यवः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
शुष्कानि यवसस्यानि
यवराशिः

अयं यवः अपि भारते वर्धमानः कश्चन धान्यविशेषः । अयं यवः अपि सस्यजन्यः आहारपदार्थः । अयं यवः आङ्लभाषायां Barley इति उच्यते । अस्य यवस्य मेध्यः, सितशूकः, दिव्यः, अक्षतः, धान्यराजः, तीक्ष्णशूकः, तुरगप्रियः, हयेष्टः , पवित्रधान्यम् इत्यादीनि अन्यानि नामानि अपि सन्ति । अयं यवः आहारः औषधं च । आचार्यः चरकः मधुमेहस्य निमित्तं संस्कारितः यवः अत्युत्तमम् औषधम् इति उक्तवान् अस्ति । एतं विषयम् अधिकृत्य एव आयुर्वेदमहाविद्यालये संशोधनम् अपि कृतम् अस्ति । तदा सिद्धं यत् यवस्य उपयोगेन सप्ताहाभ्यन्तरे एव रोगलक्षणं न्यूनं जायते, तथा च शर्करांशः १००-१५० मि.ग्रां. यायत् न्यूनः जायते इति ।

आयुर्वेदस्य अनुसारम् अस्य यवस्य स्वभावः[सम्पादयतु]

यवसस्यम्
यवक्षेत्रम्

अयं यवः पचनार्थं जडः । यवः कषायमिश्रितमधुररुचियुक्तः । अयं यवः जीर्णानन्तरं कटुविपाकः भवति । अयं यवः पिच्छिलः रूक्षः च ।


“यवः कषायो मशुरः शीतलो लेखनो मृदुः ।
व्रणेषु तिलवत् पथ्यो रूक्षो मेधाग्निवर्धनः ॥
कटुपाकोऽनभिष्यन्दी स्वर्यो बलकरो गुरुः ।
बहुवातमलो वर्णस्थैर्यकारी च पिच्छिलः ॥
कण्ठत्वगामयश्लेष्मपित्तमेदःप्रणाशनः ।
पीनसश्वासकासोरुस्तम्भलोहिततृट्प्रणुत् ॥“ (भावप्रकाशः)


१. अयं यवः शरीरं शुष्कीकरोति ।
२. यवः शीतलः, लेखनः, मृदुः च ।
३. यवः शरीरे विद्यमानान् दोषान् निवारयति ।
४. अयं यवः अग्निवर्धकः, मेधावर्धकः, बलवर्धकः, स्थैर्यवर्धकः च ।
५. यवः नैर्यासगुणयुक्तः ।
६. यवः कफस्य पित्तस्य च दोषं निवारयति ।
७. मधुमेहे, कासे, अस्तमायां, पीनसे, चर्मरोगे, कुष्ठरोगे, कफप्रधाने ज्वरे च उत्तमः पथ्याहारः यवः ।
८. स्थूलकायाः प्रतिदिनं यवं सेवन्ते चेत् मासाभ्यन्तरे ३-४ के.जि. यावत् भारं न्यूनीकर्तुं शक्नुवन्ति ।
९. यवे ६९.३% पिष्टांशः, ११.५% फ्रोटिन्, १.५% खनिजांशः, विटमिन् सि, अयसः अंशाः च सन्ति ।
१०. शरीरे शोथः अस्ति चेत्, मूत्रस्य अवरोधः अस्ति चेत् यवस्य सेवनं वरम् । यवः शोथं निवारयति, मूत्रं निस्सारायति च ।
११. यवस्य रोटिका रुचिकरी, मधुरा, लघु च ।
१२. यवः मलवर्धकः, वीर्यवर्धकः, कफजन्यानां रोगाणां निवारकः च ।
१३. यवः उत्तमः व्रणरोपकः अपि ।
१४. यवस्य अधिकप्रमाणेन सेवनेन वातः वर्धते । ततः शरीरवेदना, अनिद्रा, शिरोवेदना च सञ्जायते ।‎
"https://sa.wikipedia.org/w/index.php?title=यवः&oldid=463732" इत्यस्माद् प्रतिप्राप्तम्