शूरसेनः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
१६ जनपदान् दर्शयत् मानचित्रम्


शूरसेनराज्यं मत्स्यदेशस्य उत्तरपूर्वदिशि आसीत् । पश्चिमदिशि यमुनानदीपर्यन्तं विस्तृतम् आसीत् । अस्य राजधानी आसीत् मधुरा अथवा मथुरानगरम् । राजा शूरसेनः बौद्धधर्मावलम्बी आसीत् । अस्मात् कारणात् मथुरानगरं बौद्धधर्मस्य प्रमुखं स्थानम् अभवत् । पाणिनेः अष्टाध्याय्याम् अपि मथुरायाः शूरसेनस्य अन्दकानां तथा विरुन्निनां च उल्लेखः दृश्यते । कौटिल्यस्य अर्थशास्त्रे विरुन्निसां "सामग" अथवा "गणतन्त्रम्" इति वर्णितम् अस्ति । शूरसेनस्य राजधानी मथुरानगरं "मेगस्तानीसस्य" काले श्रीकृष्णस्य मुख्यं स्थानम् आसीत् इति श्रूयते । मगधेन सह सञ्जाते युद्धे पराजयं प्राप्य कालान्तरे शूरसेनराज्यं मगधराज्यान्तर्गतम् अभवत् ।

"https://sa.wikipedia.org/w/index.php?title=शूरसेनः&oldid=366143" इत्यस्माद् प्रतिप्राप्तम्