सायणः

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
अत्र गम्यताम् : सञ्चरणं, अन्वेषणम्

संस्कृतवाङ्मये सायणाचार्यस्य नाम प्रसिद्धं वर्तते । एषः वेदभाष्यं लिखितवान् । एतस्य ज्येष्ठाग्रजः विद्यारण्यः इति सुविदमेव । अग्रजस्य नाम्नि पाणिनीय धातुवृत्तेः एकां वृत्तिं स्वयं लिखितवान् । एतदेव माधवीयधातुवृत्तिःइति प्रख्यातः वर्तते । सायणस्य पितुः नाम मायणः इति । मातुः नाम श्रीमती । एतस्य एकः अनुजः आसीत् तस्य नाम भोगनाथः इति ।

वेदभाष्यकारेषु सायणाचार्यस्य स्थानं सर्वोपरि । तत्कृतवेदभाष्याण्येव तस्य कमनीयकीर्त्तिलतायाः आश्रयस्वरुपपादपाः । एतान्येव सायणस्य अलौकिकविद्वतायाः, व्यापकपाण्डित्यस्य , विस्मयनीयाध्यवसायस्य च अभिव्यञ्जकानि । अयं महानुभवः महाराजबुक्करायस्य आज्ञया तथा च स्वभ्रातुः माधवस्याभिप्रेरणया वेदभाष्य रचनायां प्रवृत्तोऽभवत् । तदेवोक्तं तैत्तिरीयसंहितायाः भाष्योपक्रमणिकायां –

तत्कटाक्षेण तद्रूपं दधत् बुक्कमहीपतिः ।
आदिशन्माधवाचार्यं वेदार्थस्य प्रकाशने ॥
स प्राह नृपतिं राजन् ! सायणार्थो ममानुजः ।
सर्वं वेत्त्येष वेदानां व्याख्यातृत्वे नियुज्यताम् ॥
इत्युक्तो माधवार्येण वीरो बुक्कमहीपतिः ।
अन्वशात् सायणाचार्यं वेदार्थस्य प्रकाशने ।
ये पूर्वोत्तरमीमांसे ते व्याख्यायातिसंग्रहात् ।
कृपालुः सायणाचार्यो वेदार्थं वक्तुमुद्यतः॥

सायणचार्येण लिखितानि सुप्रसिद्धवैदिकभाष्याणि यथा –

संहिताभाष्याणि[सम्पादयतु]

तैत्तिरीयसंहिता (कृष्णयजुर्वेदस्य), ऋग्वेदसंहिता, सामवेदसंहिता, काण्वसंहिता (शुक्लयजुर्वेदस्य), अथर्ववेदसंहिता । २. ब्राह्मणारण्यकभाष्याणि –कृष्णयजुर्वेदीयतैत्तिरीयब्राह्मणं, कृष्णयजुर्वेदीय तैत्तिरीयारण्यकं, ऋग्वेदीयैतरेयब्राह्मणं, ऎतरेयारण्यकञ्चेति, सामवेदीय – ताण्ड्यब्राह्मणं, षड्विशब्राह्मणं, सामविदानब्राह्मणं, आर्षेयब्राह्मणं, देवताध्यायब्राह्मणं, उपनिषद् ब्राह्मणं, संहितोपनिषद्ब्राह्मणं वंशब्राह्मणञ्च, अथर्ववेदीयभाष्यम् । सायणाचार्यस्य समयः :- सायणावार्यकृतवेदभाष्याणां बहिरंगान्तरङ्गसाधनैः तस्य समयस्य निर्द्धारणं कर्त्तुं शक्यते । सायणाचार्यः बुक्कमहीपतेः राजसभायामासीत्तथा च तदादेशेनैव सः वेदं लिखितुं प्रयत्नं चकार इति तदीयभाष्यादेव ज्ञायते । यथा ऋग्भाष्यपुष्पिकायां –“ इति श्रीमद्राजाधिराजपरमेश्वर – वैदिकमार्गप्रवर्तक- श्रीवीरबुक्कसाम्राज्यधुरन्धरेण सायणाचार्येण विरचिते माधवीयवेदार्थप्रकाशे ऋक्संहिताभाष्ये प्रथमाष्टके प्रथमोऽध्यायः” । इति । तस्मात् ज्ञायते यत् सायणाचार्यं बुक्कमहाराजस्य (१३६४ ई. तः १३७८ ई. यावत्) समकालिन आसीत् । तथा च सायणाचार्यः हरिहरस्य राजसभायामपि मन्त्रिकार्यं सम्पादितवान् इति ज्ञायते । अतः समग्ररूपेण अस्माभिः वक्तुं शक्यते यत् अस्य समयः त्रयोदशशतक ईशवीयसमय आसीत् ।


सायणः विजयनगरस्य आस्थाने असीत् इति उल्लेखः वर्तते । एतस्य कालांशः क्रिस्तशक १३११-१३८८ ।

External links[सम्पादयतु]

"http://sa.wikipedia.org/w/index.php?title=सायणः&oldid=235110" इत्यस्माद् पुनः प्राप्तिः