किरीटिनं गदिनं...
पठन सेटिंग्स
श्लोकः
[सम्पादयतु]अयं लेखः विकिपीडिया-विश्वकोषस्य अन्यलेखैः सह संयोजनीयः । सन्दर्भानुगुणं परिसन्धयः योज्यन्ताम् । तेन(जनुवरि २०१४) |
- किरीटिनं गदिनं चक्रिणं च तेजोराशिं सर्वतो दीप्तिमन्तम् ।
- पश्यामि त्वां दुर्निरीक्ष्यं समन्ताद्दीप्तानलार्कद्युतिमप्रमेयम् ॥ १७ ॥
अयं भगवद्गीतायाः एकादशोऽध्यायस्य विश्वरूपदर्शनयोगस्य सप्तदशः(१७) श्लोकः ।
पदच्छेदः
[सम्पादयतु]किरीटिनं गदिनं चक्रिणं च तेजोराशिं सर्वत: दीप्तिमन्तम् पश्यामि त्वां दुर्निरीक्ष्यं समन्तात् दीप्तानलार्कद्युतिम् अप्रमेयम् ॥ १७ ॥
अन्वयः
[सम्पादयतु]त्वां किरीटिनं गदिनं चक्रिणं तेजोराशिं सर्वत: दीप्तिमन्तं समन्तात् दीप्तानलार्कद्युतिम् अप्रमेयं दुर्निरीक्ष्यं च पश्यामि ।
शब्दार्थः
[सम्पादयतु]- त्वाम् = त्वाम्
- किरीटिनम् = शिरोभूषणयुक्तम्
- गदिनम् = गदाधरम्
- चक्रिणम् = चक्रपाणिम्
- तेजोराशिम् = कान्तिपुञ्जम्
- सर्वतः = सर्वत्र
- दीप्तिमन्तम् = तेजस्विनम्
- समन्तात् = सर्वतःदीप्तानलार्कद्युतिम् = प्रदीप्ताग्निसूर्यतुल्यतेजसम्
- अप्रमेयम् = विज्ञातुमशक्यम्
- दुर्निरीक्ष्यम् = दुरवलोकम्
- पश्यामि = अवलोकयामि ।
अर्थः
[सम्पादयतु]त्वं किरीटवान् गदाधरः चक्रपाणिः तेजस्वी दीप्तिमान् द्रष्टुम् अशक्यः, कान्त्या अग्नेः सूर्यस्य च समानः अप्रमेयश्च वर्तसे । तादृशं त्वाम् अहं पश्यामि ।