गञ्जाम् निमिषाम्बा देवालयः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
निमिषाम्बा देवालयः

गञ्जाम् निमिषाम्बा देवालयः (Nimishamba) कर्णाटकराज्यस्य मण्ड्यमण्डले श्रीरङ्गपट्टणसमीपे स्थितं किञ्चन क्षेत्रम् । एतत् क्षेत्रं लोकपावनीकावेरीनद्योः सङ्गमस्थानम् । स्थलपुराणरीत्या देवी पार्वती मुक्तकऋषेः प्रभावेण अत्र आगत्य स्थितवती। श्री मुम्मडि कृष्णराजओडेयरमहोदयेन अस्य देवालयस्य पुनरुद्धारः १९ शतके कृतः अस्ति । भक्तानाम् इष्टार्थसिद्धिः निमेषमात्रकाले भवति इति जनानां विश्वासः । अतः एव इयं निमिषाम्बा ।

अत्रैकं श्रीचक्रम् अस्ति । भारतदेशे स्थितेषु षटचक्रेषु एतदपि अन्यतमम् अस्ति । प्रतिदिनम् अस्याः देव्याः सहस्रशः जनाः दर्शनं कुर्वन्ति । नवरात्रिमहोत्सवे लक्षाधिकजनाः आगच्छन्ति अत्र निमिषाम्बदेव्याः जन्मदिनं महत्वपूर्णं दिनम् अस्ति । तस्मिन् दिने अपि बहवः भक्ताः अत्र आगच्छन्ति।

मार्गः[सम्पादयतु]

श्रीरङ्गपट्टणतः नगरबसयानम् अश्वशकटिका अटोयानं च अस्ति । गञ्जांप्रदेशतः २ कि.मीटरदूरे अस्ति।

बाह्यसम्पर्कतन्तुः[सम्पादयतु]