चार्ल्स् डार्विन्
(कालः – १२. ०२. १८०९ तः १९. ०४. १८८२)
Charles Darwin | |
---|---|
Darwin, aged 45 in 1854, by then working towards publication of On the Origin of Species | |
जननम् |
Charles Robert Darwin १२ १८०९ The Mount, Shrewsbury, Shropshire, United Kingdom |
मरणम् |
१९ १८८२ Down House, Downe, Kent, United Kingdom | (आयुः ७३)
वासस्थानम् | England |
नागरीकता | British |
देशीयता | British |
कार्यक्षेत्राणि | Naturalist |
संस्थाः | Geological Society of London |
मातृसंस्थाः |
(tertiary education): University of Edinburgh (medicine) University of Cambridge (ordinary Bachelor of Arts) |
Academic advisors |
John Stevens Henslow Adam Sedgwick |
विषयेषु प्रसिद्धः |
The Voyage of the Beagle On the Origin of Species evolution by natural selection, common descent |
प्रभावः |
Alexander von Humboldt John Herschel Charles Lyell |
प्रभावितः |
Joseph Dalton Hooker Thomas Henry Huxley George Romanes Ernst Haeckel Sir John Lubbock |
प्रमुखाः प्रशस्तयः |
Royal Medal (1853) Wollaston Medal (1859) Copley Medal (1864) |
पतिः/पत्नी | Emma Darwin (1839-1896) |
हस्ताक्षरम् |
अयं चार्ल्स डार्विन (Charles Darwin) प्रसिद्धः विज्ञानी, विकासवादस्य प्रतिपादकश्च । सः १८०९ वर्षे फेब्रवरिमासस्य १२ दिनाङ्के इङ्ग्लेण्ड्देशस्य श्राप्शैर् इति प्रदेशे जन्म प्राप्नोत् । अस्य पिता इरास्मस् डार्विन प्रख्यातः वैद्यः आसीत् । पितामहः एरास्मस् डार्विन् प्रख्यातः कविः वैद्यश्चापि । प्रपितामहः जोसय् वेड्ज्वुड् मृत्पात्राणाम् उपरि चित्रलेखकः कुशलकर्मी आसीत् । किन्तु अयं चार्ल्स डार्विन पिता इव, पितामहः इव वा वैद्यकीयं यद्यपि अपठत् तथापि तस्मिन् क्षेत्रे आसक्तः न अभवत् ।
किञ्चित् कालं यावत् क्रिश्चियन्–मतस्य मन्दिरे (चर्च्) अधिकारिरूपेण कार्यम् अकरोत् । तत्रापि अधिकं कालं स्थातुं न अशक्नोत् । हम्बोल्टस्य लेखनैः प्रभावितः सन् प्रकृतेः अध्ययनम् एव लक्ष्यत्वेन अचिनोत् । तेन तस्य चार्ल्स डार्विनस्य पितुः महान् कोपः एव आगतः । किन्तु अग्रे सः चार्ल्स डार्विन तस्मिन् क्षेत्रे सः अपारां कीर्तिं सम्पादितवान् । तेन चार्ल्स डार्विनेन तत् लक्ष्यं यदा सः १८३१ तम् वर्षे केम्ब्रिड्ज् मध्ये आसीत् तदा प्राप्तम् । तदवसरे सः विरामसमयं हेन्स्लो नामकेन सस्यविज्ञानिना प्रध्यापकेन सह विषयसङ्ग्रहणेन, भूविज्ञानस्य पठनेन च अयापयत् ।
