०.२०% आसीत् । तत्राऽपि मण्डलस्य पुरुषसाक्षरता ८९.१% तथा स्त्रीसाक्षरता ७०.७% अस्ति । समग्रराज्यस्य इतरमण्डलेषु पूर्वमेदिनीपुरमण्डलस्य शिक्षायां प्रथमस्थानम् ।

जनसंख्या[सम्पादयतु]

२०११ तमवर्षस्य जनगणनानुसारं पूर्वमेदिनीपुरमण्डलस्य जनसंख्या ५,०९४,२३८। इयं जनसंख्या प्रायः संयुक्त-आरबदेशस्य जनसंख्यायाः समसंख्यक । जनसङ्ख्याविचारे भारतवर्षस्य ६४० मण्डलेषु पूर्वमेदिनीपुरमण्डलस्य २० तमस्थानमस्ति । अस्य मण्डलस्य जनघनत्वं १,०७६ जनाः प्रतिवर्गः कि मी । २००१-२०११ काले जनसंख्यावृद्धिः १५.३२% आसीत् ।

मण्डलस्य प्रसिद्धलेखकाः[सम्पादयतु]

ईश्वरचन्द्र-विद्यासागरः

»ईश्वरचन्द्र विद्यासागर
» सामनान्द
»रसिकानन्द
» प्राणवल्लभ घोष
»अकिन्चन् चक्रवर्ति
»गोपिञ्जन वल्लभ दास
» गोवर्धन दास
» कानुराम दास
»वासुदेव घोष
»दुखीशम दास
»कविकङ्कण मुकुन्दराम
»बलराम कविकङ्कण
»काशिराम दास
»सनातन चक्रवर्ति
»रामेश्वर भट्टाचार्य
»सत्यराम बसु
»नित्यानन्द चक्रवर्ति
»दयाराम दास
» कविकिङ्कर
» रामपति बन्द्योपाध्याय
»ताडिनी देवी
»कलिश्वर बसु
»रामनारायण भट्ट
»कवि शङ्करदेव
» श्रीकृष्ण किङ्कर
»द्विज हरिराम
»नवीन बाउल
» मृत्युञ्जय विद्यालङ्कार
»ईशान चन्द्र बसु

दर्शनीयस्थलानि[सम्पादयतु]

पूर्वमेदिनीपुरमण्डलस्य पूर्वप्रान्तस्थित सुवर्णरेखायाः तटीयप्रदेशे सुदर्शनयोग्यानि विशिष्टभू-रूपानि सन्ति । कर्कटप्रदेशीय अस्मिन् प्रदेशे पर्यटकाः अत्युत्साहेन परिभ्रमणं कुर्वन्ति ।

तम्लुक्[सम्पादयतु]

  • मण्डलस्य मुख्यकेन्द्रनगरं तम्लुकनगरम् रूपनारायणनद्याः तीरे स्थितम् । रूपनारायणस्य तटप्रदेशः वनभोजननिमित्तं बहुख्यातः ।
  • अस्मिन्नगरस्थितं ११५० वर्षपुरातनं बर्गभीममन्दिरं ५१ शक्तिपीठेषु अन्यतमम् । पुराणानुसारं भगवानविष्णुः शिवस्य कोपशमनार्थं सुदर्शनचक्रेण मृतसतेः देहं विखण्डनं कृतवान् । तस्मिन् समये धरातले पतितासु अङ्गेषु सतेः वामपादस्य कनिष्ठाङ्गुलिः अत्र पतितासीत् ।
  • तम्लुकनगरस्य संग्रहालयः पर्यटकानां गन्तव्यस्थलेषु अन्यतमः । पुरातात्विकनिदर्शानानि अत्र संरक्षितानि सन्ति । ताम्रधातुनालिप्तः ग्रीकशिलालेखः तेषु अन्यतमः ।
दीघायाः समुद्रसैकते पर्यटकसमावेशः
  • नगरे 'रक्षितबाटि' इति गुरुत्वपूर्णं दर्शनीयस्थलम् अस्ति । १९ शतके विप्लवीप्रशिक्षणकेन्द्रं 'अनुशीलनसमितिः' तथा 'गुप्तसमितिः' रक्षितबाट्याम् आसीत् ।

दीघासमुद्रतटः[सम्पादयतु]

दीघा इति पर्यटनस्थलस्य प्राकृतिकसौन्दर्यं पर्यटकान् आकर्षयति । पूर्वमेदिनीपुरमण्डलस्य सम्मुद्रसंलग्ननगरमिदं बङ्गोपसागरस्य उत्तरदिशि अवस्थितम् । दीघायाः समुद्रसैकते सान्ध्यकालिन भ्रमणं पर्यटकैः बहुरोचते । प्रसिद्धमिदं सैकतक्षेत्रं प्रति भ्रमणार्थं लक्षाधिकजनाः आगच्छन्ति ।

हलदीया[सम्पादयतु]

पूर्वमेदिनीपुरमण्डलस्य वाणिज्यनगरं भवति हलदीया । कोलकातातः ५० कि मी दूरे अवस्थितमिदं नगरम् उन्नतेः ध्वजस्वरूपम् । हुगलिनद्याः तटेस्थितोऽयं प्रदेशः देशीय तथा वैदेशिकवाणिज्यनिमित्तम् अनुकूलस्थितिसम्पन्नः प्रदेशः ।

परिसीमा[सम्पादयतु]

ऐतिहासिकपोताश्रयस्य पूर्वमेदिनीपुरमण्डलस्य दक्षिणप्रान्तः बङ्गोपसागरेण आबद्धः । पूर्वदिशि रूपनारायणनदी, सुवर्णरेखानदी तथा पश्चिमदिशि वर्ततः । वस्तुतः द्वारकेश्वर-शिलाइनदयोः युग्मस्रोतः एव रूपनारायणनदी ।