यो न हृष्यति न द्वेष्टि...
दिखावट
श्लोकः
[सम्पादयतु]अयं लेखः विकिपीडिया-विश्वकोषस्य अन्यलेखैः सह संयोजनीयः । सन्दर्भानुगुणं परिसन्धयः योज्यन्ताम् । तेन(जनुवरि २०१४) |
- यो न हृष्यति न द्वेष्टि न शोचति न काङ्क्षति ।
- शुभाशुभपरित्यागी भक्तिमान्यः स मे प्रियः ॥ १७ ॥
अयं भगवद्गीतायाः द्वादशोऽध्यायस्य भक्तियोगस्य सप्तदशः(१७) श्लोकः ।
पदच्छेदः
[सम्पादयतु]यः न हृष्यति न द्वेष्टि न शोचति न काङ्क्षति शुभाशुभपरित्यागी भक्तिमान् यः सः मे प्रियः ॥ १७ ॥
अन्वयः
[सम्पादयतु]यः न हृष्यति न द्वेष्टि न शोचति न काङ्क्षति शुभाशुभपरित्यागी भक्तिमान् सः च मे प्रियः ।
शब्दार्थः
[सम्पादयतु]- यः न हृष्यति = यः इष्टप्राप्तौ न मोदते
- न द्वेष्टि = अनिष्टप्राप्तौ द्वेषं न करोति
- न शोचति = प्रियवियोगे दुःखं न अनुभवति
- न काङ्क्षति = अप्राप्तं न अभिलषति
- शुभाशुभपरित्यागी = इष्टानिष्टकर्मत्यागी
- भक्तिमान् = भक्तियुक्तः
- सः मे प्रियः = सः मम अभिलषितः ।
अर्थः
[सम्पादयतु]यः इष्टप्राप्तौ न मोदते, अनिष्टप्राप्तौ द्वेषं न करोति, प्रियवियोगे दुःखं न अनुभवति, अप्राप्तं न अभिलषति, इष्टानिष्टकर्मत्यागी, भक्तियुक्तः सः मम प्रियः ।