पुरोधसां च मुख्यं मां...

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


श्लोकः[सम्पादयतु]

गीतोपदेशः
पुरोधसांच मुख्यं मां विद्धि पार्थ बृहस्पतिम् ।
सेनानीनामहं स्कन्दः सरसामस्मि सागरः ॥ २४ ॥

अयं भगवद्गीतायाः दशमोऽध्यायस्य विभूतियोगस्य चतुर्विंश्सतितमः(२३) श्लोकः ।

पदच्छेदः[सम्पादयतु]

पुरोधसां च मुख्यं मां विद्धि पार्थ बृहस्पतिम् सेनानीनाम् अहं स्कन्दः सरसाम् अस्मि सागरः ॥ २४ ॥

अन्वयः[सम्पादयतु]

पार्थ ! पुरोधसां मुख्यं बृहस्पतिं मां विद्धि । सेनानीनां स्कन्दः अहम् । सरसां सागरः अस्मि ।

शब्दार्थः[सम्पादयतु]

पार्थ = अर्जुन !
पुरोधसाम् = पुरोहितानाम्
मुख्यम् = प्रधानम्
बृहस्पतिम् = गुरुम्
मां विद्धि = मां जानीहि
सेनानीनाम् = सेनापतीनाम्
स्कन्दः अहम् = कुमारः अहम्
सरसाम् = तटाकानाम्
सागरः = समुद्रः
अस्मि = भवामि ।

अर्थः[सम्पादयतु]

अर्जुन ! पुरोहितानां मुख्यः देवगुरुः बृहस्पतिः अहमेव इति जानीहि । सेनापतयः ये सन्ति तेषु अहं देवसेनापतिः स्कन्दः अस्मि । देवखातानि सरांसि यानि सन्ति तेषु सागरः अहमस्मि ।

सम्बद्धसम्पर्कतन्तुः[सम्पादयतु]

सम्बद्धाः लेखाः[सम्पादयतु]