इच्छा द्वेषः सुखं दुःखं...

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


श्लोकः[सम्पादयतु]

गीतोपदेशः
इच्छा द्वेषः सुखं दुःखं सङ्घातश्चेतना धृतिः ।
एतत्क्षेत्रं समासेन सविकारमुदाहृतम् ॥ ६ ॥

अयं भगवद्गीतायाः त्रयोदशोध्यायस्य क्षेत्रक्षेत्रज्ञविभागयोगस्य षष्ठः(६) श्लोकः ।

पदच्छेदः[सम्पादयतु]

इच्छा द्वेषः सुखं दुःखं सङ्घातः चेतना धृतिः एतत् क्षेत्रं समासेन सविकारम् उदाहृतम् ॥ ६ ॥

अन्वयः[सम्पादयतु]

महाभूतानि अहङ्कारः बुद्धि: अव्यक्तम् एव च दश एकं च इन्द्रियाणि पञ्च इन्द्रियगोचराः च इच्छा द्वेष: सुखं दु:खं सङ्घात: चेतना धृतिः च एतत् सविकारं समासेन क्षेत्रम् उदाहृतम् ।

शब्दार्थः[सम्पादयतु]

महाभूतानि = पृथिव्यादीनि पञ्च
अहङ्कारः = अहंभावः/अभिमानः
बुद्धिः = महत्तत्वम्
अव्यक्तम् = मूलप्रकृतिः
इन्द्रियाणि = नेत्रादीनि
इन्द्रियगोचराः = इन्द्रियविषयाः शब्दादयः
सङ्घातः = शरीरम्
चेतना = ज्ञानम्
सविकारम् = विकारसहितम्
उदाहृतम् = उक्तम् ।

अर्थः[सम्पादयतु]

पृथिवी, जलम्, तेजः, वायुः आकाशः चेति पञ्चभूतानि अहारः, महन्नामिका बुद्धिः, प्रकृतिः,श्रोत्रं त्वक् चक्षुः रसना घ्राणं चेति पञ्च ज्ञानेन्द्रियाणि, वाक् पाणिः पादः पायुः उपस्थश्चेति पञ्च कर्मेन्द्रियाणि, शब्दः स्पर्शः रूपं रसः गन्धश्चेति पञ्च तन्मात्राः, इच्छादयः च सप्त - एतेषां समूहः विकारविशिष्टो भवति । तत् क्षेत्रमिति कथ्यते ।

सम्बद्धसम्पर्कतन्तुः[सम्पादयतु]

सम्बद्धाः लेखाः[सम्पादयतु]