सदस्यः:1910481N.Rakshitha.Jain/प्रयोगपृष्ठम्
पण्याध्यक्षः[सम्पादयतु]
परिचय:[सम्पादयतु]
यः वाणिज्यं कृत्वा जीवति स एव वणिक् इति कथ्यते। पुरातनकालादारभ्य वाणिज्यकार्यम् अस्ति। शास्त्रानुसारं ते वैश्याः। किन्तु अधुना सर्वेऽपि वाणिज्यं कर्तुं शक्नुवन्ति। वाणिज्ये सत्यनिष्ठा नीतिबोधः सुतार्यता च अद्यत्वे नष्टप्रायाः। भारते पौराणिककाले जनाः अन्नस्य औषधस्य तथा विद्यायाः विपणनं न कुर्वन्ति स्म किन्तु दौर्भाग्यवशाद् अधुना तेभ्यः एव जनाः अधिकलाभं जनयन्ति। अनेन कारणेन सर्वत्र धार्मिकमूल्यानां च्युतिरेव जातम्। खाद्यवस्तूनां विक्रयणेऽपि नीचरीत्या अशुद्धपदार्थमिश्रणं|
इतिहासः[सम्पादयतु]
रासपदार्थानां योजनं परिमाणे वञ्चना एवं बहुविधानि कुकार्याणि कुर्वन्ति केचन अपणिकाः। अधिकारिणः सर्वदा जागरूका न भवन्ति तथा उपभोक्तॄणाम् अपि बोधनं सम्यक् नास्ति इत्येव सत्यम्। कृषिकार्ये अमितलाभार्थम् अतीवहानिकराणां रासवस्तूनां प्रयोगः अधुना सर्वत्र दृश्यन्ते। विज्ञानस्य काल एषः अतः वाणिज्येष्वपि अन्तर्जलास्य प्रभावं सर्वत्र द्रष्टुं शक्नुमः। गृहे उपविश्य एव जनैः सर्वाणि वस्तूनि क्रीणते। अन्तर्जालवाणिज्यं नूनं नूतनसंस्काराय एव मार्गं रचयति। अत्रापि सौलभ्यं तथा वञ्चना द्वयमपि वर्तेते । ग्राहकानां बोधनं तत्रापि अवश्यं भवितव्यम्। यत्किमपि भवतु वाणिज्यक्षेत्रम् अस्माकं जीवनस्य नित्यभागं जातम् इति तु सत्यं तर्हि श्रद्धया नियमानुसारं च सर्वत्र व्यवहारः करणीयः नान्यः उपायः विद्यते। अस्मिन् संसारे सर्वे जनाः सुखं वाञ्छन्ति, तेनैव च ते अहर्निशं परिश्रम कुर्वन्ति। परिश्रमेण विना कस्यापि कार्यस्य सिद्धि न भवति। कार्यसिद्धिस्तु उद्योगेनैव भवति। यदि वयं विषयेऽस्मिन् सूक्ष्मरूपेणं चिन्तयेम, तर्हि देवाः अपि कार्यसिद्धिकरणे परिश्रमेण विना समर्थाः न भवन्ति।
कार्यसमापनम्[सम्पादयतु]
अनेनैव तेऽपि कार्यसिद्ध्यर्थं भूमौ अवतारं गृह्णन्ति, परिश्रमं विना दैवमपि पंगुः भवति।स्वयमेव विचारयन्तु भवन्तः। यदि कृषकः परिश्रमं न करोति, क्षेत्रं न कर्षति, बीजानि न वपति, काले शस्यानि जलेन न सिञ्चति, तर्हि किं सः सस्यानां स्वादुफलं आस्वादयति। कथं सः अन्येभ्यः स्वादिष्टान्नस्य उत्पत्ति कर्तुं शक्यते। उद्योगेनैव जनाः विद्वांसः, वैज्ञानिकाः,धनिकाः यशस्विनश्च भवन्ति परिश्रमं करोति सःवै विजयतां लभते। ईश्वरोअपि तस्य सहाय्यं करोति,येन स्वस्य सहायता क्रियते। अल्पीयसी पिपिलिका कठोर परिश्रमेणैव पर्वतमपि लंघयते, किन्तु न गच्छन् वैनतेयोऽपि एकं पदं न परिचलति।