सामग्री पर जाएँ

महिमभट्टेन ध्वनिलक्षणे उद्भाविताः दश दोषाः।

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
 1. अर्थस्य विशेषणकल्पने दोषः
       सम्भवव्यभिचाराभ्याम् एव विशेषणविशेष्यभावः घटते । ध्वनौ , वाच्यार्थःअर्थान्तरस्य व्यङ्यस्य प्रतीयमानार्थं हि उपादीयते ।  अतः तस्य वाच्यार्थस्य सर्वदा उपसर्जनीकृतात्मत्वम् अथवा अप्राधान्यमेव। अग्न्यादिसिद्ध्यर्थम्                         उपादीयमानः धूमादिः तस्य   गुणतां न अतिवर्तते। तद्वद् यत्र व्यङ्ग्यार्थः प्रतीयते तत्र  वाच्यार्थः प्रतीयमानसिद्ध्यर्थमेव स्वीक्रियते । अतः तस्य उपसर्जनीकृतात्मत्वस्य व्यभिचारः कुत्रापि न जायते । अतः अर्थस्य तद्विशेषणमनुचितम् ।

समासोक्त्यादौ वाच्यस्य प्राधान्यं विद्यतेति पूर्वपक्षः।उपोढरागेण ....इत्यादौ प्रतीयमानेनानुगतं वाच्यमेव प्रधानम् इत्येव ध्वनिकारमतम् । अतस्तत्र उपसर्जनीकृतात्मत्वव्यभिचारः वाच्यस्य इति भावः। किन्तु महिमा अभिप्रैति यत् तत्र वाच्यस्य प्राधान्यं प्राकरिणिकत्वापेक्षया एव, न प्रतीयमानापेक्षया इति । प्राकरणिकत्वनिमित्तं प्राधान्यं ध्वनिलक्षणे न उपयुज्यते। यतो हि ध्वनिलक्षणं प्रत्याय्यप्रत्यायकजीवितम् । तत्र प्रत्याय्यस्य प्रतीयमानस्य प्राधान्यं, प्रत्यायकस्य वाच्यस्य अप्राधान्यं च ।एवं वाच्यस्य अर्थस्य लिङ्गत्वात् उपसर्जनाकृतात्मत्वाव्यभिचार (उपसर्जनीकृतात्मत्वस्य अव्यभिचार) एव । अथ प्रौढवादाय व्यभिचारः अस्तीति अङ्गीक्रियते चेदपि तद् विफलमेव स्यादिति महिमा । यतो हि गुणीभूतव्यङ्ग्ये अपि काव्ये क्वचिद् वाच्यस्य चारुत्वनिमित्तं प्रधान्यं क्वचिच्च अप्राधान्यं च दृश्यते इति ।

2. व्यञ्जकतया शब्दनिर्देशे दोषः

महिमभट्टमते शब्दस्य केवलं एका एव शक्तिःअभिधा । तस्य व्यापारान्तरः नास्ति । शब्दः वाच्यमर्थम् अभिदधाति । व्यङ्यार्थप्रतीतिसामर्थ्यं तस्य नास्ति । यदि अनेकशक्तित्वं भवेत् तर्हि अग्नेः दाहकत्वप्रकाशकत्वादयः इव पौर्वापर्यं विना युगपत् प्रवृत्तयः जायेरन् । अतः लक्षणे व्यञ्जकत्वरूपेण शब्दः अनुपादेयः ।