तदनन्तरं सः चार्ल्स डार्विन सेड्जविक् नामकस्य भूविज्ञानिनः नायकत्वे यः परिशिलनप्रवासः आयोजितः तत्रापि उत्साहेन भागम् अवहत् । तदा भूविज्ञानी सेड्जविक् अस्य चार्ल्स डार्विनस्य बुद्धिमत्ताम् अजानात् । तस्य चार्ल्स् डार्विनस्य जीवनस्य प्रमुखः स्तरः यस्मिन् दिने सः बीगल्–नौकायाः प्रकृतितज्ञरूपेण (Naturalist) नियुक्तः तदा आरब्धः । सा नौका १८३१ तमात् वर्षात् आरभ्य १८३६ तमवर्षपर्यन्तं दक्षिण–अमेरिका, गालपगोस्–द्वीपाः, शान्तसागर–द्वीपाः इत्यादीनां भूप्रदेशाणां सन्दर्शनम् अकरोत् । तदवसरे अयं चार्ल्स डार्विन् महता प्रमाणेन अवशेषाणां सङ्ग्रहणम् अकरोत् । तेषां प्रदेशाणां जीवजातीनां वीक्षणं कृत्वा व्यापकरूपेण विवरणानि, अभिप्रायान् च अलिखत् ।
विभिन्नेषु द्वीपेषु वसतां प्राणिनां परस्परं सम्बन्धः भेदः वा, गतजीविनां जीवतां जीविनां च साम्यं, सूक्ष्माः च भेदाः तस्य मनः आकर्षन् । तत्सर्वम् उल्लिख्य तेन लिखितं "प्रकृतिविज्ञानिनः बीगल्-प्रवासः” नामकं पुस्तकम् अत्यन्तं मनोहरः प्रवास – साहित्यग्रन्थः । तस्य प्रवासस्य समये सः चार्ल्स डार्विन समुद्रयानस्य अनारोग्येण (Sea sickness) पीडितः आसीत् । तस्य परिणामरूपेण सः जीवनपूर्णम् अनारोग्येण पीडितः ।
१८३६ तमे वर्षे लण्डन्–नगरं प्रत्यागतः चार्ल्स डार्विन प्रवासावसरे सङ्गृहीतस्य सर्वस्य अपि क्रोढीकरणम् आरब्धवान् । चार्ल्स लयेल् नामकस्य भूविज्ञानिनः "भूमेः लक्षणानि निरन्तरं परिवर्तन्ते । इदानीन्तनानां लक्षणानाम् अध्ययनेन पूर्वतनानि भौगोलिकानि लक्षणानि निर्णेतुं शक्यन्ते” इति सिद्धान्तः तस्य प्रियः जातः । थामस् माल्थस् नामकस्य अर्थशास्त्रज्ञस्य जनसंख्यायाः कारणतः जायमानाः समस्याः इति प्रबन्धे चित्रितं जीवनार्थं युद्धम् अपि तस्य मनसि स्थिरं स्थितम् आसीत् । तस्य सर्वस्य आधारेण अयं चार्ल्स डार्विन "जीवविकास”स्य सिद्धान्तं रूपितवान् । "जीविषु जीवनार्थं तीव्रतराः स्पर्धाः प्रचलन्ति । स्पर्धायाः कारणं तु अपेक्षितस्य प्रमाणस्य अपेक्षया अधिकसंख्यानां जीविनां जननम् । तासु स्पर्धासु अरोग्यतमाः जीविनः जीवन्ति, अन्ये च नश्यन्ति । तथा जीवितवद्भ्यः जीविभ्यः नूतनायाः वंशश्रेण्याः आरम्भः भवति । एते चत्वारः चार्ल्स डार्विनस्य विकासवादस्य प्रमुखाः अंशाः ।
