कट्वम्ललवणात्युष्णा...
दिखावट
श्लोकः
[सम्पादयतु]अयं लेखः विकिपीडिया-विश्वकोषस्य अन्यलेखैः सह संयोजनीयः । सन्दर्भानुगुणं परिसन्धयः योज्यन्ताम् । तेन(जनुवरि २०१४) |
- कट्वम्ललवणात्युष्णतीक्ष्णरूक्षविदाहिनः ।
- आहारा राजसस्येष्टा दुःखशोकामयप्रदाः ॥ ९ ॥
अयं भगवद्गीतायाः सप्तदशोध्यायस्य श्रद्धात्रयविभागयोगस्य नवमः(९) श्लोकः ।
पदच्छेदः
[सम्पादयतु]कट्वम्ललवणात्युष्णतीक्ष्णरूक्षविदाहिनः आहाराः राजसस्य इष्टा दुःखशोकामयप्रदाः ॥
अन्वयः
[सम्पादयतु]कट्वम्ललवणात्युष्णतीक्ष्णरूक्षविदाहिनः दुःखशोकामयप्रदाः आहारा राजसस्य इष्टाः ।
शब्दार्थः
[सम्पादयतु]- कट्वम्ललवणात्युष्णतीक्ष्णरूक्षविदाहिनः = अतिकटवः अत्यम्लाः अतिलवणाः अत्युष्णाः तीक्ष्णाः रूक्षाः दाहकराश्च
- दुःखशोकामयप्रदाः = दुःखरोगादिदायकाः
- राजसस्य = रजोगुणसहितस्य
- इष्टाः = प्रीतिकराः ।
अर्थः
[सम्पादयतु]ये पुनः आहाराः अतिकटवः, अत्यम्लाः, अतिलवणाः, अत्युष्णाः, तीक्ष्णाः, रूक्षाः विदाहिनश्च ते दुःखम् अनारोग्यं च जनयन्ति । तादृशाः आहाराः राजसानां प्रियाः भवन्ति । (दुःखं तात्कालिकी पीडा, शोकः दौर्मनस्यम् )