3.  शब्दस्य उपसर्जनीकृतार्थत्वरूपे विशेषणोपादाने दोषः

केवलम् अनुकरणशब्दस्यैव उपसर्जनीकृतार्थत्वं भवति। तद्व्यतिरिक्तः कोऽपि शब्दः स्वमर्थं कदापि न उपसर्जनीकरोति । यतो हि अर्थप्रतिपादनाय एव शब्दप्रयोगः क्रियते । एवं यः यदर्थमुपादीयते सः तमेव उपसर्जनीकरोति इति कथनम् अयुक्तम् । उदकसिद्ध्यर्थमुपात्तः घटः तमेव उदकं उपसर्जनीकरोतीति न युक्तं वक्तुम् । तद्वदत्रापि शब्दः स्वमर्थं न अप्रधानीकरोति । अन्यथा तु प्रधानेतरव्यवस्था व्यर्था जायेत । एवं लक्षणे असम्भवदोषः । 4. 'चतुर्थः दोषः।( तदः पुंस्त्वम्)'''' ध्वनिकारिकायां , ‘तमर्थम्’ इति तच्छब्देन सर्वनाम्ना ‘सरस्वती स्वादु..’ ‘प्रतीयमानं पुनरन्यदेव’ इत्यादिकारिकाभ्याम् उक्तं वस्तु परामृशति । एवं नपुंसकत्वेन निर्दिष्टस्य प्रतीयमानस्य सर्वनामप्रयोगद्वारा पुंस्त्वेन परामर्शः अनुपपन्नः। यतो हि सर्वनामशब्दः अनन्तरप्रक्रान्तपरामर्शी भवति । नपुंसकलिङ्गस्यानन्तरं प्रक्रान्तस्य तच्छब्दस्य पुल्लिङ्गतया निर्देशः दोषाय इत्यर्थः। तद्दोषपरिहाराय , ‘प्रतीयमानः पुनरन्य एव’ , ‘सरस्वती स्वादुतमं तमर्थम्’ इत्यादिरीत्या पाठविपर्यासः एव उचितः इति महिमभट्टः। तथा सति पुंस्त्वनिर्देशदोषः पर्यायप्रक्रमभेददोषश्च उभौ परिहृतौ भवतः। कारिकायां तमर्थमित्यस्य ‘वस्तु तदि’ति पाठविपर्यासे पुनः, केवलं पुंस्त्वनिर्देशदोषस्य एव परिहारः , न पुनः पर्यायप्रक्रमदोषस्य। '5 ,6पञ्चमः दोषः( वाशब्दप्रयोगः) & षष्ठः दोषः (द्विवचनप्रयोगः)' कारिकायां वाशब्दः विकल्पार्थः वा समुच्चसार्थः वा इति प्रश्नः। न तावद् विकल्पार्थः, शब्दस्य अभिधानमन्तरेण व्यापारान्तराभावात् । अथ, शब्दस्य व्यञ्जकत्वाङ्गीकारेऽपि , वाशब्दस्य विकल्पार्थत्वमनुचितं, समुच्चयाभावात् व्यङ्क्तः इति द्विववचनस्य अनुपपत्तिः इत्यतः। न पुनः तस्य समुच्चयार्थस्वीकारोऽप्युचितः।यतो हि, तथा सति यत्र शब्दार्थयोः एकैकस्य व्यञ्जकत्वं तत्र ध्वनित्वमिष्टं न स्यात् । अतः कारिकायां वाशब्दप्रयोगः दोषाय भवति। ध्वनिकारमते पुनः एकैकस्य व्यञ्जकत्वात् व्यङ्क्तः इति द्विवचनप्रयोगः अनुचितः।‘शिरः श्वा काको वा द्रुपदतनयो वा परिमृशेत्’ इतिवत् अत्र व्यनक्ति इति एकवचनमेव प्रयोक्तव्यं स्यात् इति द्विवचनप्रयोगोऽनुचितः।

 7.     सप्तमदोषः(काव्यवैशिष्ट्यम्)

कारिकायां काव्यविशेषः इति काव्यस्य, यद् वैशिष्ट्यमुक्तं तदनुपपन्नम् । काव्यस्य विशेषः इत्यत्र विशेषशब्दस्य प्रभेदार्थम् अतिशयार्थं वा स्वीकर्तुं न शक्यते । महिमभट्टस्य मते , ‘काव्यस्यात्मा स एवार्थः’ इति कारिकया आनन्दवर्धनाचार्येण काव्यमात्रस्य रसात्मकत्वम् ध्वनिव्यपदेश्यत्वं च उक्तं भवति ।एवं केवलकाव्यस्य ध्वनित्वमुक्त्वा अनन्तरं तस्य काव्यस्य प्रभेदः ध्वनिरिति वक्तुं न शक्यते। अतिशयपर्यायोऽपि न भवत्यत्र विशेषशब्दः। यतो हि ध्वनिकारमते काव्यमात्रस्य रसात्मत्वम् , रसस्य च निरतिशयसुखास्वादलक्षणत्वम् । एवं निरतिशयसुखास्वादलक्षणस्य रसस्य अभावे काव्यता एव न स्यात् ।अतः रसात्मककाव्यस्य वैशिष्ट्यकथनं निष्फलं भवति। 8. अष्टमो दोषः (ध्वनिर्नाम)

          लक्षणे ध्वनिरिति नामप्रयोगेन अवाच्यवचनं दोषः।ध्वनेः काव्यविशिष्टत्वाभावेऽपि यदि नाम वादाय तदङ्गीक्रियते तथापि लक्षणे ध्वनिरिति कथनं न कर्तव्यं स्यात् । रसात्मकत्वस्य काव्यत्वकथनानन्तरं प्रसङ्गतः ध्वनिलक्षणस्य प्राप्तौ पुनः               वाचा तस्य कथनस्य आवश्यकता नास्ति। यथा हि योऽश्वारूढः स पुरुषो राजा इत्यत्र।				वैयाकरणैः स्फोटरूपव्यङ्ग्यव्यञ्जकत्वम् उक्त्वा श्रूयमाणशब्दानां ध्वनित्वं स्वीक्रियते ।तत्र व्यञ्जकत्वसाम्यात्  शब्दार्थात्मनि काव्ये               ध्वनिव्यपदेशः इति वक्तुं न शक्यतेति महिमा ।यतो हि  तन्मते, स्फोट-शब्दयोरपि समकालप्रतीतिः न जायते इत्यतः कार्यकारणमूलत्वेन गम्यगमकभावः एव स्वीकरणीयः।तद्वदेव काव्येऽपि । अतः ध्वनिरिति व्यपदेशः न युक्तः।
9.      नवमो दोषः( सूरिभिः कथितः)

