यूक्लिड्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

यूक्लिड् अलेक्सान्ड्रिया महोदयस्य संक्शिप्त नाम यूक्लिड् इति। अयं ग्रीक् देशस्य गनितञः। रेखागनितसय पिता इति सर्वदा उल्लेखितः जनैः। राञः टोलेमि शासनकाले अयं अलेक्सान्ड्रिया मध्ये अतीव क्रियाशीलः आसीत् । तस्य एलिमेण्ट्स् नामक ग्रन्थ​: गनितेतिहासे महान् प्रभावयुतोऽस्ति। अस्य ग्रन्थस्य प्रकटणादारभ्य विंशति: शतमानपर्यन्तं गणितपाठ्यक्रमे प्रमुखपाठ्यपुस्तकरूपेण स्वीकृत:। यूक्लिड् महोदय: त्रिभुजविभागं वृत्ताकार रेखगणित तथा संख्याशास्त्रं उद्दिश्य पुस्तकानि अरचयत्। यूक्लिड् इति अस्य महोदयस्य नाम आङ्ग्लभाषाया:अनुवाद:। वस्तुत: इदं नाम ग्रीक् भाषायां 'प्रसिद्ध:, वैभवोपेत' इति मन्यते।

यूक्लिड् अलेक्सान्ड्रिया
Artgate Fondazione Cariplo - Cifrondi Antonio, Euclide
जन्म क्रिस्तपूर्व ३२५
टयर्
मृत्युः २७० बी सी
अलेक्सान्ड्रिया
देशीयता ग्रीक्
कृते प्रसिद्धः Data, Divisions of figures, Catoptrics, Phaenomena, Optics
Notable work एलिमेन्ट्स्

जीवनम्[सम्पादयतु]

अस्य महोदयस्य देश-कालादि विषये अत्यन्तम् अल्प संबन्धादि विषया: उपलभ्यन्ते मूलरूपेण। प्राय: अयं क्रिस्तपूर्व ३२५ तमे शतमाने अभवत् इति ऊहा अस्ति। अस्य जनन-मरण-देश-कालादि विषया: इदम् इत्थम् इति वक्तुं न शक्यते। किन्तु अस्य समकालिकै: उल्लेख: क्रियते। विस्त्रुत रूपेण अस्य चरितम् अरब् देशस्थै: लिख्यते यत् अयं "टयर्" इति नामके स्थाने अजायत इति। इदं जीवनचरितं प्राय: ऊहात्मक: इति परिगणितोऽस्ति। २७० क्रिस्तपूर्व शतमाने प्राय: अलेक्सान्ड्रिया देशे अयम् अस्तङ्गत।

एलिमेन्ट्स्(Elements)[सम्पादयतु]

प्रोक्लस् अभिप्राये यूक्लिड् महोदय: प्लाटो इत्यस्य आग्रहरूपेण एलिमेन्ट्स् ग्रन्थस्य अभ्युदयोऽभवत्। यद्यपि पूर्वगणितञानाम् मूलविचारधारा: दृष्यन्ते तथापि यूक्लिड् महोदयस्य इयम् उपलब्धि: अस्ति यत् एतेषां विचाराणां प्रस्तुति: एकरूपेण तार्किकबध्दं आसित्। एतेन अस्य उपयोग: तथा सम्बधस्थापनार्थम् आनुकूल्यम् अभवत्। अस्मिन् ग्रन्थे पारिश्रमिक गणित आधारपध्दति: अस्ति। यस्य उपयोग: २३ शतमानपर्यन्तं कृत: दृश्यते। अस्मिन् ग्रन्ते वर्णित रेखागणितपध्दति: चिरं यावत् परिगणिता यत् केवलं एषा एव साध्य रेखगणितविषये। अद्य यथा सम्भवं सर्वत्र यूक्लिडियन् रेखागणित इति नाम्नैव प्रचारे प्रयोगे चास्ति। यद्यपि अयं ग्रन्थ: रेखागणित विषये चिरपरिचित:, तथापि अत्र संख्याशास्त्रमपि द्रष्टुं शक्यते।

इतर कृतय:[सम्पादयतु]

रेखागणित समस्यासु दत्त सूचनाया: स्वभाव: तथा निहितार्थानि च "Data" ग्रन्थे सन्ति।

"Divisions of figures" ग्रन्थ: केवलम् अरेबिक अनुवादे भागरूपेण दृश्यते। एष: ग्रन्थ: रेखागणित चित्रस्य विभाग: यत् क्वचित् द्वौ भागे अथवा अधिक समानभागेष अथवा अधिक भागा: दत्त प्रमाणेषु।

"Catoptrics" ग्रन्थ: गणितशास्त्रस्य प्रतिबिम्बैव स्मृत:।

"Phaenomena" ग्रन्थ: वृत्ताकर खगोल शास्त्रस्योपरि महान् शास्त्रीयग्रन्थ:।

"Optics" ग्रन्थस्य प्रामुख्यं इदमस्ति यत् अद्द्ष्य किरणा: दृष्टिजन्या अस्माकं नेत्राभ्यामेव निर्गच्छति इति।

गौरव परम्परा[सम्पादयतु]

एतस्य महोदयस्य गौरवार्थम् यूरोपियन् स्पेस् एजेन्सि (ESA) यूक्लिड् स्पेस्क्रफ़्ट् इति एव तस्य नाम स्थापितम्।

निगमानि[सम्पादयतु]

१) विकिपीडिया

२) विकिमीडिया कामन्स्

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=यूक्लिड्&oldid=474725" इत्यस्माद् प्रतिप्राप्तम्