बिर्जू महाराज

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
बिर्जू महाराजः
मूलतः भारतम्
सङ्गीतविद्या हिन्दुस्तानीसङ्गीतगायकः
वृत्तिः शास्त्रीयः कथक्नृत्यपठुः
जालस्थानम् http://www.birjumaharaj-kalashram.com/main.asp


पण्डित् बिर्जू महाराज् इत्येव परिचितः ख्यातः च बृजमोहन नाथ मिश्रा इति भारतस्य प्रसिद्धः कथक्नृत्यपटुःभारतस्य कथक् नृत्यप्रकारस्य लखनौ(लक्ष्मणपुरी) काल्का-बिन्दादिन् घराना शैल्याः प्रमुखः नृत्यकारः बिर्जूमहाराजः । अयं कलावित् कथक्नृत्यस्य कलाकाराणां महाराज् वंशजः । अस्य पिता गुरुः अच्चन् महारजः । पितुः सहोदरः शम्भुमहाराजः, लच्चूमहाराजः अपि कथक्कलाकारौ । अस्य नृत्याकलायाः विषये वेशेषः आदरः असीदपि अरम्भे हिन्दुस्तानीसङ्गीतं सम्यक् अभ्यस्तवान् । अपि च ख्यातः गायकः अपि अभवत् ।[१] कथक् नृत्यनाटकानि नविनशैल्या प्रदर्शनेन एतं कलाप्रकारम् उत्तुङ्गे नीतवान् । विश्वस्य अनेकानि स्थानानि पर्यटनं कृत्वा सहस्रशः नृत्यप्रदर्शनानि कृतवान् । अनेन सह कथक्कलाप्रकारं ये अभ्यस्तुम् इच्छन्ति तेषां सुविधार्थं शताधिकाः कार्यशालाः समचालयत् । बिर्जू महाराजः नवदेहलीनगरे विद्यमानस्य भारतीयकलाकेन्द्रे स्वस्य पितृव्येन सह उद्योगम् अकरोत् । तदन्तरम् नैकानि वर्षाणि अस्याः नृत्यशालायाः अध्यक्षः भूत्वा कलासेवाम् अकरोत् । क्रि.श.१९९८तमवर्षे यदा अयं निवृत्तः अभवत् तदनन्तरं कलाश्रमः इति स्वकीयां कलाशालाम् आरब्धवान् ।

जीवनं पृष्ठभूमिः च[सम्पादयतु]

अच्चन् महाराज् इत्येव प्रथितस्य लखनौघराणाक्रमस्य ख्याकथक्नृत्यपटोः जगन्नाथमहाराजस्य गृहे बिर्जूमहारजस्य जन्म अभवत् । तदा जगन्नाथमहाराजः रायगढस्य प्रान्ते राजभावनस्य आस्थाननृत्यकलावित् आसीत् ।[२] लच्चूमहाराजात् शम्भुमहाराजत् च बिर्जू शिक्षां प्राप्तवान् । स्वस्य सप्तमे वयसि प्रथमवारः रङ्गमञ्चे कथक्नृत्यं प्रादर्शयत् । क्रि.श.१९४७तमे वर्षे मेमासस्य २०तमे दिनाङ्के बिर्जू यदा नववर्षीयः आसीत् तदा तस्य पिता दिवङ्गतः । [३]कञ्चित्कालं सः आर्थिकं सङ्कष्टम् अनुभूतवान् । परिहारमन्विषन् सकुटुम्बं दिहलीनगरं गतवान् ।

वृत्तिजीवनम्[सम्पादयतु]

नवदेहलीनगरस्य सङ्गीतभारती इति संस्थायां बिर्जूमहाराजः तस्य त्रयोदाशे वयसि नृत्यकलां छात्रान् बोधितुम् आरब्धवान् । तदन्तरं सः नवदेहल्याः भारतीयक्लाकेन्द्रं कथक् केन्द्रे च छात्रान् नृत्यं बोधितवान् । कथक् केन्द्रं सङ्गीतनाटकाकादेम्याः सहयोगेन एव प्रचलति स्म । बिर्जूमहाराजः सङ्गीतनाटकाकादम्याः बोधकवृन्दस्य मुख्यः आसीत् । [४] क्रि.श.१९९८तमे वर्शे स्वस्य निवृत्तेः अन्तन्तरं कथक् भारतीयललितकलाकादमि कलाश्रमः इति स्वीयं नृत्यविद्यालयम् आरब्धवान् । सत्यजित् राय् निदेशनस्य शतञ्ज् के खिलाडि इति हिन्दीभाषायाः चलच्चित्रे नृत्यद्वयस्य संयोजनं कृत्वा गीतमपि गीतवान् । क्रि.श.२००२तमे वर्षे लोकार्पिते शाह् रुख् खानस्य देवदास् इति चलच्चित्रे कस्यचित् गीतस्य नृत्यसंयोजनं कृतवान् । बिर्जूमहारजस्य तिस्रः पुत्र्यः द्वौ पुत्रौ च सन्ति । एतेषु ममता महाराजः, दीपक महाराजः, जयकिशन् महाराजः कथक् नृत्ये परिणताः सन्ति । त्रिभुवन् महाराजः इति नमानः पौत्रः अपि अस्ति ।

साधारः[सम्पादयतु]

  1. Kaui, Banotsarg-Boghaz (2002). Subodh Kapoor, ed. The Indian encyclopaedia: biographical, historical, religious, administrative, ethnological, commercial and scientific. Volume 3. Genesis Publishing. p. 198. ISBN 8177552570. 
  2. http://maestroesclassicaldancers.weebly.com/achchan-maharaj.html ಅಚ್ಚನ್‌ ಮಹಾರಾಜ್‌]
  3. Buddhiraja, Sunita. "Birju Maharaj - Kathak personified". Deccan Herald. Archived from the original on 2004-12-10. आह्रियत 2007-03-25. 
  4. Bhattacharya, Santwana. "Birju Maharaj retires". Indian Express. Archived from the original on 2007-04-01. आह्रियत 2007-03-25. 

प्रशस्तयः सम्माननानि[सम्पादयतु]

बिर्जू महाराजस्य क्रि.श.१९८६तमे वर्षे पद्मभूषणः, सङ्गीतनाटकाकादमीप्रसातिः अपि च कालिदाससम्मननम्, इत्यादिभिः प्रशस्तिभिः पुरस्कारैः च भूषितः अभवत् । बिर्जूमहाराजेन वाराणस्यां) विद्यमानस्य बनारस् हिन्दुविश्वविदालयस्य कैरगढ् विश्वविद्यालयस्य च गौरवडाक्टरेट् उपधिः प्राप्ता ।

फलकम्:भारतस्य कलाविदः

"https://sa.wikipedia.org/w/index.php?title=बिर्जू_महाराज&oldid=480662" इत्यस्माद् प्रतिप्राप्तम्