हरिद्रा
अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
इयं हरिद्रा अपि भारते वर्धमानः कश्चन सस्यविशेषः । हरिद्रा सस्यजन्यः आहारपदार्थः । इयं हरिद्रा आङ्ग्लभाषायां turmeric इति उच्यते । अस्याः हरिद्रायाः सस्यशास्त्रीयं नाम अस्ति Curcume longa इति । एषा हरिद्रा भारते पाकशालातः स्नानगृहपर्यन्तम् अपि स्थानं प्राप्तवती अस्ति । हरिद्रायाम् अत्यधिकप्रमाणेन रोगनिरोधकशक्तिः अस्ति इति उच्यते । देवस्य पूजार्थम् अपि हरिद्रा आवश्यकी एव । अस्याः हरिद्रायाः पीतिका, पिङ्गा, रजनी, रञ्जनी, निशा, गौरी, वर्णवती, पीता, हरिता, वरवर्णिनी, हलदिका, भद्रलता, वर्णविलासिनी, विषघ्नी, जयन्ती, दीर्घरङ्गा, रङ्गिणी इत्यादीनि अन्यानि अपि नामानि सन्ति । एषा हरिद्रा यथा आहारत्वेन उपयुज्यते तथैव औषधत्वेन अपि उपयुज्यते ।
[सम्पादयतु] आयुर्वेदस्य अनुसारम् अस्याः हरिद्रायाः स्वभावः
इयं हरिद्रा रसे तिक्ता, गुणे रूक्षा, वीर्ये च उष्णा ।
- “हरिद्रा स्वरसे तिक्तारूक्षोष्णा विषकुष्ठनुत् ।
- कण्डूमेनव्रणान् हन्ति देहवर्णविधायिनी ॥
- विशोधिनी क्रिमिहरा पीननारुचिनाशिनी ॥“ (धन्वन्तरिकोषः)
- १. इयं हरिद्रा शरीरं शोधयति, विषबाधां, कुष्ठरोगं च निवारयति ।
- २. हरिद्रा मधुमेहं निवारयति, कण्डूयनं च शमयति ।
- ३. हरिद्रा क्रिमिहरा अपि ।
- ४. हरिद्रा शरीरस्य गौरवर्णं वर्धयति ।
- ५. हरिद्रा मूत्रविकारं शमयति ।
- ६. हरिद्रा त्वक्दोषं, रक्तविकारं, शोथं, पाण्डुरोगं, प्रमेहं च दूरीकरोति ।
- ७. हरिद्रा उत्तमा व्रणहरा अपि ।
- ८. हरिद्रा रक्तस्रावं स्थगयति ।
- ९. हरिद्रां गुडं च क्षीरे योजयित्वा क्वथयित्वा पानेन पीनसः, कासः, कफः, कण्ठवेदना च अपगच्छति ।
- १०. हरिद्राम् अङ्गारस्य उपरि संस्थाप्य धूमसेवनेन अपि पीनसः न्यूनः भवति ।
- ११. हरिद्रां घृतं च योजयित्वा भर्जयित्वा मधुना सह खादनेन कासः अपगच्छति ।
- १२. सर्वरीतीनां प्रमेहे अपि हरिद्राम् आमलकेन सह सेवन्ते चेत् रोगस्य नियन्त्रणं भवति ।
- १३. हरिद्रां गोमूत्रेण सह सेवन्ते चेत् कण्डूयनं, पिटकाः, शीतपित्तं च अपगच्छति ।
- १४. कर्णस्रावसमये अपि हरिद्रा उपयुज्यते ।
- १५. भूतोन्मादे अपि हरिद्रा उपयुज्यते ।
- १६. अरुचिं, कामलां, निबन्धं, जलोदररोगं, क्रिमिबाधां च हरिद्रा निवारयति ।
- १७. हरिद्रायाः तैलेन मुखपाकः करणीयः इति योगरत्नाकरे उक्तम् अस्ति ।
- १८. कफजन्यायाः पिपासायाः निमित्तं हरिद्रा हितकरी इति वाग्भटः उक्तवान् अस्ति ।
- १९. अस्रावस्य पैल्-रोगे हरिद्रां ’कळ्ळी’ (किञ्चित् कण्टकसहितं सस्यम्) क्षीरेण सह लेपनीया इति चरकः उक्तवान् अस्ति ।
- २०. हरिद्रायाः उल्लेखः भावप्रकाशे अपि कृतः अस्ति ।
- २१. कामलारोगे हरिद्रादि घृतस्य उपयोगम् उक्तवान् अस्ति चरकः ।
- २२. श्वासकासे अपि हरिद्रादि वर्तेः उपयोगम् उक्तवान् अस्ति चरकः ।