अयं चार्ल्स् डार्विन "लघुभेदयुक्ताः समानकुलस्य प्राणिनः, पक्षिणः, पुष्पाणि वा यदि समर्थतया जीवन्ति तर्हि ते तं भेदम् अग्रिमां वंशश्रेणीं प्रति तथैव प्रेषयन्ति” इत्यपि प्रत्यपादयत् । अयम् एव अंशः जीविजातेः उगमस्य कारणम् । आनुवंशिकस्य आधारः अपि अयम् एव । अनेन लिखितस्य “जीवजातीनाम् उद्भवः” (आरिजिन् आफ् स्पीशीस्) इति पुस्तकस्य १२५० प्रतयः अपि मुद्रणदिने (१८५९ तमवर्षस्य नवेम्बरमासस्य २४ तमः दिनाङ्कः) विक्रीताः अभवन् । तत् पुस्तकं जनानां चिन्तनक्रमे क्रान्तिम् एव अकरोत् । अनेन चार्ल्स डार्विनेन ये अंशाः प्रतिपादिताः ते अंशाः तत्पूर्वम् अन्यैः प्रतिपादिताः एव आसन् । परन्तु तेषु केनापि वैज्ञानिकाः सत्यांशाः न उल्लिखिताः आसन् । चार्ल्स डार्विन तु सर्वम् अपि विषयं वैज्ञानिकैः सत्यांशैः समर्थितवान् आसीत् । तदवसरे तेन यावती प्रशंसा प्राप्ता तावती एव टीका अपि प्राप्ता । तस्य चार्ल्स् डार्विनस्य समर्थकाः तं "जीवविज्ञानस्य ऐसाक् न्यूट्न्” इति प्रशंसितवन्तः । विरोधिनः तु "बैबल्–ग्रन्थस्य विरोधं कुर्वन् पापी” इति अवदन् । किन्तु सः चार्ल्स् डार्विन तु सर्वस्मात् अपि कोलाहलात् दूरे एव तिष्ठन् गृहे "मानवस्य उद्भवः” (दि डिसेण्ट् आफ् म्यान्) इति पुस्तकस्य लेखने मग्नः आसीत् । तदपि पुस्तकं प्रथमस्य पुस्तकस्य मुद्रणस्य १२ वर्षाणाम् अनन्तरम् अपि महान्तं कोलाहलम् एव अकरोत् । तस्मिन् पुस्तके सः "मनुष्याः कपिभिः उद्भूताः” इति न अवदत् । तत् स्थाने "पूर्वतनाः कपयः मनुकुलस्य सम्बद्धाः” इति उक्तवान् आसीत् । १९२५ तमवर्षपर्यन्तम् अपि अस्य चार्ल्स् डार्विनस्य पर-विरोधस्य चर्चाः प्रचलन्ति स्म ।
अस्य चार्ल्स डार्विनस्य अन्यानि पुस्तकानि अपि बहुप्रसिद्धानि आसन् । तानि सर्वाणि अपि पुस्तकानि शैल्याः तथा स्पष्टस्य निरूपणस्य कारणतः एव प्रसिद्धानि अभवन् । तानि च "प्रवालद्वीपस्य रचना तथा वितरणम्”, "अग्निपर्वतद्वीपाः”, "भूवैज्ञानिकानि वीक्षणानि” च । विंशतितमे शतके आनुवंशिकविज्ञानस्य क्षेत्रे जातानि नूतनानि संशोधनानि अस्य चार्ल्स् डार्विनस्य प्रकृतेः चयनस्य सिद्धान्तं किञ्चित् प्रमाणेन दुर्बलम् अकुर्वन् । तथापि सः इङ्ग्लेण्ड्देशे गण्यव्यक्तिः आसीत् । सः १८८२ तमे वर्षे एप्रिल्–मासस्य १९ दिनाङ्ग्के यदा मरणम् अवाप्नोत् तदा तस्य स्मारकम् अपि ऐसाक् न्यूटन्, मैकेल् प्यारेडे, चार्ल्स् लयाल् इत्यादीनां स्मारकसमीपे वेस्ट् मिनिस्टरस्य स्थाने एव कृतः ।
बाह्यानुबन्धः
[सम्पादयतु]- The Complete Works of Charles Darwin Online – Darwin Online
- Darwin Correspondence Project
- A Pictorial Biography of Charles Darwin Archived २०१४-०७-०५ at the Wayback Machine