यो न हृष्यति न द्वेष्टि...

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


श्लोकः[सम्पादयतु]

गीतोपदेशः
यो न हृष्यति न द्वेष्टि न शोचति न काङ्क्षति ।
शुभाशुभपरित्यागी भक्तिमान्यः स मे प्रियः ॥ १७ ॥

अयं भगवद्गीतायाः द्वादशोऽध्यायस्य भक्तियोगस्य सप्तदशः(१७) श्लोकः ।

पदच्छेदः[सम्पादयतु]

यः न हृष्यति न द्वेष्टि न शोचति न काङ्क्षति शुभाशुभपरित्यागी भक्तिमान् यः सः मे प्रियः ॥ १७ ॥

अन्वयः[सम्पादयतु]

यः न हृष्यति न द्वेष्टि न शोचति न काङ्क्षति शुभाशुभपरित्यागी भक्तिमान् सः च मे प्रियः ।

शब्दार्थः[सम्पादयतु]

यः न हृष्यति = यः इष्टप्राप्तौ न मोदते
न द्वेष्टि = अनिष्टप्राप्तौ द्वेषं न करोति
न शोचति = प्रियवियोगे दुःखं न अनुभवति
न काङ्क्षति = अप्राप्तं न अभिलषति
शुभाशुभपरित्यागी = इष्टानिष्टकर्मत्यागी
भक्तिमान् = भक्तियुक्तः
सः मे प्रियः = सः मम अभिलषितः ।

अर्थः[सम्पादयतु]

यः इष्टप्राप्तौ न मोदते, अनिष्टप्राप्तौ द्वेषं न करोति, प्रियवियोगे दुःखं न अनुभवति, अप्राप्तं न अभिलषति, इष्टानिष्टकर्मत्यागी, भक्तियुक्तः सः मम प्रियः ।

सम्बद्धसम्पर्कतन्तुः[सम्पादयतु]

सम्बद्धाः लेखाः[सम्पादयतु]