प्रवेशद्वारम्:संस्कृतम्/उत्तमलेखाः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

छान्दोग्योपनिषत्

दशसु प्रमुखोपनिषत्सु अन्यतमा अस्ति छान्दोग्योपनिषत् । इयं हयग्रीवरूपिणः भगवतः मुखात् आविर्भूता पवित्रवाक्यरूपा । सर्वासाम् उपनिषदां मुख्याभिमानिनी लक्ष्मीदेवी स्वस्य पतिं श्रीहरिम् अत्र ओमित्यक्षरमुद्गीथमुपासीत इत्येवम्प्रकारेण स्तुतवती अस्ति इति आचार्याः उपोद्घाते उल्लिखितवन्तः सन्ति ।

हयग्रीवोद्गीतवाक्यै रमादेवी रमापतिम् ।
ओमित्येतन्मुखैर्देवमस्तुवत् सामवेदगैः ॥ इति महासंहितायाम् । (छा उ भाष्यम् १-१-१)

(अधिकवाचनाय »)