मलयाळं विकिपीडिया

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

स्वतन्त्रसद्यस्क विज्ञानकोश्स्य विकिपीडियायाः मलयाळभाषाविभागः भवति मलयाळविकिपीडिया । ज्ञानसम्पादनम्, ज्ञानभाजनम्, ज्ञानस्वतन्त्रीकरणमित्यादिभिः लक्ष्यैः सुगुणविज्ञानकोशनिर्माणं कामयमानः परस्परमाद्रियन्तः विज्ञानपिपासवः सद्यस्कसमूहः मलयाळविकिपीडियायाः अस्याः पृष्ठभूमौ कार्यं कुर्वन्तः सन्ति।

चरित्रम्

मलयाळविकिपीडियायाः प्रादुर्भावः

२००२ डिसम्बर् २१ दिनाङ्के तत्कालीन अमेरिकन् विश्वविद्यालये शोधच्छात्रः तिरुवनन्तपुरं वास्तव्यः श्री एम् पि विनोदेन मलयाळविकिपीडियायाः प्रस्तुत यु आर् एल् http://ml.wikipedia.org/ इति परिवर्त्य तत्प्रचारार्थं च प्रयत्नमकुर्वन् । परं तत् पूर्वमेव परीक्षणरूपेण मलयाळविकिपीडिया आसीत् इति दृश्यते । किन्तु स्वीय डोमैन् तथा विकीसमूहश्च मलयाळस्य नासीत् । २००२ डिसम्बर् २१ तारिकायां दृश्यमाने अस्मिन् जालविलासे मलयाळविकिपीडिया प्रारब्धा । तस्मात् औद्योगिक मलयाळ विकिपीडीया २००२ डिसम्बर् २१ तारिकायामारब्धा इति वक्तुं शक्यते । तद्दिने श्री विनोदेन लिखितं मलयाळ अक्षरमाला इति लेखनं मलयाळविकिपीडियायां ऐदम्प्रथमं विज्ञानसम्बद्धं लेखनं भवति । http://ml.wikipedia.org/ इति सङ्केतपरिवर्तनानन्तरं वर्षद्वयं यावत् मलयाळविकिपीडियामिमां सजीवां कर्तुं श्री विनोदः प्रयत्नमकुर्वन् । बहुकालं यावत् ते एकदायित्वेनैव प्रवर्तितवन्तः । विविधेषु मलयाळसद्यस्क विभागेषु तथा चर्चावेदिषु च स्पष्टमलयाळ पठन,लेखन साहाय्यमन्विष्य तेषां बह्व्यः लेखाः दरीदृश्यन्ते । मलयाळविज्ञानकोशस्यास्य प्रारम्भकाले विद्यामानाः सदस्याः सर्वे अपि वैदेशिकाः मलयाळिनः आसन् ।

मलयाळं युनिकोड् तथा विकिपीडिया

प्रारम्भदशायां मलयाळसदृशभाषायाः सङ्कणकयन्त्रे लेखितुं पठितुं च उपयुक्तानां लिपीनां व्यवस्था नासीत् । तस्मात् एता्सु भाषासु लिखितान् लेखान् पठितुं तत्तत् लेखकैः उपयुक्तानां वर्णलेखानां सङ्कणकयन्त्राणां च उपयोगः कर्तव्यः आसीत् । युनिकोड् इति सङ्कणकलिपिव्यवस्थायाः आगमनेन सङ्कणकयन्त्रे मलयाळलेखनं पठनं च सुकरमभवत् । अस्याः लिपिव्यवस्थायाः सार्वत्रिकोपयोगेन मलयाळविकिपीडिया सजीवा जाता ।