सूरिभिः कथितः इति लक्षणे कथनक्रियाकर्तुः निर्देशाद् अवाच्यवचनं दोषः।अत्र कर्तृसामान्यविवक्षा कर्तृविशेषविवक्षा वा इति प्रथमः प्रश्नः ।उभयस्मिन्नपि पक्षे कर्तृनिर्देशः न आवश्यकः।कापि क्रिया कर्तारं विना न जायते इत्यतः सामान्यकर्तृत्वं सिद्धं भवति । विशेषकर्तृत्वं पुनः ध्वनिलक्षणवैशिष्ट्येन सिद्धं भवति। अतः कर्तृनिर्देशः अत्र अवाच्यवचनदोषं जनयति ।

10.   दशमः दोषः(व्यक्तिः)

ध्वनिकारिकायाम् शब्दस्य अर्थस्य च व्यञ्जकत्वम् उक्तम् ।तदनुपपन्नमिति महिमभट्टः।तन्मते शब्दस्य अभिधानमन्तरेण व्यापारान्तराभावः। शब्दस्य अनेकशक्त्याश्रयत्वम् असिद्धम् । एकाश्रयाः शक्तयः चेत् अन्योन्यानपेक्षप्रवृत्तयःपौर्वापर्यक्रमं विना युपपद् द्रष्टव्याः , यथा अग्नेः दाहकत्वप्रकाशकत्वादयः। अभिधाशक्तिपूर्वकत्वेन एव इतरशक्तिप्रवृत्तिः जायते इति क्रमसद्भावाद् यौगपद्यत्वाभावात् तेषां शब्दाश्रयत्वं नास्तीति महिममतम् । अतः शब्दे व्यञ्जनाशक्तिकल्पनेन असम्भवदोषः। यत्र वाच्यार्थानन्तरं प्रतीयमानार्थप्रतीतिः तत्र तयोः न व्यङ्यव्यञ्जकभावः, अपि तु गम्यगमकभाव एवेति महिमभट्टः। सः अभिव्यक्तिलक्षणं तद्भेदान् च प्रतिपाद्य ध्वनौ अभिव्यक्तिं निरस्यति। सतः असतः वा प्रकाशमानस्य सम्बन्धस्मरणानवेक्षिणा प्रकाशकेन सहैव प्रकाशविषयतापत्तिः भवति अभिव्यक्तिः। सद्विषया अभिव्यक्तिः त्रिधा –1. कारणात्मनि शक्त्यात्मना अवस्थितस्य इन्द्रियगोचरत्वप्राप्तिरूपा ( उदा- क्षीराद्यवस्थायाः दध्यादेरभिव्यक्तिः) 2. आविर्भूतस्य कार्यस्य कुतश्चित्प्रतिबन्धाद् अप्रकाशमानस्य प्रकाशकेन सहैव प्रकाशनरूपा (उदा- प्रदीपादिना घटादेः)3.अनुभूतपूर्वस्य संस्कारात्मना स्थितस्य कुतश्चित्प्रबोधकप्रत्ययात् प्रबोधमात्ररूपा, प्रबोधकं च

         ( क.) नान्तरीयकं (उदा-धूमादग्नेः) (ख) सदृशवस्त्वन्तरं ( उदा- आलेख्यपुस्तकादिभ्यः गवादेः) (ग). शब्दः (शब्दाद् गवादेः)वा भवितुमर्हति। असद्विषया अभिव्यक्तिः एकप्रकारा यथा सूर्यालोकादिना इन्द्रचापादेः।

प्रतीयमानार्थज्ञाने न दध्यादिरिव अभिव्यक्तिः,अनेन अर्थेन अयमेव प्रतीयमानार्थो लभ्यते इति नियततायाः अभावात्। दीपेन घट इव प्रकाशनरूपा अपि न प्रतीयमानप्रतीतिः,वाच्यप्रतीयमानयोः युगपद् ज्ञानाभावात्। न च इयं प्रतीतिः असद्विषा ।परिशेषाद् धूमादेः अग्न्यादिज्ञानमिव भवति वाच्यात् प्रतीयमानप्रतीतिरिति सङ्गच्छते। तस्य च लक्षणं अनुमानस्यैव, तत्र अविनाभावसम्बन्धस्मरणस्य सत्वात्। अर्थाद् अर्थान्तरप्रतीतिः अनुमानमन्तरेण न उपपद्यते। एवञ्च अर्थस्य व्यञ्जकत्वं नास्तीति महिमभट्ठः। शब्दे अर्थे च अविद्यमाना व्यक्तिः उभयत्र कल्पिता इति असम्भवदोषः ध्वनिलक्षणे।

सम्बद्धाः लेखाः

[सम्पादयतु]