लवङ्गम्

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
गम्यताम् अत्र : पर्यटनम्, अन्वेषणम्
शुष्कलवङ्गम्

एतत् लवङ्गम् अपि भारते वर्धमानः कश्चन उपस्करविशेषः । इदम् अपि सस्यजन्यः आहारपदार्थः । एतत् लवङ्गम् आङ्ग्लभाषायां Clove इति उच्यते । एतत् लवङ्गं भारतस्य सर्वेषु प्रदेशेषु अपि उपयुज्यते । मधुरभक्ष्याणां निर्माणे तेषां भक्ष्याणं सुगन्धवर्धनार्थं बहुधा उपयुज्यते लवङ्गम् । एतत् लवङ्गम् आहारत्वेन यथा उपयुज्यते तथैव औषधत्वेन अपि उपयुज्यते ।

आयुर्वेदस्य अनुसारम् अस्य लवङ्गस्य स्वभावः [सम्पादयतु]

लवङ्गसस्यं, पुष्पं, फलं चापि

एतत् लवङ्गं शीतवीर्ययुक्तम् ।

“लवङ्गकुसुमं हृद्यं शीतलं पित्तनाशनम् ।
चक्षुष्यं विषहृद् वृष्यं माङ्गल्यं मूर्धरोगहृत् ॥“ (धन्वन्तरिकोषे चन्दनादिवर्गः)
१. एतत् लवङ्गं हृदयस्य हितकरम् ।
गन्धद्रव्येषु लवङ्गम्
२. लवङ्गं पित्तं नाशयति, शिरसः सम्बद्धान् रोगान् परिहरति च ।
३. एतत् लवङ्गं नेत्रस्य कान्तिं वर्धयति ।
४. लवङ्गं विषहरं, मङ्गलप्रदं च ।
५. लवङ्गं मुखे संस्थाप्य चर्वणं कुर्वन्तः तस्य रसं पिबन्ति चेत् मुखं स्वच्छं भवति । आहारस्य रुचिः सम्यक् ज्ञातये । मुखम् अपि सुगन्धयुक्तं भवति ।
६. लवङ्गं, तक्कोलं, लामञ्चं, चन्दनं च योजयित्वा यत् चूर्णं निर्मीयते तत् चूर्णं लवङ्गादिचूर्णम् इति उच्यते । तस्य चूर्णस्य सेवनेन कासः, श्वासः (अस्तमा), ज्वरः, राजक्षयरोगादयः अपगच्छन्ति ।
७. लवङ्गं, मरीचं, ’तारेकायि’ इत्याख्यं फलं च योजयित्वा निर्मिता गुलिका “लवङ्गादिवटि” इति उच्यते । तासाम् अष्टानां गुलिकानां सेवनाभ्यन्तरे कासः अपगच्छति ।
८. लवङ्गं जले योजयित्वा सम्यक् क्वथयित्वा गुडं संस्थाप्य यत् निर्मीयते तत् ’लवङ्गनैर्यास्यम्’ इति उच्यते । तत् महिलानां कृते प्रसवानन्तरं दीयते । तस्य सेवनेन अग्निवृद्धिः भवति, वातस्य शमनं भवति, मलं, शरीरं च दृढं भवति ।
९. लवङ्गं, पिप्पली, लोध्रं, मरीचं च योजयित्वा कषायं निर्मीय, तस्य सन्धानं क्रियते यत् तत् “लवङ्गरसः” इति उच्यते । तस्य सेवनेन मूलव्याधिः निवार्यते । तस्य लवङ्गरसस्य सेवनेन अतिसारः, पाण्डुरोगः, कामला, क्रिमिदोषः च परिहृतः भवति ।
१०. लवङ्गस्य तैलं दन्तानां वेदनायाम् उपयुज्यते ।
११. लवङ्गस्य् तैलम् अग्निदीपकं, कफदोषहरं, गर्भावस्थायां जायमानस्य वमनस्य च उत्तमम् औषधम् । गर्भावस्थायां जायमानस्य वमनस्य निमित्तं लवङ्गतैलं १-२ बिन्दुं यावत् जीरिकाकषायेन सह दातव्यम् ।
“देवपुष्पोद्भवं तैलम् अग्निकृद् वातनाशनम् ।
दन्तवेष्टकफार्तिघ्नं गर्भिण्या वमनापहम् ॥“
"http://sa.wikipedia.org/w/index.php?title=लवङ्गम्&oldid=238496" इत्यस्माद् उद्धृतम्