श्री कृष्णदेवरायविश्वविद्यालयः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

श्री कृष्णदेवरायविश्वविद्यालयः[सम्पादयतु]

श्री कृष्णदेवरायविश्वविद्यालयःभारते आन्ध्रप्रदेशे अनन्तपुरजनपदेविद्यमानःएकः सार्वजनीनविश्वविद्यालयः। अयं विश्वविद्यालयः 1981.जूलै.25 तमे वर्षे प्रारब्धः। कलापोषकसेय शिक्षासंरक्षकस्य षोडशशताब्दीयविजयनदराधीशस्य श्रीकृष्णदेवरायनाम्ना स्थापितः।

इतिहासः[सम्पादयतु]

1958 तमे वर्षे स्थापितस्य श्रा वेङ्कटेश्वर विश्वविद्यालयस्य स्नातकोत्तर केन्द्रतः उद्भूतःअयं विश्विद्यालयः1976 तमे वर्षे स्वायत्तप्रतिठामवाप । अस्य विश्वविद्यालयस्य प्रथम कुलपतिःश्री एम्. एबेल् मबोदयः1981तः1897 पर्यन्तं आसीत्। 1987 तमे वर्शे विश्वविद्यालयानुदान आयोगद्वारा प्राप्त आर्थिकसहायेन 1.2 कोटिरूप्यकाणां मूलधनव्ययेन श्री कृष्णदेवरायप्रबनसंस्था आरब्धा। एक-केन्द्रक आवासीयसंस्थारूपेण आरब्धःअयं विश्वविद्यालयः1988 तमे वर्षे पूरणतया अलुबन्धविश्वविद्यालयः सञ्जातः।श्री कृष्णदेवरायविश्वविद्यालयस्य परिधौ विद्यमानं कर्णूल् नगरस्थं स्नातकोत्तरकेन्द्रम् 1993 तमे वर्षे श्री कृष्णदेवरायविश्वविद्यालयस्य परिधौ समानीतम्। 2006 तमे वर्षे श्री कृष्णदेवरायविश्वविद्यालये स्वीयवित्तेन अभयान्त्रिक-प्राविधिक महाविद्यालयः आरब्धः।

परिसरः[सम्पादयतु]

अयं विश्वविद्यालयःग्रामीणवातावरणे 500 विश्वविद्यालयेस्मिन् विज्ञानोपकरणकेन्द्रं, संङ्गणककेन्द्रम्, आरोग्यकेन्द्रम्,व्यायामशाला, मुक्ताकाशक्रीडाङ्गणम्, एकं सभाङ्गणम्, विद्याविभाग, प्रयोगशाला, छात्रावासः, कर्मचारिवर्गगृहाणि च सन्ति।

शैक्षिककार्यक्रमाः[सम्पादयतु]

अस्यविश्वविद्यालयस्य ग्रन्थालये 13,600 प्राचीनग्रनथाःसन्ति। अनिसूचितजातिःजनजातिवर्गाणां कृते एकः पुस्तककोशः (INFLIBUET) विश्वविद्यालयीयग्रन्थालयसम्बद्धतन्त्रांशोSपि (soul) उपलभ्यते।

सम्बद्धाः लेखाः[सम्पादयतु]