आचार्य महापूर्ण: (पेरिय नम्बि )

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

परिचय:[सम्पादयतु]

कमलापतिकल्याणगुणामृतनिशेवया ।

पूर्णकामाय सततं पूर्णाय महते नम: ।।


[ "கமலாபதி கல்யாண குணாம்ருத நிஷேவயா |

Periya-nambi

பூர்ண காமாய ஸததம் பூர்ணாய மஹதே நம: || " ]


आचार्य महापूर्ण: श्रीवैष्णव संप्रदायस्य महानाचार्येषु एक: । स: विशिष्टाद्वैतसिद्धान्तसंस्थापकस्य रामानुजाचार्यस्य गुरूषु एक: ।

जीवनं[सम्पादयतु]

महापूर्णस्य जन्म क्रि.श ११ शताब्दे अथवा १२ शताब्दे अभवत् । तस्य जन्म दक्षिणभारतस्य चोलदेशस्य श्रीरङ्गक्षेत्रे  चोलियर् कुले अभवत् । स: यमुनाचार्याणां शिष्य: आसीत् । स: श्रीरङ्गनाथस्य आलयसेवायां स्वगुरो: सहाय्यम् अकरोत् । स: रामानुजाचार्यं श्रीवैष्णसंप्रादये प्रविष्टुं प्रमुखपात्रं निर्वहति स्म ।

रामानुजं श्रीवैष्णवं कर्तुं स: काञ्चीपुरं गतवान् । तदैव रामानुजोऽपि काञ्चीपुरात् महापूर्णं द्रष्टुं प्रस्थानम् अकरोत् । तदा ते मदुरान्तके अन्योन्यं द्रष्टवन्तौ । स: रामानुजाय श्रीवैष्णव-पञ्चसंस्कारं अकारयति स्म मदुरान्तके एव। तदनन्तरं रामानुजेन काञ्चीं गत्वा तस्मै शास्त्रशिक्षणं प्रयच्छति स्म । तत्र रामानुजस्य धर्मपत्न्या: तञ्जम्बाया: दुर्व्यवहारस्य कारणात् ते पत्न्या सह श्रीरङ्गं गन्तुं प्रस्थानम् अकरोत् ।

स: पेरिय नम्बि ( तमिल् भाषायां ) , पराङ्कुशदास: , पूर्णाचार्य: इति नामै: अपि स्मृत: ।  

एम्पेरुमानार् , मालैकुनिय निन्रार्, आरुयिल् शठकोपदासर् , अणियरङ्गत्तमुदनार् पिल्लै , तिरुवैकुलमुदयार् भट्टर् आदय: तस्य शिष्या: आसन् ।

सम्बद्धाः लेखाः[सम्पादयतु]