किरीटिनं गदिनं...

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


श्लोकः[सम्पादयतु]

गीतोपदेशः
किरीटिनं गदिनं चक्रिणं च तेजोराशिं सर्वतो दीप्तिमन्तम् ।
पश्यामि त्वां दुर्निरीक्ष्यं समन्ताद्दीप्तानलार्कद्युतिमप्रमेयम् ॥ १७ ॥

अयं भगवद्गीतायाः एकादशोऽध्यायस्य विश्वरूपदर्शनयोगस्य सप्तदशः(१७) श्लोकः ।

पदच्छेदः[सम्पादयतु]

किरीटिनं गदिनं चक्रिणं च तेजोराशिं सर्वत: दीप्तिमन्तम् पश्यामि त्वां दुर्निरीक्ष्यं समन्तात् दीप्तानलार्कद्युतिम् अप्रमेयम् ॥ १७ ॥

अन्वयः[सम्पादयतु]

त्वां किरीटिनं गदिनं चक्रिणं तेजोराशिं सर्वत: दीप्तिमन्तं समन्तात् दीप्तानलार्कद्युतिम् अप्रमेयं दुर्निरीक्ष्यं च पश्यामि ।

शब्दार्थः[सम्पादयतु]

त्वाम् = त्वाम्
किरीटिनम् = शिरोभूषणयुक्तम्
गदिनम् = गदाधरम्
चक्रिणम् = चक्रपाणिम्
तेजोराशिम् = कान्तिपुञ्जम्
सर्वतः = सर्वत्र
दीप्तिमन्तम् = तेजस्विनम्
समन्तात् = सर्वतःदीप्तानलार्कद्युतिम् = प्रदीप्ताग्निसूर्यतुल्यतेजसम्
अप्रमेयम् = विज्ञातुमशक्यम्
दुर्निरीक्ष्यम् = दुरवलोकम्
पश्यामि = अवलोकयामि ।

अर्थः[सम्पादयतु]

त्वं किरीटवान् गदाधरः चक्रपाणिः तेजस्वी दीप्तिमान् द्रष्टुम् अशक्यः, कान्त्या अग्नेः सूर्यस्य च समानः अप्रमेयश्च वर्तसे । तादृशं त्वाम् अहं पश्यामि ।

सम्बद्धसम्पर्कतन्तुः[सम्पादयतु]

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=किरीटिनं_गदिनं...&oldid=418529" इत्यस्माद् प्रतिप्राप्तम्