सत्कारमानपूजार्थं...
दिखावट
श्लोकः
[सम्पादयतु]अयं लेखः विकिपीडिया-विश्वकोषस्य अन्यलेखैः सह संयोजनीयः । सन्दर्भानुगुणं परिसन्धयः योज्यन्ताम् । तेन(जनुवरि २०१४) |
- सत्कारमानपूजार्थं तपो दम्भेन चैव यत् ।
- क्रियते तदिह प्रोक्तंराजसं चलमध्रुवम् ॥ १८ ॥
अयं भगवद्गीतायाः सप्तदशोध्यायस्य श्रद्धात्रयविभागयोगस्य अष्टादशः(१८) श्लोकः ।
पदच्छेदः
[सम्पादयतु]सत्कारमानपूजार्थं तपः दम्भेन च एव यत् क्रियते तत् इह प्रोक्तं राजसं चलम् अध्रुवम् ॥
अन्वयः
[सम्पादयतु]सत्कारमानपूजार्थं दम्भेन च एव यत् तपः क्रियते तत् इह राजसं चलम् अध्रुवं प्रोक्तम् ।
शब्दार्थः
[सम्पादयतु]- सत्कारमानपूजार्थम् = स्तुतिबहुमानार्चनार्थम्
- दम्भेन = धार्मिकत्वेन आत्मनः ख्यापनार्थं च
- चलम् = चञ्चलम्
- अध्रुवम् = अस्थिरम्
- प्रोक्तम् = कथितम् ।
अर्थः
[सम्पादयतु]स्तुतिं बहुमानम् अर्चनं च प्राप्तुं धार्मिकतया आत्मानं ख्यापयितुं च यत् तपः क्रियते तत् राजसम् उदाहृतम् । तच्च तपः अत्रैव लोके फलदायकं न परलोके इति चलम्, फलं नियमेन न जनयति इति अध्रुवं च ।