यवाग्रजः

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
अत्र गम्यताम् : सञ्चरणं, अन्वेषणम्
यवाग्रजः/Ammi majus
Ammi majus
Ammi majus
जैविकवर्गीकरणम्
जगत् (जीवविज्ञानम्) Plantae
(अश्रेणिकृतः) Angiosperms
(अश्रेणिकृतः) Eudicots
(अश्रेणिकृतः) Asterids
गणः Apiales
कुलम् Apiaceae
वंशः Ammi
जातिः A. majus
द्विपदनाम
Ammi majus
Carl Linnaeus
यवानीबीजानि

इयं यवानी अपि भारते वर्धमानः कश्चन धान्यविशेषः । इयं यवानी अपि सस्यजन्यः आहारपदार्थः । इयं यवानी आङ्ग्लभाषायां Ammi majus इति उच्यते । अस्याः सस्यशास्त्रीयं नाम अस्ति Trachyspermum amm इति । एषा तृणकुले Umbellignase कुले अन्तर्भवति । अस्याः यवान्याः दीपकः, दीप्यः, यवसाह्वः, यवाग्रजः, यवानिकः, उग्रगन्धा, दीपनीया, दीपनी इत्यादीनि अन्यानि अपि नामानि सन्ति । एषा यवानी यथा आहारत्वेन उपयुज्यते तथैव औषधत्वेन अपि उपयुज्यते ।

आयुर्वेदस्य अनुसारम् अस्याः यवान्याः स्वभावः[सम्पादयतु]

यवानीपुष्पम्

इयं यवानी कटुः, तिक्ता, उष्णा च । यवान्याः बीजानि लघ्वाकारकाणि, कृष्णवर्णीयानि च ।

“यवानी कटुतिक्तोष्णा वातश्लेष्मद्विजामयान् ।
हन्ति गुल्मोदकं शूलं दीपयत्याशु चालनम् ॥“ (धन्वन्तरिकोषः)
१. यवानी इयम् उदरस्य सम्बद्धान् रोगान् निवारयति ।
२. इयं यवानी अग्निदीपिका । तन्नाम आहारपचनस्य शक्तिम् अनुक्षणं वर्धयति ।
३. यवानी आर्शस्-रोगेषु उत्तमम् औषधम् । वमनं निवारयति अपि ।
४. यवानी कफं वातं च शमयति ।
५. यवानी तीक्ष्णा, मुखे रुचिम् उत्पादयति च ।
६. यवानी प्लीहरोगे अपि उपयुज्यते ।
७. यवानी कीटबाधां निवारयति, हृदयस्य हितकरी च ।
८. यवानी पित्तं वर्धयति । अतः पित्तजन्यैः रोगैः पीड्यमानां अधिकतया उपयोगं न कुर्युः ।
९. यवान्याः विषये राजवल्लभकोषे, राजकोषे च उल्लेखः कृतः अस्ति ।
१०. यवान्यां सर्षपस्य तीक्ष्णता, चिरायतस्य तिक्तता, हिङ्गुनः उदीपता इति त्रयः अपि गुणाः सम्मिलिताः सन्ति ।
११. यवानी औषधानां दुर्गन्धस्य निवारणार्थम् उपयुज्यते । विशेषतया एरण्डतैलस्य गन्धनिवारणार्थम् उपयुज्यते ।
१२. यवान्या तैलस्य निर्माणम् अपि कर्तुं शक्यते । तत् तैलं शीतलीकुर्मः चेत् “थैमोल्” सङ्गृहीतं भवति।
१३. वृश्चिकदंशने यवान्याः पेषणं कृत्वा लेप्यते । उदरबाधायाम् अपि उदरस्य उपरि पेषणं कृत्वा लेप्यते ।
१४. बहुकालतः पीड्यमाने कासे, कफः न बहिः आयाति चेत्, कफः दुर्गन्धयुक्तः चेत्, अस्तमारोगे च यवानी उपयुज्यते ।
१५. अजीर्णं जातं चेत् यवानीं सैन्धवलवणेन सह योजयित्वा खादन्ति ।
१६. यवानी स्तन्यं क्षीरं न्यूनीकरोति । अतः प्रसवस्य अनन्तरं न दातव्यम् ।
१७. यवानी उत्तेजिका अस्ति । तस्मात् कारणात् रजस्रावावसरे जायमानायां वेदनायाम् उपयोक्तुं श्क्यते ।
१८. यवान्याः चूर्णं १-३ ग्रां यावत् दातुं शक्यते ।
"http://sa.wikipedia.org/w/index.php?title=यवाग्रजः&oldid=254675" इत्यस्माद् पुनः प्राप्तिः