परिवृद्धौ मन्दता

एतादृशीं बृहतीं पद्धतीं अल्पीयानां सदस्यानां साहाय्येन अग्रेनयनमसाद्ध्यमासीत् । अतः प्रारम्भदशा मन्दतया आसीत् । २००२ प्रारब्धायमस्यां विकिपीडियायां २००६ पर्यन्तं न कापि पुरोगतिः जाता । २००४ मध्यकाले मलयाळं युनिोकोड् साहाय्येन तथैव इतर टङ्कणसामग्रीनां साहाय्येन केचन विकिपीडियायां लेखनमारब्धवन्तः । प्रारम्भकाले इतर विकिपीडिया सदृशं अस्यामपि विकिपीडियायां लखुलेखाः एव अधिकतया आसीत् । सम्भूय शतमपि नासीत् । २००४ डिसम्बर् मासे शतसङ्ख्या लेखनानि मलयाळविकिपीडियायां सृजानि । २००५ मध्यकाले नूतनानां सदस्यानां आगमनेन मुखपुटनिर्माणं, लेखनानां विषयानुसारेण क्रमीकरणं च प्रारबब्धम् । २००५ सप्टम्बर् मासे प्रथमप्रचालकः नियुक्तः । तदानीमारभ्य साङ्केतिककार्येषु मलयाळं विकिपीडिया स्वयम्पर्याप्तता सम्पादिता ।

विकासः

मलयाळटङ्कण ज्ञानिनः नासन् इत्यतः विकिपीडियायाः अस्याः विकासः ह्रासोन्मुखः आसीत् । युनिकोड् इत्यस्य उपयोगेन २००६ तः केरळे तथा विदेशेषु च विद्यमानाः केरळीयाः आहिकजाले टङ्कणस्य अभ्यासेन मलयाळ विकिपीडियां प्रति सश्रद्धानः सञ्जाताः। एवं सजीवप्रवर्तकानां साहाय्येन मलयाळ विकिपीडियायां विद्यमानानां लेखनानां सङ्ख्यायाम्, इतिवृत्ते च प्रगतिः सञ्जाता । अत्र लेखसङ्ख्या २००६ अप्रिल् १० दिनाङ्के ५००, सप्टम्बर् मासे १०००, नवम्बर् मासे १५००, २००७ जनवरि १५ दिनाङ्के २०००, जूण् ३० तमे दिनाङ्के ३००० इति च वर्धितम् ।

दिव्यादानानि

२००७ डिसम्बर् मासस्य १२ तमे दिनाङ्के मलयाळ विकिपीडियायां लेखनानां संख्या ५,००० जाता।

२००८ एप्रिल् मासस्य ९ तमे दिनाङ्के लेखनानां संख्या ६,००० जाता।

२००८ जूलै मासस्य १९ तमे दिनाङ्के लेखनानां संख्या ७,००० जाता।

२००८ जूलै मासस्य १९ तमे दिनाङ्के मलयाळ विकिपीडियायाः मुख्य पुटं नवीकृतम्।

२००९ फेब्रवरि मासस्य २४ तमे दिनाङ्के संख्या ९,००० जाता।

२००९ जूण् मासस्य १ दिनाङ्के लेखनानां संख्या १०,००० जाता।

२००९ सेप्तम्पर् मासस्य २७ तमे दिनाङ्के लेखनानां संख्या ११,००० जाता।

२०१० फेब्रवरि मासस्य १९ तमे दिनाङ्के लेखनानां संख्या १२,०००जाता।

२०१० जूण् मासस्य २५ तमे दिनाङ्के लेखनानां संख्या १४,००० जाता।

२०१० सेप्तम्बर् मासस्य ६ तमे दिनाङ्के लेखनानां संख्या १४,००० जाता।

२०१० नवम्बर् मासस्य १० तमे दिनाङ्के लेखनानां संख्या १५,००० जाता।

२०१० डिसम्बर् मासस्य २१ तमे दिनाङ्के मलयाळविकिपीडियायाः अष्टम जन्मदिवसे १६,००० अधिकाः लेखाः प्राप्ता।

