अनुष्टुप्छन्दः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

अनुष्टुभ्।

प्रतिचरणम् अक्षरसङ्ख्या ०८

लक्षणम्[सम्पादयतु]

पञ्चमं लघु सर्वत्र
सप्तमं द्विचतुर्थयोः।
गुरुषष्टञ्च पादानां
चतुर्णां स्यादनुष्टुभि॥

यत्र चतुर्षु अपि पादेषु पञ्चमाक्षरं लघु षष्टाक्षरं गुरु भवति, अपि च द्वितीय-तुरीयपादयोः सप्तमाक्षरं लघु भवति तत्र अनुष्टुभ् इति कथ्यते। अत्र प्रतिपादे अन्तिमाक्षरं गुरु भवति।

उदाहरणम्[सम्पादयतु]

अखण्डमण्डलाकारं व्याप्तं येन चराचरम्।
चक्षुरुन्मीलितं येन तस्मै श्री गुरवे नमः।।

अर्थः[सम्पादयतु]

येन सम्पूर्णमण्डलाकारं व्याप्तं, येन च चक्षुः उन्मीलितं, तस्मै श्री गुरवे नमः।

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=अनुष्टुप्छन्दः&oldid=446088" इत्यस्माद् प्रतिप्राप्तम्