इच्छा द्वेषः सुखं दुःखं...
पठन सेटिंग्स
श्लोकः
[सम्पादयतु]अयं लेखः विकिपीडिया-विश्वकोषस्य अन्यलेखैः सह संयोजनीयः । सन्दर्भानुगुणं परिसन्धयः योज्यन्ताम् । तेन(जनुवरि २०१४) |
- इच्छा द्वेषः सुखं दुःखं सङ्घातश्चेतना धृतिः ।
- एतत्क्षेत्रं समासेन सविकारमुदाहृतम् ॥ ६ ॥
अयं भगवद्गीतायाः त्रयोदशोध्यायस्य क्षेत्रक्षेत्रज्ञविभागयोगस्य षष्ठः(६) श्लोकः ।
पदच्छेदः
[सम्पादयतु]इच्छा द्वेषः सुखं दुःखं सङ्घातः चेतना धृतिः एतत् क्षेत्रं समासेन सविकारम् उदाहृतम् ॥ ६ ॥
अन्वयः
[सम्पादयतु]महाभूतानि अहङ्कारः बुद्धि: अव्यक्तम् एव च दश एकं च इन्द्रियाणि पञ्च इन्द्रियगोचराः च इच्छा द्वेष: सुखं दु:खं सङ्घात: चेतना धृतिः च एतत् सविकारं समासेन क्षेत्रम् उदाहृतम् ।
शब्दार्थः
[सम्पादयतु]- महाभूतानि = पृथिव्यादीनि पञ्च
- अहङ्कारः = अहंभावः/अभिमानः
- बुद्धिः = महत्तत्वम्
- अव्यक्तम् = मूलप्रकृतिः
- इन्द्रियाणि = नेत्रादीनि
- इन्द्रियगोचराः = इन्द्रियविषयाः शब्दादयः
- सङ्घातः = शरीरम्
- चेतना = ज्ञानम्
- सविकारम् = विकारसहितम्
- उदाहृतम् = उक्तम् ।
अर्थः
[सम्पादयतु]पृथिवी, जलम्, तेजः, वायुः आकाशः चेति पञ्चभूतानि अहारः, महन्नामिका बुद्धिः, प्रकृतिः,श्रोत्रं त्वक् चक्षुः रसना घ्राणं चेति पञ्च ज्ञानेन्द्रियाणि, वाक् पाणिः पादः पायुः उपस्थश्चेति पञ्च कर्मेन्द्रियाणि, शब्दः स्पर्शः रूपं रसः गन्धश्चेति पञ्च तन्मात्राः, इच्छादयः च सप्त - एतेषां समूहः विकारविशिष्टो भवति । तत् क्षेत्रमिति कथ्यते ।