कट्वम्ललवणात्युष्णा...

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


श्लोकः[सम्पादयतु]

गीतोपदेशः
कट्वम्ललवणात्युष्णतीक्ष्णरूक्षविदाहिनः ।
आहारा राजसस्येष्टा दुःखशोकामयप्रदाः ॥ ९ ॥

अयं भगवद्गीतायाः सप्तदशोध्यायस्य श्रद्धात्रयविभागयोगस्य नवमः(९) श्लोकः ।

पदच्छेदः[सम्पादयतु]

कट्वम्ललवणात्युष्णतीक्ष्णरूक्षविदाहिनः आहाराः राजसस्य इष्टा दुःखशोकामयप्रदाः ॥

अन्वयः[सम्पादयतु]

कट्वम्ललवणात्युष्णतीक्ष्णरूक्षविदाहिनः दुःखशोकामयप्रदाः आहारा राजसस्य इष्टाः ।

शब्दार्थः[सम्पादयतु]

कट्वम्ललवणात्युष्णतीक्ष्णरूक्षविदाहिनः = अतिकटवः अत्यम्लाः अतिलवणाः अत्युष्णाः तीक्ष्णाः रूक्षाः दाहकराश्च
दुःखशोकामयप्रदाः = दुःखरोगादिदायकाः
राजसस्य = रजोगुणसहितस्य
इष्टाः = प्रीतिकराः ।

अर्थः[सम्पादयतु]

ये पुनः आहाराः अतिकटवः, अत्यम्लाः, अतिलवणाः, अत्युष्णाः, तीक्ष्णाः, रूक्षाः विदाहिनश्च ते दुःखम् अनारोग्यं च जनयन्ति । तादृशाः आहाराः राजसानां प्रियाः भवन्ति । (दुःखं तात्कालिकी पीडा, शोकः दौर्मनस्यम् )

सम्बद्धसम्पर्कतन्तुः[सम्पादयतु]

सम्बद्धाः लेखाः[सम्पादयतु]