२०११ मार्च मासस्य १० तमे दिनाङ्के लेखनानां संख्या १७,००० जाता।

२०११ मेय् मासस्य २२ तमे दिनाङ्के लेखनानां संख्या १८,००० जाता।

२०११ सेप्तम्बर् मासस्य ५ मे दिनाङ्गे लेखनानां संख्या २०,००० जाता।

२०१२ जूलै मासस्य २२ तमे गिनाङ्के लेखनानां संख्या २५,००० जाता।

२०१२ जूलै मासस्य २६ तमे दिनाङ्के मलयाळं विकिपीडियायां समीकरणप्रक्रियायाः संख्या पञ्चदश लक्षाधिकाः जाता।

२०१२ सेप्तम्बर् मासस्य प्रथमे दिनाङ्के मलयाळं विकिपीडियायां लेखनानां संख्या २६,००० जाता।

२०१२ सेप्तम्बर् मासस्य २५ तमे दिनाङ्के मलयाळं विकिपीडियायां अङ्गत्वं स्वीकृत उपयोक्तृणां संख्या ४०,००० अधिकः जाता।

२०१२ नवम्बर् मासस्य ६ मे दिनाङ्के मलयाळं विकिपीडियायां विद्यमान लेखनानां समीकरणप्रक्रियायाः संख्या षोडश लक्षाधिकाः जाता।

२०१२ नवम्बर् मासस्य १२ तमे दिनाङ्के मलयाळं विकिपीडियायां लेखनानां संख्या २७,००० जाता।

२०१२ डिसम्बर् मासस्य २१ तमे दिनाङ्के मलयाळं विकिपीडियायां दशमवार्षिकोऽपि कृतं वर्तते।

२०१३ जनवरि मासस्य ४ दिनाङ्के मलयाळं विकिपीडियायां लेखनानां संख्या २८,००० जाता।

२०१३ जनवरि मासस्य २३ तमे मलयाळं विकिपीडियायां लेखनानां संख्या २९,००० जाता।

२०१३ एप्रिल् मासस्य ४ दिनाङ्के मलयाळं विकिपीडियायां विद्यमान लेखनानां समीकरणप्रक्रियायाः संख्या अष्टादश लक्षाधिकाः जाता।

२०१३ एप्रिल् मासस्य ९ मे दिनाङ्के मलयाळं विकिपीडियायां लेखनानां संख्या ३०,००० जाता।

२०१३ आगस्त् मासस्य १६ तमे दिनाङ्के विकिपीडियायां विद्यमान लेखनानां संख्या ३२,००० जाता।

२०१४ जूलै मासे मलयाळं विकिपीडियायां विद्यमान लेखनानां संख्या ३६,००० जाता।

२०१५ फेब्रवरि मासे मलयाळं विकिपीडियायां विद्यमान लेखनानां संख्या ३८,००० जाता।

२०१५ मेय् मासस्य २६ तमे दिनमाङ्के मलयाळं विकिपीडियायां विद्यमान लेखनानां संख्या ३९,००० जाता।

२०१५ मेय् मासस्य ३० तमे दिनाङ्के मलयाळं विकिपीडियायां अङ्गत्वं स्वीकृत उपयोक्तृणां संख्या ७०,००० अधिको जाता।

२०१५ आगस्त् मासस्य ६ मे दिनाङ्के सर्वेषु भाषासु विद्यमान विकिपीडियायांम् अवश्यमपेक्षितानि १,००० लेखनानि मलयाळं विकिपीडियायां प्रारब्धम्।

२०१५ सेप्तम्बर् मासस्य ६ मे दिनाङ्के मलयाळं विकिपीडियायां विद्यमान लेखनानां संख्या ४०,००० जाता।

अधुना मलयाळं विकिपीडियायां ५५ .५७५ लेखनानि सन्ति।

मलयाळ भाषा लेखनार्थम् उपायः

मलयाळं विकिपीडियायाः प्रारम्भे "वरमोष़ि"(വരമൊഴി) इति संविधि द्वारा सङ्कणलेखनप्रक्रियां मलयाळ विकिपीडिया प्रवर्त्तकाः मलयाळ भाषा टङ्कणं कर्तुं व्यापकत्वेन उपयुक्तवन्तः। मलयाळाक्षराणां लिपेः परिज्ञानेन तदेव कुञ्चिकासंयोगेन उपयुज्यमान अन्ये उपाधयः अपि उपयोक्तुं शक्यते एति आगतम्। एवं गवेषकयोः मध्ये साक्षात् मलयाळं सुलभतया टङ्कणं कर्तुं कीमान् इति संविधि आरम्भः जातः।

