पुरोधसां च मुख्यं मां...
दिखावट
श्लोकः
[सम्पादयतु]अयं लेखः विकिपीडिया-विश्वकोषस्य अन्यलेखैः सह संयोजनीयः । सन्दर्भानुगुणं परिसन्धयः योज्यन्ताम् । तेन(जनुवरि २०१४) |
- पुरोधसांच मुख्यं मां विद्धि पार्थ बृहस्पतिम् ।
- सेनानीनामहं स्कन्दः सरसामस्मि सागरः ॥ २४ ॥
अयं भगवद्गीतायाः दशमोऽध्यायस्य विभूतियोगस्य चतुर्विंश्सतितमः(२३) श्लोकः ।
पदच्छेदः
[सम्पादयतु]पुरोधसां च मुख्यं मां विद्धि पार्थ बृहस्पतिम् सेनानीनाम् अहं स्कन्दः सरसाम् अस्मि सागरः ॥ २४ ॥
अन्वयः
[सम्पादयतु]पार्थ ! पुरोधसां मुख्यं बृहस्पतिं मां विद्धि । सेनानीनां स्कन्दः अहम् । सरसां सागरः अस्मि ।
शब्दार्थः
[सम्पादयतु]- पार्थ = अर्जुन !
- पुरोधसाम् = पुरोहितानाम्
- मुख्यम् = प्रधानम्
- बृहस्पतिम् = गुरुम्
- मां विद्धि = मां जानीहि
- सेनानीनाम् = सेनापतीनाम्
- स्कन्दः अहम् = कुमारः अहम्
- सरसाम् = तटाकानाम्
- सागरः = समुद्रः
- अस्मि = भवामि ।
अर्थः
[सम्पादयतु]अर्जुन ! पुरोहितानां मुख्यः देवगुरुः बृहस्पतिः अहमेव इति जानीहि । सेनापतयः ये सन्ति तेषु अहं देवसेनापतिः स्कन्दः अस्मि । देवखातानि सरांसि यानि सन्ति तेषु सागरः अहमस्मि ।