यवाग्रजः

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
गम्यताम् अत्र : पर्यटनम्, अन्वेषणम्
यवानीबीजानि

इयं यवानी अपि भारते वर्धमानः कश्चन धान्यविशेषः । इयं यवानी अपि सस्यजन्यः आहारपदार्थः । इयं यवानी आङ्ग्लभाषायां Ammi majus इति उच्यते । अस्याः सस्यशास्त्रीयं नाम अस्ति Trachyspermum amm इति । एषा तृणकुले Umbellignase कुले अन्तर्भवति । अस्याः यवान्याः दीपकः, दीप्यः, यवसाह्वः, यवाग्रजः, यवानिकः, उग्रगन्धा, दीपनीया, दीपनी इत्यादीनि अन्यानि अपि नामानि सन्ति । एषा यवानी यथा आहारत्वेन उपयुज्यते तथैव औषधत्वेन अपि उपयुज्यते ।

आयुर्वेदस्य अनुसारम् अस्याः यवान्याः स्वभावः [सम्पादयतु]

यवानीपुष्पम्

इयं यवानी कटुः, तिक्ता, उष्णा च । यवान्याः बीजानि लघ्वाकारकाणि, कृष्णवर्णीयानि च ।

“यवानी कटुतिक्तोष्णा वातश्लेष्मद्विजामयान् ।
हन्ति गुल्मोदकं शूलं दीपयत्याशु चालनम् ॥“ (धन्वन्तरिकोषः)
यवानीसस्यम्
१. यवानी इयम् उदरस्य सम्बद्धान् रोगान् निवारयति ।
२. इयं यवानी अग्निदीपिका । तन्नाम आहारपचनस्य शक्तिम् अनुक्षणं वर्धयति ।
३. यवानी आर्शस्-रोगेषु उत्तमम् औषधम् । वमनं निवारयति अपि ।
४. यवानी कफं वातं च शमयति ।
५. यवानी तीक्ष्णा, मुखे रुचिम् उत्पादयति च ।
६. यवानी प्लीहरोगे अपि उपयुज्यते ।
७. यवानी कीटबाधां निवारयति, हृदयस्य हितकरी च ।
८. यवानी पित्तं वर्धयति । अतः पित्तजन्यैः रोगैः पीड्यमानां अधिकतया उपयोगं न कुर्युः ।
९. यवान्याः विषये राजवल्लभकोषे, राजकोषे च उल्लेखः कृतः अस्ति ।
१०. यवान्यां सर्षपस्य तीक्ष्णता, चिरायतस्य तिक्तता, हिङ्गुनः उदीपता इति त्रयः अपि गुणाः सम्मिलिताः सन्ति ।
११. यवानी औषधानां दुर्गन्धस्य निवारणार्थम् उपयुज्यते । विशेषतया एरण्डतैलस्य गन्धनिवारणार्थम् उपयुज्यते ।
१२. यवान्या तैलस्य निर्माणम् अपि कर्तुं शक्यते । तत् तैलं शीतलीकुर्मः चेत् “थैमोल्” सङ्गृहीतं भवति।
१३. वृश्चिकदंशने यवान्याः पेषणं कृत्वा लेप्यते । उदरबाधायाम् अपि उदरस्य उपरि पेषणं कृत्वा लेप्यते ।
१४. बहुकालतः पीड्यमाने कासे, कफः न बहिः आयाति चेत्, कफः दुर्गन्धयुक्तः चेत्, अस्तमारोगे च यवानी उपयुज्यते ।
१५. अजीर्णं जातं चेत् यवानीं सैन्धवलवणेन सह योजयित्वा खादन्ति ।
१६. यवानी स्तन्यं क्षीरं न्यूनीकरोति । अतः प्रसवस्य अनन्तरं न दातव्यम् ।
१७. यवानी उत्तेजिका अस्ति । तस्मात् कारणात् रजस्रावावसरे जायमानायां वेदनायाम् उपयोक्तुं श्क्यते ।
१८. यवान्याः चूर्णं १-३ ग्रां यावत् दातुं शक्यते ।
"http://sa.wikipedia.org/w/index.php?title=यवाग्रजः&oldid=238493" इत्यस्माद् उद्धृतम्