सामान्यतया सर्वे "मोष़ि" इति व्यवस्थामुपयुज्य एव मलयाळं टङ्कणं कुर्वन्ति। लिख्यमान मलयाळपदानां समानतया विद्यमान आङ्गल अक्षराणि प्रयुज्य प्रकारनियमनः क्रियते। पद्धतीरियं शास्त्रीयरीत्या लिपेः परिवर्तनमिति कथ्यते। लिपेः परिवर्तनार्थं विविधाः प्रकाराः वर्तन्ते। तत्र प्रसिद्धं वर्तते मोष़ि इति व्यवस्था। १९९८ आरभ्य प्रचुरप्रचारो विद्यमानेषु लिपिषु मङ्गळीष् कुञ्चिकासंयोगः एव मलयाळ टङ्कणार्थं मलयाळिनः उपयुक्तवन्तः। अन्यतरा एका लिप्यन्तरीकरण रीतिः भवति स्वनलेखा इति।

बाह्य उपकरणानाम् असह्हायत्वेन विकिपीडियायां मलयाळं टङ्कणं कर्तुं इन्बिल्ट टूळ् मलयाळ विकिपीडियायां योजितवन्तः। एतत्द्वारा लिपिपरिवर्तनप्रक्रियायां, अभिलिखित प्रक्रियायां च मलयाळं टङ्कणं कर्तुं शक्यते।

मलयाळ विकिपीडियायां विद्यमान लेखनानां स्वभावः

विकिपीडियायाः एकं लेखनस्यापि याथार्तिक रचयिता नास्ति। एकस्य लेखनस्य पृष्ठभूमौ बहूनां योगदानं भवति। बहूनां परिवेषणेन परिमार्जनेन च लेखानां गुणवत्ता संवर्द्धते इति अस्याः विकिपीडियायाः स्वभावः भवति। उदाहरणार्थम् एकस्य वाक्यस्य पुनः पुनः पठनेन केचन जनाः तस्य विषयविशदांशाः योजयन्ति। एका पङ्क्ति लेखने अन्ये उपयुक्तारः अन्ये विषयाः संयोज्य लेखनं बृहत् रूपेण क्रियते।

एवमेव बहूनां परिश्रमफलेन मलयाळ विकिपीडिया मध्ये इदानीं बहूनि लेखनानि दरीदृश्यन्ते। प्रतिमासे ३०० नूतनानि लेखनानि योजयन्ति। कानिचन लेखनानि सचित्रयुक्तानि च भवन्ति।

मलयाळं विकिपीडियालेखे जीवचरित्रानि यथा (इ.एम्. एस् , ए.के आन्डणि , वि.एस् . अचुदानन्दः , इत्यादीनां दृश्यन्ते) चरित्रसम्बन्ध लेखनानि च दृश्यन्ते। भूमिशास्त्रसम्बन्धानि च लेखनानि भवन्ति। एवं च इस्लां, हिन्दु, क्रिस्त्यन् इत्यादि मतविचाराः अपि दृश्यन्ते। पुनः अवयवाः, मृगाः, जीवशास्त्र सम्बन्ध विषयाः, चाक्लेट् इत्यादि भोजन विषयाः, चलचित्र सम्भन्ध विषयाः, क्रीडासम्बन्ध विषयाः, कला वम्बन्ध विषयाः इत्यादि विविधाः विषयाः दरीदृश्यन्ते अत्र।

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=मलयाळं_विकिपीडिया&oldid=474778" इत्यस्माद् प्रतिप्राप्तम्