हम्मीरमर्दनम्
हम्मीरमर्दनम् | |
---|---|
श्रेणी:पुस्तकानि यस्य मुखपृष्ठं नास्ति | |
लेखकः | जयसिंहसूरिः (जैनाचार्यः) |
देशः | भारतम् |
भाषा | संस्कृतम् |
प्रकारः | रङ्गमञ्चीयाभिनवशैली |
हम्मीरमदमर्दनं नाम पञ्चाङ्कं नाटकं वीररसप्रधानमस्ति । एतत्तु जयसिंहसूरेः भरुकच्छस्थ-मुनिसुव्रत-मन्दिराचार्यस्य वीरसूरिशिष्यस्य कृतिः रचनाकालश्चास्य १२३० ख्रीष्टाब्दमभितोऽनुमीयते, यदा धवलपुरे राजा वीरधवलो मन्त्रिभ्यां वस्तुपालेन तेजःपालेन च ससहायो गुर्जरानपालयत्। एकदा तेजःपालो मुनिसुव्रतमन्दिरं गतः । तत्र प्रभूतं च धनमदात् । तेन तुष्टो जयसिंहसूरिः प्रशस्तिपरं नाटकमिदमरचयत् । वत्सराज-नाटक-षट्कस्य स्थान-स्थाने गुप्तचराणां राजपुरुषाणां कापालिकानां च यानि चरितानि दिङ्मानं निर्दिष्टानि, तान्येवामुष्मिन्नाटके प्रत्यक्षदृष्टानीवालिखितानि । अत्र सामाजिकाः राजनीतिकाश्च घटनाः साक्षात्कृता इव भासन्ते । इतिवृत्तं चापि सर्वथैतिहासिकमेवेति दृष्ट्यापि हम्मीरमदमर्दनस्य महिमा सविशेषं राजते।
कथावस्तु
[सम्पादयतु]धवलपुराधीशो वीरधवलो मन्त्रिणा तेजःपालेन मन्त्रयन् विततं शत्रुजातं प्रति शङ्काभीत इव दृश्यते । तथा हि गुर्जरदेशमण्डलेश्वरेण संग्रामसिंहेन लाटाधिपेनोद्योतितो देवगिरिनृपालः सिंहणः आक्रमणाय कृतोद्यमोऽस्ति । अपरतोऽश्वसेनां महतीं पुरस्कृत्य तुरुष्काः अपि आक्रमणकामा लक्ष्यन्ते । अन्यतश्च मालवानामधिपतिराक्रमिष्यन् प्रायादिति । तावदेव प्रविश्य तेजःपालाग्रजः प्रधानामात्यो निवेदयति - तेजःपालतनयेन लावण्यसिंहेन नियुक्ताश्चराः परराष्ट्रेषु भ्रमन्तो राज्ञां गतिं जालयन्त्रिता विदधतस्तान् विद्रावयन्ति । कथं नाम हम्मीरो मर्दनीय इति ते विचारयन्ति स्म ।
हम्मीरस्य चमूं मरूणामुपरि मण्डलयन्तीं स्वसेनया परिभाव्य वस्तुपालो मरुदेशस्य नरपतीनां मनःसु प्रत्याशामाशङ्कां च जनयित्वा तान् स्वपक्षे विधाय वीरधवलस्य नेतृत्वेन सोमसिंहोदयसिंहधारावर्षान् संगमय्य चतुरोऽमून् सन्धीकरोति स्म । ततश्च सौराष्ट्रो भीमसिंहो महीतटस्य विक्रमादित्यो लाटानां च सहजपालो यदृच्छया राजानं वीरधवलने सह मिलन्ति । अन्ये च राजानः संधीभूताः कूटकौशलेन निपुणको नाम चरः सिंहणदेवस्य स्कन्धावारं प्राविशत् । तस्यानुजः सुवेगो देवपालस्य मालवभूपस्याश्वपालो भूत्वा तुरङ्गोत्तमं ततश्चोरयित्वा सिंहणस्य सेनापतये संग्रामसिंहायोपानयत् । इत्थं प्रवञ्चिते संग्रामसिहे निपुणकः सिंहणाय हम्मीरं प्रति प्रयास्यन्तं वीरधवलं संसूच्य तमाक्रान्तुं प्रोत्साहयति स्म। हम्मीरं योधयित्वा होनबलमेव धवलकं प्रयातुमर्हति भवान्, तावत् ताप्तीवनान्ते कृतसैन्यसन्निवेशस्तिष्ठतु। यतो मालवान् गुर्जरांश्च यातुं राजमार्गौ मिलत इति । यावत् सिंहणस्तत्र यथोक्तं गतस्तावदेव तापसवेषस्य सुवेगस्य जटाजूटात् कुटपत्रं लब्धवान् । पत्रस्य तात्पर्येण तु देवपालो मालवाधिपः संग्रामसिंहायाश्वप्रकाण्डमुपहृत्य प्रार्थयामास यद् गुर्जरान् प्रति कृताक्रमणं सिंहणमवसरमुपलभ्योत्सादयतु। अनुसन्धानेन सिंहणोऽवागच्छद् देवपालनामाङ्कमश्वं संग्रामसिंहेनोपयुज्यमानम् । एवमुपजापे सफलतां गते निपुणकः संग्रामसिहं ततः पलायितुं परामृशद् येनासौ स्कम्भादित्यमभि प्रतस्थे।
अथ स्वभुजवीर्यगवितो मेरुवाटपतिर्जयतलो हम्मीरं क्रियमाणाक्रमणमपि बुद्ध्वा वीरधवलेन सन्धिं नैवास्थापयत् । अकाण्ड एवाक्रान्तः सोऽपासरत् । हम्मीरस्य चमूर्मेरुवाटं सर्वथोत्सादयामास।
तदानीं कमलको नाम धवलकस्य चारो मिथ्या प्रवादं ख्यापयामास यत् वीरधवलकः सैन्यैरायातः । अनेन विधिना हम्मीर-सेनां प्रभंशयांचकार तं देशं चारक्षत् । धवलकः कण्टकं हम्मीरं तुदन्तं निष्कासयितुमचिन्तयत् । "अहमेव निराशीकरोमि रिपुनृपति-गूढचर-चक्रवालम्" इति।
तत एव तेजःपालो बगदादराज (खलीप) प्रति चरं शीघ्रकं नाम खर्परखाननाम्नो भारतीयशासकस्य दूतं कृत्वा व्यसर्जयत् । ततोऽसौ मीलच्छीकारं निगडयन्त्रितं कर्तुमादेशं खलीपस्य व्याजेन दर्शयित्वा खर्परखानं मीलच्छीकारायाकोपयत्, मीलच्छीकारस्य पुत्रं प्रवञ्च्य खर्पराक्रमणं सन्दिश्य स्वयं तद्दूतत्वमधिगम्य मीलच्छीकारं युद्धस्य वार्तां श्रावयामास । अत्रान्तरे कुवलयको नाम चारो हम्मीरपक्षपातिनो गुर्जरमण्डलेश्वरानुपजाप्य वीरधवलस्य पक्षे पातयित्वा महासंघनिवृत्तौ प्रायस्यत्, सफलश्च बभूव । खर्पर-प्रयाणमात्रेण मीलच्छोकारस्य सैनिकाः हतोत्साहाः अभवन् । खर्पराक्रमणात्पूर्वमेव कृताक्रमणो वीरधवलो मीलच्छीकारं प्रध्वंसयति स्म इत्येवं हम्मीरस्य सपरिकरस्य मदं हृत्वा वीरधवलो यशसा धवलयति स्म भुवम्।
समीक्षा
[सम्पादयतु]हम्मीरमदमर्दनं नाम नाटकं वस्तुनो विशाखदत्तस्य मुद्राराक्षसेन समानमेव । अत्रापि कूटनीतिप्रवञ्चनाप्रपञ्चस्य तथैव विनियोगो दृश्यतेतराम् । ऐतिहासिकानि विविधानि वृत्तानि संगुम्फन् कविनतरां यशो भजते । तुरुष्कैः कृतो नरसंहारो नापरां प्रतिमां बाङ्गलादेशं विहाय क्वचिदपि वहेत् ।
यथा -
ततो मलिन-जन-हस्त-मरणेन न भवति गतिरिति चिन्तयित्वा गलनिगडितरुदद्वालानि कूपेषु पतितानि कान्यपि मिथुनानि । ::::::न खलु प्रेक्षिष्ये मार्यमाणस्य निजजनस्य दुःखमिति केऽपि कण्ठ-संस्थापित-रज्जुग्रहाः कृतक्रन्देषु कुटुम्बेषु मरणं प्राप्ताः.......'' इत्यादि ।
त्रस्तेषु तेषु सुभटेषु विभौ च भग्ने
मग्नासु कीर्तिषु निरीक्ष्य जनं भयार्तम्।
यो मित्र-बान्धव-वधूजन-वारितोऽपि
वल्गत्यरीन् प्रति रसेन स एव वीरः।।[१]
सम्बद्धाः लेखाः
[सम्पादयतु]उद्धरणानि
[सम्पादयतु]- ↑ ३.१५